तं दृष्ट्वा साधकं सर्गममन्यदपरं प्रभुः। तस्याभिध्यायतस्सर्गस्तिर्यक्स्रोतोभ्यवर्तत
यस्मात्तिर्यक्प्रवृत्तिः स्यात्तिर्यक्स्रोतस्ततः स्मृतः। पश्वादयस्ते विख्यातास्तमः प्राया ह्यवेदिनः
उत्पथग्राहिणश्चैव ते ज्ञाने ज्ञानमानिनः। अहंकृतास्त्वहंमाना अष्टाविंशद्विधात्मकाः। अंतःप्रकाशास्ते सर्व आवृतास्ते परस्परम्
तमप्यसाधकं मत्वा ध्यायतोन्यस्ततोभवत्। ऊर्द्ध्वस्रोतस्तृतीयस्तु सात्विकोर्ध्वमवर्तत
ते सुखप्रीतिबहुला बहिरंतरनावृताः। प्रकाशा बहिरंतश्च ऊर्द्ध्वस्रोतास्ततः स्मृताः
तुष्टात्मनस्तृतीयस्तु देवसर्गस्तु संस्मृतः। तस्मिन्सर्गे भवत्प्रीतिर्निष्पन्ने ब्रह्मणस्तदा
ततोन्यं स तदा दध्यौ साधकं सर्गमुत्तमम्। असाधकांस्तुतान्ज्ञात्वा मुख्यसर्गादिसंभवान्
तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः। प्रादुर्भूतस्तदाव्यक्तादर्वाक्स्रोतस्तु साधकः
यस्मादर्वाक्प्रवर्तंते ततोऽवाक्स्रोतसस्तु ते। ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः
तस्मात्ते दुःखबहुला भूयोभूयश्च कारिणः। प्रकाशा बहिरंतश्च मनुष्याः साधकाश्च ते
पंचमोनुग्रहः सर्गः स चतुर्द्धा व्यवस्थितः। विपर्ययेण सिद्ध्या च शक्त्या तुष्ट्या तथैव च ७३ (तुलनीय - ब्रह्माण्ड पुराणम् [https://sa.wikisource.org/s/89a १.१.५.६१], लिङ्ग पुराणम् [https://sa.wikisource.org/s/4ii १.७०.१५८])। विवृत्तं वर्त्तमानं च ते न जानंति वै पुनः। भूतादिकानां भूतानां षष्ठः सर्गः स उच्यते
ते परिग्राहिणः सर्वे सविभागतरास्तु ते। चोदना जाप्यशीलाश्च ज्ञेया भूतादिकास्तु ते
इत्येते कथिताः सर्गाः षडत्र नृपसत्तम। प्रथमो महतस्सर्गो द्वितीयो ब्रह्मणस्तु यः
तन्मात्राणां द्वितीयस्तु भूतसर्गोहि स स्मृतः। वैकारिकस्तृतीयस्तु सर्गश्चैंद्रियकः स्मृतः
इत्येष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः। मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः
तिर्यक्स्रोतश्च यः प्रोक्तस्तिर्यग्योन्यस्स उच्यते। ततोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः
ततोर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः। अष्टमोनुग्रहः सर्गः सात्विकस्तामसस्तु सः
पंचैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः। प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः
एते तव समाख्याता नवसर्गाः प्रजापतेः। प्राकृता वैकृताश्चैव जगतो मूलहेतवः
सृजतो जगदीशस्य किमन्यच्छ्रोतुमर्हसि। भीष्म उवाच। संक्षेपात्कथिताः सर्गा देवादीनां गुरोस्तथा
विस्तराच्छ्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम। पुलस्त्य उवाच। कर्मभिर्भाविताः सर्वेकुशलाकुशलैस्तु ते
ख्यात्या तया ह्यनिर्मुक्ताः संहारे ह्युपसंहृताः। स्थावरान्तास्सुराद्यास्तु प्रजा राजंश्चतुर्विधाः
ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसाः स्मृताः। ततो देवासुरपितॄन्मानुषांस्तु चतुष्टयं
सिसृक्षुरंभांस्येतानि स्वमात्मानमयूयुजत्। मुक्तात्मनस्ततो जाता दुरात्मानः प्रजापतेः
सिसृक्षोर्जघनात्पूर्वं जज्ञिरे त्वसुरास्ततः। तत्याज तां ततो दुष्टान्तमोमात्रात्मिकां तनुं
सा तु त्यक्ता तनुस्तेन राजेंद्राभूद्विभावरी। सिसृक्षुरन्यदेहस्थः प्रीतिमापुस्ततः सुराः
सत्वोद्रिक्ताः समुद्भूता मुखतो ब्रह्मणो नृप। त्यक्ता सापि तनुस्तेन सत्वप्रायमभूद्दिनं
ततो हि बलिनो रात्रावसुरा देवतादि वा। सत्वमात्रात्मिकां चैव ततोन्यां जगृहे तनुम्
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे। उत्ससर्ज पितॄन्कृत्वा ततस्तामपि स प्रभुः
सा चोत्सृष्टा भवत्संध्या दिननक्तांतरा स्थितिः। रजोमात्रात्मिकामन्यां जगृहे स तनुं ततः