सर्वेषां रोगदोषाणां नाशनं मंगलप्रदम् । तत्तेऽहं तु प्रवक्ष्यामि शृणु त्वं नगनंदिनि
श्रीदालभ्य उवाच- भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः । कुष्ठग्रहाभिभूताश्च सर्वकाले ह्युपद्रुताः
आभिचारिककृत्याद्या बहुरोगाश्च दारुणाः । न भवंति मुनिश्रेष्ठ तन्मे त्वं वक्तुमर्हसि
पुलस्त्य उवाच- व्रतोपवासनियमैर्विष्णुर्वै तोषितस्तु यैः । ते नरा नैव रोगार्त्ता जायंते मुनिसत्तम
यैर्न कृतं व्रतं पुण्यं न दानं न तपस्तदा । न तीर्थं देवपूजा च नान्नं दत्तं तु भूरिशः
ते वै लोकास्तदा ज्ञेया रोगदोषैः प्रपीडिताः । आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति
तत्तदाप्नोत्यसंदिग्धं विष्णोः सेवी विशेषतः । नाधिं प्राप्नोति न व्याधिं न विषग्रहबंधनम्
कृत्यास्पर्शभयं नापि तोषिते मधुसूदने । समस्तदोषनाशश्च सर्वदा च शुभा ग्रहाः
देवानामप्यधृष्योऽसौ तोषिते च जनार्दने । यः सर्वेषु च भूतेषु यथात्मनि तथापरे
उपवासादिना तेन तोषितो मधुसूदनः । तोषिते तत्र जायंते नराः पूर्णमनोरथाः
अरोगाः सुखिनो भोगभोक्तारो मुनिसत्तम । तेषां च शत्रवो नैव न च रोगाभिचारिकम्
ग्रहरोगादिकं चैव पापकार्यं न जायते । अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि वै । रक्षंति सकलापद्भ्यो येन विष्णुरुपासितः
श्रीदालभ्य उवाच- अनाराधितगोविंदा ये नरा दुःखभागिनः । तेषां दुःखाभिभूतानां यत्कर्त्तव्यं दयालुभिः
पश्यद्भिः सर्वभूतस्थं वासुदेवं सनातनम् । समदृष्टिभिरप्यत्र तन्मे ब्रूहि विशेषतः
श्रीपुलस्त्य उवाच-। तद्वक्ष्यामि मुनिश्रेष्ठ समाहितमनाः शृणु । रोगदोषाशुभहरं विज्वरादि विनाशनम्
शिखायां श्रीधरं न्यस्य शिखाधः श्रीकरं तथा । हृषीकेशं तु केशेषु मूर्ध्नि नारायणं परम्
ऊर्ध्वश्रोत्रे न्यसेद्विष्णुं ललाटे जलशायिनम् । विभुं वै भ्रूयुगे न्यस्य भ्रूमध्ये हरिमेव च
नरसिंहं नासिकाग्रे कर्णयोरर्णवेशयम् । चक्षुषोः पुंडरीकाक्षं तदधो भूधरं न्यसेत्
कपोलयोः कल्किनाथं वामनं कर्णमूलयोः । शंखिनं शंखयोर्न्यस्य गोविंदं वदने तथा
मुकुंदं दंतपंक्तौ तु जिह्वायां वाक्पतिं तथा । रामं हनौ तु विन्यस्य कंठे वैकुंठमेव च
बलघ्नं बाहुमूलाधश्चांसयोः कंसघातिनम् । अजं भुजद्वये न्यस्य शार्ङ्गपाणिं करद्वये
संकर्षणं करांगुष्ठे गोपमंगुलिपंक्तिषु । वक्षस्यधोक्षजं न्यस्य श्रीवत्सं तस्य मध्यतः
स्तनयोस्त्वनिरुद्धं च दामोदरमथोदरे । पद्मनाभं तथा नाभौ नाभ्यधश्चापि केशवम्
मेढ्रे धराधरं देवं गुदे चैव गदाग्रजम् । पीतांबरधरं कट्यामूरुयुग्मे मधोर्द्विषम्
मुरद्विषं पिंडकयोर्जानुयुग्मे जनार्दनम् । फणीशं गुल्फयोर्न्यस्य क्रमयोश्च त्रिविक्रमम्
पादांगुष्ठे श्रीपतिं च पादाधो धरणीधरम् । रोमकूपेषु सर्वेषु विष्वक्सेनं न्यसेद्बुधः
मत्स्यं मांसे तु विन्यस्य कूर्मं मेदसि विन्यसेत् । वाराहं तु वसामध्ये सर्वास्थिषु तथाच्युतम्
द्विजप्रियं तु मज्जायां शुक्रे श्वेतपतिं तथा । सर्वांगे यज्ञपुरुषं परमात्मानमात्मनि
एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् । यावन्न व्याहरेत्किंचित्तावद्विष्णुमयः स्थितः
गृहीत्वा तु समूलाग्रान्कुशान्शुद्धान्समाहितः । मार्जयेत्सर्वगात्राणि कुशाग्रैरिह शांतिकृत्