भवंति परिमाणं च तेषां कालकृतं शृणु। सप्तर्षयः सुराः शक्रो मनुस्तत्सूनवो नृप
एककाले हि सृज्यंते संह्रियंते च पूर्ववत्। चतर्युगानां संख्याता साधिका ह्येकसप्ततिः
मन्वंतरं मनोः कालः सुरादीनां च पार्थिव। अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतः
द्विपंचाशत्तथान्यानि सहस्राण्यधिकानि च। त्रिंशत्कोट्यस्तु संपूर्णाः संख्याताः संख्यया नृप
सप्तषष्टिस्तथान्यानि नियुतानि महामते। विंशतिश्च सहस्राणि कालोयमधिकं विना
मन्वंतरस्य संख्येयं मानुषैरिह वत्सरैः। चतुर्द्दशगुणो ह्येष कालो ब्राह्ममहः स्मृतम्
ब्राह्मो नैमित्तिको नाम तस्यांते प्रतिसंचरः। तदाहि दह्यते सर्वं त्रैलोक्यं भूर्भुवादिकम्
जनं प्रयांति तापार्त्ता महर्लोकनिवासिनः। एकार्णवे तु त्रैलोक्ये ब्रह्मा ब्रह्मविदां वरः
भोगिशय्यागतः शेते त्रैलोक्यग्रासबृंहितः। जनस्थैर्योगिभिर्द्देवश्चिंत्यमानो जगद्विभुः
तत्प्रमाणां हि तां रात्रिं तदंते सृजते पुनः। एवं तु ब्रह्मणो वर्षमेवं वर्षशतं च तत्
शतं हि तस्य वर्षाणां परमायुर्महात्मनः। एकमस्य व्यतीतं तु परार्धं ब्रह्मणोनघ
तस्यान्तेभून्महाकल्पः पाद्म इत्यभिविश्रुतः। द्वितीयस्य परार्धस्य वर्तमानस्य वै नृप
वाराह इति कल्पोयं प्रथमः परिकल्पितः। ब्रह्मा नारायणाख्योसौ कल्पादौ भगवान्यथा
ससर्ज सर्वभूतानि तदाचक्ष्व महामुने। पुलस्त्य उवाच। प्रजाः ससर्ज भगवाननादिस्सर्वसंभवः
अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः। सत्वोद्रिक्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत
तोयान्तस्स महीं ज्ञात्वा निमग्नां वारिसंप्लवे। प्रविचिंत्य तदुद्धारं कर्तुकामः प्रजापतिः
विष्णुरूपं तदा ज्ञात्वा पृथ्वीं वोढुं स्वतेजसा। मत्स्यकूर्मादिकां चान्यां वाराहीं तनुमाविशत्
वेदयज्ञमयं रूपमाश्रित्य जगतः स्थितौ। स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः
प्रविवेशे तदा तोयं तोयाधारे धराधरः। निरीक्ष्य तं तदा देवी पातालतलमागतम्
तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुंधरा। पृथिव्युवाच। नमस्ते सर्वभूताय नमस्ते परमात्मने
मामुद्धरास्मादद्य त्वं त्वत्तोहं पूर्वमुत्थिता। परमात्मन्नमस्तेस्तु पुरुषात्मन्नमोस्तु ते
प्रधानव्यक्तरूपाय कालभूताय ते नमः। त्वं कर्त्तासर्वभूतानां त्वं पाता त्वं विनाशकृत्
सर्गादौ यः परोब्रह्मा विष्णुरुद्रात्मरूपधृक्। भक्षयित्वा च सकलं जगत्येकार्णवीकृते
शेषे त्वमेव गोविन्द चिन्त्यमानो मनीषिभिः। भवतो यत्परं रूपं तन्न जानाति कश्चन
अवतारेषु यद्रूपं तदर्चन्ति दिवौकसः। त्वामाराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः
वासुदेवमनाराध्य को हि मोक्षमवाप्स्यति। यद्रूपं मनसा ग्राह्यं यद्ग्राह्यं चक्षुरादिभिः
बुद्ध्या च यत्परिछेद्यं तद्रूपमखिलं तव। त्वन्मय्यहं त्वदाधारात्वत्सृष्टा त्वामुपाश्रिता
माधवीमिति लोकोयमभिधत्ते ततो हि माम्। एवं संस्तूयमानस्तु पृथिव्या पृथिवीधरः
सामस्वरध्वनिः श्रीमान्जगर्ज परिघर्घरम्। ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः। रसातलादुत्पलपत्रसन्निभः समुत्थितो नील इवाचलो महान्
उत्तिष्ठता तेन मुखानिलाहतं तदाप्लवांभो जनलोक संश्रयान्। सनंदनादीनपकल्मषान्मुनींश्चकार भूयोपि पवित्रतास्पदम्