आनुष्टुभं सवैराजमुत्तरादसृजन्मुखात्। उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे
सुरासुरपितॄन्सृष्ट्वा मनुष्यांश्च प्रजापतिः। ततः पुनः ससर्जासौ स कल्पादौ पितामहः
यक्षान्पिशाचान्गंधर्वांस्तथैवाप्सरसां गणान्। सिद्धकिन्नररक्षांसि सिंहान्पक्षिमृगोरगान्
अव्ययं च व्ययं चैव यदिदं स्थाणुजंगमम्। तत्ससर्ज तदा ब्रह्मा भगवानादिकृद्विभुः
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे। तान्येव प्रतिपद्यंते सृज्यमानाः पुनः पुनः
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते। तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते
इंद्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः। नानात्त्वं विनियोगं च धातैव व्यसृजत्स्वयं
नामरूपं च भूतानां कृत्यानां च प्रपंचनम्। वेदशब्देभ्य एवादौ देवादीनां चकार सः
ऋषीणां नामधेयानि यथा वेदे श्रुतानि वै। यथानियोगं योग्यानि अन्येषामपि सोकरोत्
यथर्तावृतुलिंगानि नानारूपाणि पर्यये। दृश्यंते तानितान्येव तथा भावा युगादिषु
करोत्येवंविधां सृष्टिं कल्पादौ स पुनःपुनः। सिसृक्षुश्शक्तियुक्तोसौ सृज्य शक्तिप्रचोदितः
भीष्म उवाच। अर्वाक्स्रोतास्तु कथितो भवता यस्तु मानुषः। ब्रह्मन्विस्तरतो ब्रूहि ब्रह्मा तमसृजद्यथा
यथा सवर्णानसृजद्गुणांश्च स महामुने। यच्च तेषां स्मृतं कर्म विप्रादीनां तदुच्यताम्
पुलस्त्य उवाच। सत्वाभिध्यायिनः पूर्वं सिसृक्षोर्ब्रह्मणः प्रजाः। अजायंत कुरुश्रेष्ठ सत्वोद्रिक्ता मुखात्प्रजाः
वक्षसो रजसोद्रिक्तास्तथान्या ब्रह्मणोभवन्। रजसस्तमसश्चैव समुद्रिक्तास्तथोरुतः
पद्भ्यामन्याः प्रजा ब्रह्मा ससर्ज कुरुसत्तम। तमःप्रधानास्ताः सर्वाश्चातुर्वर्ण्यमिदं ततः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम। पादोरुवक्षस्थलतो मुखतश्च समुद्गताः
यज्ञनिष्पत्तये सर्वमेतद्ब्रह्मा चकार ह। चातुर्वर्ण्यं महाराज यज्ञसाधनमुत्तमम्
यज्ञेनाप्यायिता देवा वृष्ट्युत्सर्गेण मानवाः। आप्यायंते धर्मयज्ञा यतः कल्याणहेतवः
निष्पद्यंते नरैस्ते तु सुकर्मनिरतैः सदा। विरुद्धाचरणापेतैः सद्भिः सन्मार्गगामिभिः
स्वर्गापवर्गं मानुष्यात्प्राप्नुवंति नरा नृप। यच्चाभिरुचितं स्थानं तद्यांति मनुजा विभो
प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्वर्ण्यव्यवस्थितौ। सम्यक्शुद्धाः समाचारा चरणा नृपसत्तम
यथेच्छावासनिरताः सर्वबाधाविवर्जिताः। शुद्धांतःकरणाः शुद्धा धर्मानुष्ठाननिर्मलाः
शुद्धे च तासां मनसि शुद्धांतःसंस्थिते हरौ। शुद्धज्ञानं प्रपश्यंति ब्रह्माख्यं येन तत्पदं
ततः कालात्मको योसौ विरिंचा वा स उच्यते। संसारपातमत्यर्थं घोरमल्पाल्पसारवत्
अधर्मबीजभूतं तत्तमोलोभसमुद्गतम्। प्रजासु तासु राजेंद्र रागादिक्रमसाधनम्
ततः सा सहजासिद्धिस्तेषां नातीव जायते। राजन्वश्यादयश्चान्याः सिद्धयोष्टौ भवंति याः
तासु क्षीणास्वशेषासु वर्द्धमाने च पातके। द्वंद्वाभिभवदुःखार्तास्ता भवंति ततः प्रजाः
ततो दुर्गाणि ताश्चक्रुर्वार्क्षं पार्वतमौदकम्। धान्वनं च तथा दुर्गं पुरं खार्वटकादि यत्
गृहाणि च यथान्यायं तेषु चक्रुः पुरादिषु। शीततापादिबाधानां प्रशमाय महामते