अग्निः कोपः प्रसादस्ते शेषः श्रीमांश्च लक्ष्मणः । त्वया लोकास्त्रयः क्रांताः पुराणैर्विक्रमैस्त्रिभिः
त्वयेंद्रश्च कृतो राजा बलिर्बद्धो महासुरः । लोकान्संहृत्य कालस्त्वं निवेश्यात्मनि केवलम्
करोष्येकार्णवं घोरं दृश्यादृश्ये च नान्यथा । त्वया सिंहवपुः कृत्वा परमं दिव्यमुत्तमम्
भयदः सर्वभूतानां हिरण्यकशिपुर्हतः । त्वमश्ववदनो भूत्वा पातालतलमाश्रितः
संहृतं परमं हव्यं रहस्यं वै पुनः पुनः । यत्परं श्रूयते ज्योतिर्यत्परं श्रूयते परः
यत्परं परतश्चै वपरमात्मेति कथ्यते । परो मंत्रः परं तेजस्तमेव हि निगद्यसे
हव्यं कव्यं पवित्रं च प्राप्तिः स्वर्गापवर्गयोः । स्थित्युत्पत्तिविनाशांस्ते त्वामाहुः प्रकृतेः परम्
यज्ञश्च यजमानश्च होता चाध्वर्युरेव च । भोक्ता यज्ञफलानां च त्वं वै वेदैश्च गीयसे
सीतालक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः । वधार्थं रावणस्य त्वं प्रविष्टो मानुषीं तनुम्
तदिदं च त्वया कार्यं कृतं धर्मभृतां वर । निहतो रावणो राम प्रहृष्टा देवताः कृताः
अमोघं देववीर्यं ते न ते मोघः पराक्रमः । अमोघदर्शनं राम न च मोघस्तव स्तवः
अमोघास्ते भविष्यंति भक्तिमंतो नरा भुवि । ये च त्वां देव संभक्ताःपुराणं पुरुषोत्तमम्
इममार्षस्तवं पुण्यमितिहासं पुरातनम् । ये नराः कीर्तयिष्यंति नास्ति तेषां पराभवः
कथमिह हि पराभवं व्रजेयुः पुरुषवराः पुरुषोत्तमे हि भक्ताः । नहि जगति चतुर्भुजप्रियाणां त्रिदश इहास्ति वरप्रदो विशिष्टः
स्तोत्राणां प्रवरं स्तोत्रं राघवस्य महात्मनः । त्रिकाले यः पठेन्नित्यं महापातकवानपि
संध्याकाले द्विजश्रेष्ठैः श्राद्धकाले विशेषतः । पठनीयं प्रयत्नेन भक्तिभावेन चेतसा
इदं गोप्यं हि परमं नाख्येयं कर्हिचित्क्वचित् । पठनान्मुक्तिमाप्नोति सात्त्वतः स भवेद्ध्रुवम्
प्रथमं पिंडपूजांते ब्राह्मणैर्द्विजसत्तमैः । पठितव्यमिदं स्तोत्रं श्राद्धमक्षयमाप्नुयात्
इदं पवित्रं परमं जनानां मुक्तिदायकम् । लिखित्वा वै गृहे यस्तु धारयेत्सुसमाधिना
आयुः श्रीश्च बलं तस्य वृद्धिं याति दिनेदिने । लिखित्वा ब्राह्मणे दद्याद्धीमान्यो वै कदाचन
विमुक्ताः पूर्वजास्तस्य यांति विष्णोः परं पदम् । चतुर्णां चैव वेदानां पाठे चैव तु यत्फलम्
समवाप्नोति जापेन नरः स्तोत्रं पठन्जपन् । धृत्वा वै शंखचक्रादि ब्राह्मणैर्वेदतत्परैः
श्राद्धकाले महादेवि अक्षयं तद्भवेद्ध्रुवम् । कंठे पद्माक्षमालां च शंखचक्रादिधारणम्
ततः श्राद्धं प्रकुर्वीत इदं स्तोत्रं पठन्जपन् । विधिना भक्तिभावेन पूर्णं भवति नान्यथा
अतो भक्तिमता पुंसा पठनीयं प्रयत्नतः । पठनात्सर्वमाप्नोति स नरः सुखमेधते
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे आभ्युदयिकमूर्ध्वदैहिकस्तोत्रं नाम षट्सप्ततितमोऽध्यायः
महादेव उवाच- पप्रच्छाहं जगन्नाथं व्रतानामुत्तमं व्रतम् । पुत्रपौत्रविवृद्ध्यर्थं सुखसौभाग्यदायकम्
तवाग्रे संप्रवक्ष्यामि शृणु सुंदरि सांप्रतम् । इदं कथानकं दिव्यमृषीणां व्रतमुत्तमम्
रजस्वला तु या नारी सहसा पापरूपिणी । कृतेन च व्रतेनैव महापापैः प्रमुच्यते । पितॄणामक्षयं देयं धर्मकामार्थसाधनम्
श्रीविष्णुरुवाच- पूर्वमासीन्महाबाहुर्ब्राह्मणो वेदपारगः । सदाध्ययनशीलस्तु देवशर्मा इति द्विजः