मामुद्धरास्मादद्य त्वं त्वत्तोहं पूर्वमुत्थिता। परमात्मन्नमस्तेस्तु पुरुषात्मन्नमोस्तु ते
प्रधानव्यक्तरूपाय कालभूताय ते नमः। त्वं कर्त्तासर्वभूतानां त्वं पाता त्वं विनाशकृत्
सर्गादौ यः परोब्रह्मा विष्णुरुद्रात्मरूपधृक्। भक्षयित्वा च सकलं जगत्येकार्णवीकृते
शेषे त्वमेव गोविन्द चिन्त्यमानो मनीषिभिः। भवतो यत्परं रूपं तन्न जानाति कश्चन
अवतारेषु यद्रूपं तदर्चन्ति दिवौकसः। त्वामाराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः
वासुदेवमनाराध्य को हि मोक्षमवाप्स्यति। यद्रूपं मनसा ग्राह्यं यद्ग्राह्यं चक्षुरादिभिः
बुद्ध्या च यत्परिछेद्यं तद्रूपमखिलं तव। त्वन्मय्यहं त्वदाधारात्वत्सृष्टा त्वामुपाश्रिता
माधवीमिति लोकोयमभिधत्ते ततो हि माम्। एवं संस्तूयमानस्तु पृथिव्या पृथिवीधरः
सामस्वरध्वनिः श्रीमान्जगर्ज परिघर्घरम्। ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः। रसातलादुत्पलपत्रसन्निभः समुत्थितो नील इवाचलो महान्
उत्तिष्ठता तेन मुखानिलाहतं तदाप्लवांभो जनलोक संश्रयान्। सनंदनादीनपकल्मषान्मुनींश्चकार भूयोपि पवित्रतास्पदम्
प्रयांति तोयानि खुराग्रविक्षते रसातलेऽधकृतशब्दसंततिः। बलाहकानां च तति स्तुतस्य श्वासानिलास्ता परितः प्रयाति
उत्तिष्ठतस्तस्य जलार्द्रकुक्षेर्महावराहस्य महीं विदार्य। विधून्वतो वेदमयं श(शि?)रीरं रोमांतरस्था मुनयो जुषंति
जनेश्वराणां परमेश केशव प्रभुर्गदा शंखदरासिचक्रधृक्। प्रभूति नाश स्थिति हेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदम्
पादेषु वेदास्तव यूपदंष्ट्रा दंतेषु यज्ञाः श्रुतयश्च वक्त्रे। हुताश जिह्वोसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव
द्यावापृथिव्योरतुलप्रभाव यदंतरं तद्वपुषा तवैव। व्याप्तं जगद्वापि समस्तमेतद्धिताय विश्वस्य विभो भवत्वम्
परमात्मा त्वमेवैको नान्योस्ति जगतः पते
तवैष महिमा येन व्याप्तमेतच्चराचरं। ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः
अर्थस्वरूपं पश्यंतो भ्राम्यंते तमसः प्लवे। ये तु ज्ञानविदश्शुद्धचेतसस्तेऽखिलं जगत् ५० 1.3.
ज्ञानात्मकं प्रपश्यंति त्वद्रूपं परमेश्वर। प्रसीद सर्वभूतात्मन्भवाय जगतस्त्विमाम्
उद्धरोर्वीममेयात्मन्निमग्नामब्जलोचन। सत्वोद्रिक्तोसि भगवन्गोविंद पृथिवीमिमाम्
समुद्धर भवायेश कुरु सर्वजगद्धितं। एवं संस्तूयमानश्च परमात्मा महीधरः
उज्जहार क्षितिं क्षिप्रं न्यस्तवान्स महार्णवे। तस्योपरि जलौघेस्य महती नौरिवस्थिता
ततः क्षितिं समां कृत्वा पृथिव्यामचिनोद्गिरीन्। यथाविभागं भगवाननादिः पुरुषोत्तमः
भूविभागं ततः कृत्वा सप्तद्वीपान्यथातथं। भूताद्यांश्चतुरोलोकान्पूर्ववत्समकल्पयत्
ब्रह्मणे विष्णुना पूर्वमेतदेव प्रदर्शितं। तुष्टेन देवदेवेन त्वं देवः पुरुषोत्तमः
त्वया मया जगच्चेदं धार्यं पाल्यं च यत्नतः। येषां त्वसुरमुख्यानां वरो दत्तो मयाधुना
देवानां हितकामेन हंतव्यास्ते त्वया विभो। अहं सृष्टिं करिष्यामि सा च पाल्या त्वया विभो
एवमुक्तो गतो विष्णुर्देवादीनसृजद्विभुः। अबुद्धिपूर्वकस्तस्य प्रादुर्भूतस्तमोमयः
तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञकः। पंचधावस्थितः सर्गो ध्यायतस्तु महात्मनः
बहिरंतश्चाप्रकाशः संवृतात्मा नगात्मकः। मुख्यानागायतश्चोक्ता मुख्यसर्गस्ततस्त्वयं