ये च कुर्वंति पुरुषाः स्त्रियो वा भक्तितत्पराः । ते सर्वे पापनिर्मुक्ता यांति ब्रह्मसनातनम्
नेत्ररोगा विनश्यंति यथा पापप्रभावजाः । आधयो व्याधयः सर्वे नश्यंते हि कृतेक्षणात्
न दारिद्र्यं न शोकं च न मोहो न च विभ्रमः । गृहे लक्ष्मीः समायाति जन्मजन्मनि वाडव
महादेव उवाच- दृष्ट्वा शतक्रतुं सिद्धं समाप्तवरदक्षिणम् । मघवा जातसंकल्पः पर्यपृच्छद्बृहस्पतिम्
भगवन्केन दानेन सर्वतः सुखमेधते । यदक्षयं महार्घं च तन्मे ब्रूहि महातपः
एवमिंद्रेण चोक्तोऽसौ देवदेवः पुरोहितः । प्रहस्य तं महाप्राज्ञो बृहस्पतिरुवाचह
हिरण्यदानं गोदानं भूमिदानं च वासव । एतत्प्रयच्छमानस्तु सर्वपापैः प्रमुच्यते
सुवर्णं रजतं वस्त्रं मणिरत्नं च वासव । सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति
फालकृष्टां महीं दत्वा सबीजां सस्यमालिनीम् । यावत्सूर्यकृतालोकस्तावत्स्वर्गेमहीयते
यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्षितः । अपि गोचर्ममात्रेण भूमिदानेन शुध्यति
दशहस्तेन दंडोऽत्र त्रिंशद्दंडानि वर्तनम् । दशतान्येव गोचर्म्म ब्रह्मगोचर्मलक्षणम्
सवृषं गोसहस्रं तु यत्र तिष्ठत्ययंत्रितम् । बालवत्सप्रसूतानां तद्गोचर्म इति स्मृतम्
विप्राय दद्याच्च गुणान्विताय तपोयुताय प्रजितेंद्रियाय । यावन्मही तिष्ठति सागरांता तावत्फलं तस्य भवेदनंतम्
यथाप्सु पतितः शक्र तैलबिंदुः प्रसर्पति । एवंभूमिकृतं दानं सस्ये सस्ये प्रसर्पति
यथाबीजानि रोहंति प्रचीर्णानि महीतले । एवं कामान्प्ररोहंति भूमिदानसमन्विताः
अन्नदाः सुखिनो नित्यं वस्त्रदो रूपवान्भवेत् । स नरः सर्वदो भूयो यो ददाति वसुंधराम्
यथा गौर्भरते वत्सं क्षीरमुत्सृज्य क्षीरिणी । एवं दत्ता सहस्राक्ष भूमिर्भरति भूमिदम्
शंखो भद्रासनं छत्रं वराश्ववरवारणाः । भूमिदानस्य पुण्यस्य फलं स्वर्गः पुरंदर
आदित्यो वरुणो वह्निर्ब्रह्मा सोमो हुताशनः । शूलपाणिश्च भगवानभिनंदंति भूमिदम्
आस्फोटयंति पितरो वर्णयंति पितामहाः । भूमिदाता कुले जातः स नस्त्राता भविष्यति
त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती । नरकादुद्धरंत्येते जपवापनदोहनात्
दुर्गतिं तारयंत्येते विद्वद्भिर्विप्रधारणैः । प्रावृता वस्त्रदा यांति नग्ना यान्तित्ववस्त्रदाः
तृप्ता यांत्यन्नदातारः क्षुधिता यांत्यनन्नदाः । कांक्षंति पितरः सर्वे नरकाद्भयभीरवः
गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् । लोहितो यस्तु वर्णेन पुच्छाग्रे यस्तु पांडुरः
श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते । नीलः पांडुरलांगूलस्तोयमुद्धरते तु यः
षष्टिं वर्षसहस्राणि पितरस्तेन तर्पिताः । यच्च शृंगगतं पंकं कुलं तिष्ठति चोद्धृतम्
पितरस्तस्य चाश्नंति सोमलोकं महाद्युतिम् । आसीद्राज्ञो दिलीपस्य नृगस्य नहुषस्य च
अन्येषां तु नरेंद्राणां पुनरन्यो न गच्छति । बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः
यस्य यस्य यदा भूमिस्तस्यतस्य तदा फलम् । ब्रह्मघ्नो वाथ स्त्रीहंता बालघ्नः पतितोऽथवा