देवेन विप्रा विप्राणां विश्वामित्रहितैषिणा। एकं वेदं चतुःपादं चतुर्धा पुनरीश्वरः
यथा बिभेद भगवान् व्यासः सर्वेष्वनुग्रहात्। तस्य शिष्यप्रशिष्यैश्च शाखाभेदाः पुनः कृताः
प्रयागे मुनिवर्यैश्च यथा पृष्टः स्वयं प्रभुः। कृष्णेन चानुशिष्टास्ते मुनयो धर्मकांक्षिणः
एतत्सर्वं यथातत्वमाख्यातं द्विजसत्तमाः। मुनीनां धर्मनित्यानां लोकतंत्रमनुत्तमम्
ब्रह्मणा यत्पुरा प्रोक्तं पुलस्त्याय महात्मने। पुलस्त्येनाथ भीष्माय गंगाद्वारे प्रभाषितम्
धन्यं यशस्यमायुष्यं सर्व्वपापप्रणाशनम्। कीर्तनं श्रवणं चास्य धारणं च विशेषतः
सूतेनानुक्रमेणेदं पुराणं संप्रकाशितम्। ब्राह्मणेषु पुरा यच्च ब्रह्मणोक्तं सविस्तरम्
पादमस्य विदन्सम्यग्योधीयीत जितेंद्रियः। तेनाधीतं पुराणं स्यात्सर्वं नास्त्यत्र संशयः५० 1.2.
यो विद्याच्चतुरो वेदान्सांगोपनिषदो द्विजः। पुराणं च विजानाति यः स तस्माद्विचक्षणः
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्। बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति
अधीत्य चैकमध्यायं स्वयं प्रोक्तं स्वयंभुवा। आपदः प्राप्य मुच्येत यथेष्टां प्राप्नुयाद्गतिम्
पुरा परंपरां वक्ति पुराणं तेन वै स्मृतम्। निरुक्तिमस्य यो वेद सर्वपापैः प्रमुच्यते
ऋषयोह्यब्रुवन्सूतं कथं भीष्मेण सङ्गतः। ब्रह्मणो मानसः पुत्रः पुलस्त्यो भगवानृषिः
दुर्लभं दर्शनं यस्य नरैः पापसमन्वितैः। अत्याश्चर्यमिदं सूत क्षत्रियेण कथं मुनिः
आराधितो बृहद्भूतस्तन्नो वद महामते। कीदृशं वा तपस्तेन को वान्यो नियमः कृतः
येन तुष्टो मुनिर्ब्राह्मस्तथा तेन प्रभाषितः। पर्वं वाप्यथ पर्वार्धं समग्रं वा प्रभाषितम्
यस्मिन्स्थाने यथादृष्टः पुलस्त्यो भगवानृषिः। तन्नो वद महाभाग कल्याः स्म श्रवणे वयम्
सूत उवाच। यत्र गंगा महाभागा साधूनां हितकारिणी। विभिद्य पर्वतं वेगान्निःसृता लोकपावनी
गंगाद्वारे महातीर्थे भीष्मः पितृपरायणः। शुश्रूषुः सुचिरं कालं महतां नियमे स्थितः
यावद्वर्षशतं साग्रं परमेण समाधिना। ध्यायमानः परं ब्रह्म त्रिकालं स्नानमाचरत्
पितॄन्देवांस्तर्पयतः स्वाध्यायेन महात्मनः। आत्मानं कर्षतश्चास्य तुष्टो देवः पितामहः
उवाच तनयं ब्रह्मा पुलस्त्यमृषिसत्तमम्। स त्वं देवव्रतं भीष्मं वीरं कुरुकुलोद्भवम्
तपसः संनिवर्त्तस्व कारणं चास्य कीर्त्तय। पितॄन्भक्त्या महाभागो ध्यायमानस्समास्थितः
यो ह्यस्य मनसः कामस्तं संपादयमाचिरम्। पितामहवचः श्रुत्वा पुलस्त्यो मुनिसत्तमः
गंगाद्वारमथागत्य भीष्मं वचनमब्रवीत्। वरं वरय भद्रं ते यत्ते मनसि वर्त्तते
तुष्टस्ते तपसा वीर साक्षाद्देवः पितामहः। ब्रह्मणा प्रेषितस्तेहं वरान्दास्यामि कांक्षितान्
भीष्मोपि तद्वचः श्रुत्वा मनःश्रोत्रसुखावहम्। उन्मील्य नयने दृष्ट्वा पुलस्त्यं पुरतः स्थितम्
अष्टांगप्रणिपातेन नत्वा तं मुनिसत्तमम्। उवाच प्रणतो भूत्वा सर्वांगालिंगितावनिः
अद्य मे सफलं जन्म दिनं चेदं सुशोभनम्। भवतश्चरणौ दृष्टौ जगद्वंद्यौ मया त्विह
तपसश्च फलं प्राप्तं यद्दृष्टोभगवान्मया। वरप्रदो विशेषेण संप्राप्तश्च नदीतटे