शरण्यं शरणं च त्वामाहुः सेन्द्रा महर्षयः । ऋक्सामश्रेष्ठो वेदात्मा शतजिह्वो महर्षयः
त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परंतपः । शतधन्वा वसुः पूर्वं वसूनां त्वं प्रजापतिः
त्रयाणामपि लोकानां आदिकर्ता स्वयंप्रभुः । रुद्राणामष्टमो रुद्रः साध्यानामपि पंचमः
आश्विनौ चापि कर्णौ ते सूर्यचंद्रौ च चक्षुषी । अंते चादौ च मध्ये च दृश्यसे त्वं परंतपः
प्रभवो निधनं चास्य न विदुः को भवानिति । दृश्यसे सर्वलोकेषु गोषु च ब्रह्मणेषु च
दिक्षु सर्वासु गगने पर्वतेषु गुहासु च । सहस्रनयनः श्रीमाञ्छतशीर्षः सहस्रपात्
त्वं धारयसि भूतानि वसुधां च सपर्वताम् । अंतःपृथिव्यां सलिले सर्वसत्वमहोरगः
त्रींल्लोकान्धारयन्नास्ते देवगंधर्वदानवान् । अहं ते हृदयं राम जिह्वा देवी सरस्वती
देवा रोमाणि गात्रेषु निर्मितास्ते स्वमायया । निमिषस्ते स्मृता रात्रिरुन्मेषो दिवसस्तथा
संस्कारस्ते भवेद्देहो न तदस्ति विना त्वया । जगत्सर्वं शरीरे तत्स्थैर्यं च वसुधातलम्
अग्निः कोपः प्रसादस्ते शेषः श्रीमांश्च लक्ष्मणः । त्वया लोकास्त्रयः क्रांताः पुराणैर्विक्रमैस्त्रिभिः
त्वयेंद्रश्च कृतो राजा बलिर्बद्धो महासुरः । लोकान्संहृत्य कालस्त्वं निवेश्यात्मनि केवलम्
करोष्येकार्णवं घोरं दृश्यादृश्ये च नान्यथा । त्वया सिंहवपुः कृत्वा परमं दिव्यमुत्तमम्
भयदः सर्वभूतानां हिरण्यकशिपुर्हतः । त्वमश्ववदनो भूत्वा पातालतलमाश्रितः
संहृतं परमं हव्यं रहस्यं वै पुनः पुनः । यत्परं श्रूयते ज्योतिर्यत्परं श्रूयते परः
यत्परं परतश्चै वपरमात्मेति कथ्यते । परो मंत्रः परं तेजस्तमेव हि निगद्यसे
हव्यं कव्यं पवित्रं च प्राप्तिः स्वर्गापवर्गयोः । स्थित्युत्पत्तिविनाशांस्ते त्वामाहुः प्रकृतेः परम्
यज्ञश्च यजमानश्च होता चाध्वर्युरेव च । भोक्ता यज्ञफलानां च त्वं वै वेदैश्च गीयसे
सीतालक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः । वधार्थं रावणस्य त्वं प्रविष्टो मानुषीं तनुम्
तदिदं च त्वया कार्यं कृतं धर्मभृतां वर । निहतो रावणो राम प्रहृष्टा देवताः कृताः
अमोघं देववीर्यं ते न ते मोघः पराक्रमः । अमोघदर्शनं राम न च मोघस्तव स्तवः
अमोघास्ते भविष्यंति भक्तिमंतो नरा भुवि । ये च त्वां देव संभक्ताःपुराणं पुरुषोत्तमम्
इममार्षस्तवं पुण्यमितिहासं पुरातनम् । ये नराः कीर्तयिष्यंति नास्ति तेषां पराभवः
कथमिह हि पराभवं व्रजेयुः पुरुषवराः पुरुषोत्तमे हि भक्ताः । नहि जगति चतुर्भुजप्रियाणां त्रिदश इहास्ति वरप्रदो विशिष्टः
स्तोत्राणां प्रवरं स्तोत्रं राघवस्य महात्मनः । त्रिकाले यः पठेन्नित्यं महापातकवानपि
संध्याकाले द्विजश्रेष्ठैः श्राद्धकाले विशेषतः । पठनीयं प्रयत्नेन भक्तिभावेन चेतसा
इदं गोप्यं हि परमं नाख्येयं कर्हिचित्क्वचित् । पठनान्मुक्तिमाप्नोति सात्त्वतः स भवेद्ध्रुवम्
प्रथमं पिंडपूजांते ब्राह्मणैर्द्विजसत्तमैः । पठितव्यमिदं स्तोत्रं श्राद्धमक्षयमाप्नुयात्
इदं पवित्रं परमं जनानां मुक्तिदायकम् । लिखित्वा वै गृहे यस्तु धारयेत्सुसमाधिना
आयुः श्रीश्च बलं तस्य वृद्धिं याति दिनेदिने । लिखित्वा ब्राह्मणे दद्याद्धीमान्यो वै कदाचन