रजोमात्रोत्कटा जाता मनुष्याः कुरुसत्तम। तामप्याशु स तत्याज तनुमाद्यां प्रजापतिः
ज्योत्स्ना समभवच्चापि प्राक्संध्या याभिधीयते। ज्योत्स्नागमे तु बलिनो मनुष्याः पितरस्तथा
राजेंद्र संध्यासमये तस्मात्ते प्रभवंति वै। ज्योत्स्ना रात्र्यहनी सन्ध्या चत्वार्येतानि वै विभोः
ब्रह्मणस्तु शरीराणि त्रिगुणोपाश्रयाणि च। रजोमात्रात्मिकामेव ततोन्यां जगृहे तनुं
ततः क्षुद्ब्रह्मणोजाता जज्ञे कोपस्तया कृतः। क्षुत्क्षामो ह्यंधकारे तु सोसृजद्भगवांस्ततः
विरूपा अत्तुकामास्ते समधावंत तं प्रभुम्। रक्षतामेष यैरुक्तं राक्षसास्ते ततोभवन्
ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु तेभवन्। अतिभीतस्य तान्दृष्ट्वा केशाः शीर्यन्ति वेधसः १०० 1.3.
हीनाश्च शिरसो भूयः समारोहंति ते शिरः। सर्पणात्तेभवन्सर्पा हीनत्वादहयः स्मृताः
ततः क्रुद्धेन वै स्रष्ट्रा क्रोधात्मानो विनिर्मिताः। वर्णेन कपिशेनोग्रा भूतास्ते पिशिताशिनः
धयतो गां समुद्भूता गंधर्वास्तस्य तत्क्षणात्। पिबंतो जज्ञिरे वाचं गंधर्वास्तेन तेऽभवन्
एतानि सृष्ट्वा भगवान्ब्रह्मा तच्छक्तिचोदितः। ततः स्वच्छंदतोऽन्यानि वयांसि वयसोऽसृजत्
अवयो वक्षसश्चक्रे मुखतोजांश्च सृष्टवान्। सृष्टवानुदराद्गाश्च महिषांश्च प्रजापतिः
पद्भ्यां चाश्वान्स मातंगान्रासभान्गवयान्मृगान्। उष्ट्रानश्वतरांश्चैव न्यंकूनन्याश्च जातयः
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे। त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ नृपोत्तम
सृष्ट्वा पश्वोषधीस्सम्यक्युयोज स तदाध्वरे। गामजं महिषम्मेषमश्वाश्वतरगर्दभान्
एतान्ग्राम्यपशूनाहुरारण्यांश्च निबोधमे। श्वापदो द्विखुरो हस्ती वानरः पञ्चमः खगः
उष्ट्रकाः पशवष्षष्ठास्सप्तमास्तु सरीसृपाः। गायत्रं च ऋचश्चैव त्रिवृत्सोमं रथन्तरम्
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात्। यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात्। सामानि जगतीच्छन्दः स्तोमं सप्तदशं तथा
वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात्। एकविंशमथर्वाणमप्तोर्यामाणमेव च
आनुष्टुभं सवैराजमुत्तरादसृजन्मुखात्। उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे
सुरासुरपितॄन्सृष्ट्वा मनुष्यांश्च प्रजापतिः। ततः पुनः ससर्जासौ स कल्पादौ पितामहः
यक्षान्पिशाचान्गंधर्वांस्तथैवाप्सरसां गणान्। सिद्धकिन्नररक्षांसि सिंहान्पक्षिमृगोरगान्
अव्ययं च व्ययं चैव यदिदं स्थाणुजंगमम्। तत्ससर्ज तदा ब्रह्मा भगवानादिकृद्विभुः
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे। तान्येव प्रतिपद्यंते सृज्यमानाः पुनः पुनः
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते। तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते
इंद्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः। नानात्त्वं विनियोगं च धातैव व्यसृजत्स्वयं
नामरूपं च भूतानां कृत्यानां च प्रपंचनम्। वेदशब्देभ्य एवादौ देवादीनां चकार सः
ऋषीणां नामधेयानि यथा वेदे श्रुतानि वै। यथानियोगं योग्यानि अन्येषामपि सोकरोत्
यथर्तावृतुलिंगानि नानारूपाणि पर्यये। दृश्यंते तानितान्येव तथा भावा युगादिषु