विष्णुभक्तो विशेषेण रोगग्रहविषार्दिते । विषार्त्तानां रोगिणां च कुर्याच्छांतिमिमां शुभाम्
जायते तेन भो विप्र सर्वरोगप्रणाशनम् । ॐनमः श्रीपरमार्थाय पुरुषाय महात्मने
अरूपबहुरूपाय व्यापिने परमात्मने । वाराहं नारसिंहं च वामनं च सुखप्रदम्
ध्यात्वा कृत्वा नमो विष्णोर्नामान्यंगेषु विन्यसेत् । निष्कल्मषाय शुद्धाय व्याधिपापहराय वै
गोविंदपद्मनाभाय वासुदेवाय भूभृते । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः
त्रिविक्रमाय रामाय वैकुंठाय नराय च । श्रीवाराहनृसिंहाय वामनाय महात्मने
हयग्रीवाय शुभ्राय हृषीकेश हराशुभम् । परोपतापमहितं प्रमुक्तं चाभिचारिकम्
गरस्पर्शमहारोगप्रयोगं जरयाजर । नमोऽस्तु वासुदेवाय नमः कृष्णाय खड्गिने
नमः पुष्करनेत्राय केशवायादिचक्रिणे । नमः किंजल्कवर्णाग्र्य पीतनिर्मलवाससे
महादेव वपुष्कंध धृतचक्राय चक्रिणे । दंष्ट्रोद्धृतक्षितितलत्रिमूर्तिपतये नमः
महायज्ञवराहाय श्रीवल्लभ नमोस्तु ते । तप्तहाटककेशांत ज्वलत्पावकलोचनः
वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते । कश्यपायातिह्स्वाय ऋग्यजुः सामलक्षण
तुभ्यं वामनरूपाय क्रमते गां नमोनमः । वाराहाशेषदुःखानि सर्वपापफलानि च
मर्दमर्द महादंष्ट्र मर्दमर्द च तत्फलम् । नृसिंहकुलिशस्पर्श दंतप्रांत नखोज्वल
भंजभंज निनादेन दुःखान्यस्यार्त्तिनाशन । ऋग्यजुःसामभिर्वाग्भिः कामरूपधरादिधृक्
प्रशमं सर्वदुःखानि नयत्वस्य जनार्दनः । एकाहिकं द्व्याहिकं च तथा त्रिदिवसज्वरम्
चातुर्थिकं तथात्युग्रं तथा वै सततज्वरम् । दोषोत्थं सन्निपातोत्थं तथैवागंतुकज्वरम्
शमं नयतु गोविंदो भित्वा छित्वास्य वेदनाम् । नेत्रदुःखं शिरोदुःखं दुःखं तूदरसंभवम्
अनुच्छ्वासं महाश्वासं परितापं सवेपथुम् । गुदघ्राणांघ्रिरोगांश्च कुष्ठरोगं तथाक्षयम् 6.78.
कामलादींस्तथारोगान्प्रमेहादींश्च दारुणान् । ये वातप्रभवा रोगा लूताविस्फोटकादयः
ते सर्वे विलयं यांतु वासुदेवापमार्जिताः । विलयं यांति ते सर्वे विष्णोरुच्चारणेन वा
क्षयं गच्छंतु चाशेषास्ते चक्राभिहता हरेः । अच्युतानंतगोविंद नामोच्चारणभेषजात्
नश्यंति सकला रोगाः सत्यं सत्यं वदाम्यहम् । स्थावरं जंगमं यच्च कृत्रिमं चापि यद्विषम्
दंतोद्भवं नखोद्भूतमाकाशप्रभवं च यत् । भूतादिप्रभवं यच्च विषमत्यंतदुःसहम्
शमं नयतु तत्सर्वं कीर्तितोऽस्य जनार्दनः । ग्रहान्प्रेतग्रहांश्चैव तथान्याञ्छाकिनीग्रहान्
मुखमंडलिकान्क्रूरान्रेवतीं वृद्धिरेवतीम् । वृद्धिकाख्यान्ग्रहांश्चोग्रांस्तथा मातृग्रहानपि
बालस्य विष्णोश्चरितं हंतु बालग्रहानपि । वृद्धानां ये ग्रहाः केचिद्बालानां चापि ये ग्रहाः
नृसिंहदर्शनादेव नश्यंते तत्क्षणादपि । दंष्ट्राकरालवदनो नृसिंहो दैत्यभीषणः
तं दृष्ट्वा ते ग्रहाः सर्वे दूरं यांति विशेषतः । श्रीनृसिंहमहासिंहज्वालामालोज्ज्वलानन
ग्रहानशेषान्सर्वेश नुदस्वास्य विलोचन । ये रोगा ये महोत्पाता ये द्विषो ये महाग्रहाः