यत्र नारायणो देवो नित्यं तिष्ठति भूतिदः । शंखचक्रधरास्तस्य समीपे निवसंति ये
ते मृत्युं समनुप्राप्य दिव्यरूपाश्चतुर्भुजाः । ऋषयस्तत्र तिष्ठंति देवाश्चैवं विशेषतः
रुद्रा नागास्तथा यक्षा नात्र कार्या विचारणा । तस्याः समीपे ह्येकोऽयं स्थलो वै विष्णुरूपधृक्
स्थलेऽस्मिन्वर्तते मूर्तिर्बहुरूपातिमुक्तिदा । चतुर्विंशतिभूतानां जातयः संति तत्र वै
एका वै मत्स्यरूपा च कृष्णरूपातिमुक्तिदा । अन्या च या बुधैः प्रोक्ता स्थले वै विष्णुसंज्ञके
कल्किनाम्नी तथा पुण्या कपिला या मयोदिता । अन्यास्तु विविधाकारा दृश्यंते बहुधा अपि
तिष्ठंति मूर्त्तयः सर्वा नानारूपा ह्यनेकशः । सा गंगा महती पुण्या धर्मकामार्थमुक्तिदा
यस्यां भूमौ हृषीकेशो नियमेन समन्वितः । वर्त्ततेऽद्यापि तत्रैव मया सह न संशयः
भ्रूणहत्या बालहत्या गोहत्या च विशेषतः । यस्याः स्पर्शनमात्रेण मुच्यते सर्वकिल्बिषात्
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवान्यजातयः । सर्वे ते वै विमुच्यंते दर्शनाद्गंडिकांबुनः
इयं वेणी समा पुण्या पापिनां तु विशेषतः । मुच्यते ब्रह्महा यत्र इतरेषां तु का कथा
सर्वदा सर्वकाले तु अहं गच्छामि पार्वति । तीर्थानां तीर्थराजोऽयं ब्रह्मणा भाषितः किल
तत्र स्नानं च दानं च मुनिभिः परिकल्पितम् । आषाढे पुण्यकाले तु तत्र गच्छामि सुंदरि
मासैकविधिना चैव स्नानं तत्र करोम्यहम् । तारकं तत्र विशदं जपामि तु निरंतरम्
अतोऽहं वैष्णवो जातो विष्णुक्षेत्रे यतोगतः । विष्णुना निर्मितं पूर्वं क्षेत्रं तत्तु महत्तरम्
वैष्णवानां च गतिदं पावनं परमं स्मृतम् । भवेऽस्मिन्मानुषे जन्म दुर्लभं देवि सर्वदा
दुर्लभं गण्डिकातीर्थं विष्णुक्षेत्रं तु दुर्लभम् । अतो ह्याषाढमासे तु गंतव्यं द्विजसत्तमैः
तत्र गत्वा विशेषेण शंखचक्रादिधारणम् । कर्त्तव्यं तु द्विजश्रेष्ठैः पवित्रं परमं स्मृतम्
शंखतीर्थं तु वामे वै दक्षिणे चक्रचिह्नितम् । द्विजानां मुक्तिदं प्रोक्तं धारितव्यं प्रयत्नतः
ब्राह्मणैश्च विशेषेण शंखचक्रादिधारणं । धृते सति महादेवि वैष्णवास्ते हि मानवाः
न गण्डिका समं तीर्थं न व्रतं द्वादशीसमम् । न देवः केशवादन्यो भूयोभूयो वरानने
गंडिकायास्तु माहात्म्यं ये शृण्वंति नरोत्तमाः । इहलोके सुखं भुक्त्वा विष्णुलोके हि यांति ते
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे गंडिकातीर्थमाहात्म्यंनाम पंचसप्ततितमोऽध्यायः
महादेव उवाच- शृणु सुंदरि वक्ष्यामि स्तोत्रं चाभ्युदयं ततः । यच्छ्रुत्वा मुच्यते पापी ब्रह्महा नात्र संशयः
धाता वै नारदं प्राह तदहं तु ब्रवीमि ते । तमुवाच ततो देवः स्वयंभूरमितद्युतिः
प्रगृह्य रुचिरं बाहुं स्मारयेच्चौर्ध्वदेहिकम् । भगवान्नारायणः श्रीमान्देवश्चक्रायुधोहरिः
शार्ङ्गधारी हृषीकेशः पुराणपुरुषोत्तमः । अजितः खड्गभृज्जिष्णुः कृष्णश्चैव सनातनः
एकशृंगो वराहस्त्वं भूतभव्यभवात्मकः । अक्षरं ब्रह्म सत्यं तु आदौ चांते च राघवः
लोकानां तु परो धर्मो विष्वक्सेनश्चतुर्भुजः । सेनानी रक्षणस्त्वं च वैकुंठस्त्वं जगत्प्रभुः
प्रभवश्चाव्ययस्त्वं च उपेंद्रो मधुसूदनः । पृश्निगर्भो धृतार्चिस्त्वं पद्मनाभो रणांतकृत्