इयं ब्रसी मया क्लप्ता आस्यतां सुखदा कृता। अर्घ्यपात्रे तु पालाशे दूर्वाक्षतसुमैः कुशैः
सर्षपैश्च दधिक्षौद्रैर्यवैश्च पयसा सह। अष्टांगो ह्येष निर्द्दिष्टो ह्यर्घो हि मुनिभिः पुरा
श्रुत्वैतद्वचनं तस्य भीष्मस्यामिततेजसः। उपविष्टो ब्रह्मसुतः पुलस्त्यो भगवानृषिः
विष्टरं सहपाद्येन अर्घपात्रं मुदान्वितः। जुजोष भगवान्प्रीतः सदाचारेण तेन तु
पुलस्त्य उवाच। सत्यवान्दानशीलोसि सत्यसंधिर्नरेश्वरः। ह्रीमान्मैत्रः क्षमाशीलो विक्रांतः शत्रुशासने
धर्मज्ञस्त्वं कृतज्ञस्त्वं दयावान्प्रियभाषिता। मान्यमानयिता विज्ञो ब्रह्मण्यः साधुवत्सलः
तुष्टस्तेहं सदा वत्स प्रणिपातपरस्य वै। प्रब्रूहि त्वं महाभाग कथनं ते वदाम्यहम्
भीष्म उवाच। भगवन्भगवान्ब्रह्मा कस्मिन्काले स्थितो विभुः। सृष्टिं चकार वै पूर्वं देवादीनां वदस्व मे
स्थितिं वा भगवान्विष्णुः कथं रुद्रस्तु निर्मितः। कथं वा ऋषयो देवास्सृष्टास्तेन महात्मना
कथं पृथ्वी कथं व्योम कथं चेमे तु सागराः। कथं द्वीपाः पर्वताश्च ग्रामारण्यपुराणि च
मुनीन्प्रजापतींश्चैव सप्तर्षीन्प्रवरानपि। वर्णान्वायुं पुरास्थानं गंधर्वान्यक्षराक्षसान्
तीर्थानि सरितो वाथ सूर्यादीन्ग्रहतारकान्। यथा ससर्ज भगवांस्तथा मे त्वं वदस्व ह
पुलस्त्य उवाच। परः पराणां परमः परमात्मा पितामहः। रूपवर्णादिरहितो विशेषण विवर्जितः
अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः। गुणैर्विवर्जितः सर्वैः स भातीति हि केवलम्
सर्वत्रासौ समश्चापि वसन्ननुपमो मतः। भावयन्ब्रह्मरूपेण विद्वद्भिः परिपठ्यते
तं गुह्यं परमं नित्यमजमक्षयमव्ययम्। तथा पुरुषरूपेण कालरूपेण संस्थितम्
तं नत्वाहं प्रवक्ष्यामि यथा सृष्टिं चकार ह। पूर्वं तु पद्मशयनादुत्थाय जगतःप्रभुः
गुणव्यंजनसंभूतः सर्गकाले नराधिप। सात्विको राजसश्चैव तामसश्च त्रिधा महान्
प्रधानतत्वेन समं तथा बीजादिभिर्वृतः। वैकारिकस्तैजसश्च भूतादिश्चैव तामसः
त्रिविधोयमहंकारो महत्तत्त्वादजायत। भूतेंद्रियाणां पंचानां तथा कर्मेन्द्रियैः सह
पृथिव्यापस्तथातेजो वायुराकाशमेव च। एकैकशः स्वरूपेण कथयामि यथोत्तरम्
शब्दमात्रमथाकाशं भूतादिः खं समावृणोत्। अथाकाशं विकुर्वाणं स्पर्शमात्रं ससर्ज ह
बलवानेष वै वायुस्तस्य स्पर्शो गुणो मतः। आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत्
ततो वायुर्विकुर्वाणो रूपमात्रं ससर्ज ह। ज्योतीरूपन्तु तद्वायुस्तद्रूपगुणमुच्यते
स्पर्शरूपस्तु वै वायू रूपमात्रं समावृणोत्। ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह
संभवंति ततोंभांसि रूपमात्रं समावृणोत्। विकुर्वाणानि चांभांसि गंधमात्रं ससर्जिरे
संघातो जायते तस्मात्तस्य गंधो मतो गुणः। तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश
एकादशम्मनश्चात्र देवा वैकारिकाः स्मृताः। त्वक्चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पंचमम्१०० 1.2.
एतेषां तु मतं कृत्यं शब्दादि ग्रहणं पुनः। वाक्पाणिपादपायूनि चोपस्थं तत्र पञ्चमम्
विसर्गशिल्पगत्युक्तिर्गुणा एषां विपर्ययात्। आकाश वायु तेजांसि सलिलं पृथिवी तथा