शब्दादिभिर्गुणैर्वीर युक्तानीत्युत्तरोत्तरैः। शांता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः
नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना। नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य कृत्स्नशः
समेत्यान्योन्यसंयोगात्परस्परसमाश्रयात्। एकसंघातलक्षाश्च संप्राप्यैक्यमशेषतः
पुरुषाधिष्ठितत्वाच्च व्यक्तानुग्रहणे तथा। महदादयो विशेषांता ह्यंडमुत्पादयंति वै
तत्क्रमेण विवृत्तं तु जलबुद्बुदवत्समम्। तत्राव्यक्तस्वरूपोसौ व्यक्तरूपी जनार्दनः
ब्रह्माब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः। मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः
गर्भोदकं समुद्राश्च तस्यासंश्च महात्मनः। तत्र द्वीपास्समुद्राश्च सज्योतिर्लोकसंग्रहः
तस्मिन्नंडेऽभवन्वीर सदेवासुरमानुषाः। वारि वह्न्यनिलाकाशैर्वृतैर्भूतादिना बहिः
वृतं दशगुणैरंडं भूतादिर्महता तथा। अव्यक्तेनावृतो राजंस्तैः सर्वैः सहितो महान्
एभिरावरणैः सर्वैः सर्वभूतैश्च संयुतम्। नारिकेलफलं यद्वद्बीजं बाह्यदलैरिव
ब्रह्मा स्वयं च जगतो विसृष्टौ संप्रवर्त्तते। सृष्टिं च पात्यनुयुगं यावत्कल्पविकल्पना
स संज्ञां याति भगवानेक एव जनार्दनः। सत्वभुग्गुणवान्देवो ह्यप्रमेय पराक्रमः
तमोद्रेकं च कल्पांते रूपं रौद्रं करोति च। राजेंद्राखिलभूतानि भक्षयत्यतिभीषणः
भक्षयित्वा च भूतानि जगत्येकार्णवीकृते। नागपर्यंकशयने शेते सर्वस्वरूपधृक्
प्रबुद्धश्च पुनः सृष्टिं प्रकरोति च रूपधृक्। सृष्टिस्थित्यंतकरणाद्ब्रह्मविष्णुशिवात्मकः
स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च। उपसंह्रियते चापि संहर्त्ता च स्वयं प्रभुः
पृथिव्यापस्तथा तेजो वायुराकाशमेव च। स एव सर्वभूतेशो विश्वरूपो यतोव्ययः
सर्गादिकं ततोस्यैव भूतस्थमुपकारकम्। स एव सृज्यः स च सर्गकर्त्ता स एव पाल्यं प्रतिपाल्यते यतः। ब्रह्माद्यवस्थाभिरशेषमूर्त्तिर्ब्रह्मा वरिष्ठो वरदो वरेण्यः
भीष्म उवाच। निर्गुणस्याप्रमेयस्य शुद्धस्याथ महात्मनः। कथं सर्गादिकर्त्तृत्वं ब्रह्मणो ह्युपपद्यते
पुलस्त्य उवाच। शक्तयः सर्वभावानामचिंत्या ज्ञानगोचराः। यत्ततो ब्रह्मणस्तास्तुसर्गाद्या भावशक्तयः
उत्पन्नः प्रोच्यते विद्वान्नित्य एवोपचारतः। निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम्
तत्पराख्यं परार्द्धं च तदर्द्धं परिकीर्त्तितम्। काष्ठा पंचदशाख्या ता निमेषा नृपसत्तम
काष्ठा स्त्रिंशत्कला त्रिंशत्कला मौहूर्त्तिको विधिः। तावत्संख्यैरहोरात्रं मुहूर्त्तैर्मानुषं स्मृतम्
अहोरात्राणि तावंति मासः पक्षद्वयात्मकः। तैष्षड्भिरयनं वर्षमयने दक्षिणोत्तरे
अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम्। दिव्यैर्वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितम्
चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे। चत्वारि त्रीणिद्वे चैकं कृतादिषु यथाक्रमम्
दिव्याब्दानां सहस्राणि युगेष्वाहुः पुराविदः। तत्प्रमाणैः शतैः संध्या पूर्वा तत्राभिधीयते
संध्यांशकश्च तत्तुल्यो युगस्यानंतरो हि यः। संध्यासंध्यांशयोरंतः कालो यो नृपसत्तम
युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञितः। कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगम्
प्रोच्यते तत्सहस्रं तु ब्रह्मणो दिवसं नृप। ब्रह्मणो दिवसे राजन्मनवश्च चतुर्दश