गृहाश्रमः पुण्यतमः सर्वदा तीर्थवद्गृहम् । अस्मिन्गृहाश्रमे पुण्ये दानं देयं विशेषतः
देवानां पूजनं यत्र अतिथीनां च भोजनम् । पथिकानां च शरणं अतो धन्यतमो मतः
तद्गृहं तु समाश्रित्य येऽर्चयंति द्विजान्नराः । आयुर्लक्ष्मीस्तथा पुत्रा न हीयंते कदाचन
शृणु सुंदरि वक्ष्यामि महापापविशोधनम् । सर्वसंपत्करं दानं इहामुत्रफलप्रदम्
शुभेकाले समायाते समभ्यर्च्य स्वदैवतम् । नित्यं नैमित्तकं कृत्वा दद्याद्दानं स्वशक्तितः
गृहीत्वा परद्रव्यं च द्विजदेवेभ्य एव हि । दद्यात्स निरयं दृष्ट्वा पश्चाद्याति परां गतिम्
शतानीको यथा दानात्सपुत्रश्चैव तारितः । दत्त्वान्ये च द्विजेभ्यश्च स गंता धर्मतो दिवम्
धर्मस्थानेषु यैर्दत्तं तेषां धर्ममुदाहृतम् । शृणु देवि प्रवक्ष्यामि वित्तदानं समासतः
देहशुद्धिकरं दानं न भूतं न भविष्यति । पापहीनो येन पुमान्जायते नात्र संशयः
भोगान्भुक्त्वा ततश्चायं याति विष्णुं सनातनम् । पुरा वै ब्रह्मणा प्रोक्तं भार्गवाय महात्मने
पापयुक्ताय रामाय तुलावृषभमेव च । पापकर्मरतश्चैव भवबंधक्रियो नृपः
अभक्षभक्षणरता भ्रूणहा गुरुतल्पगः । एतेप्यनृतवादी च प्रसूयंते वियोनिषु
अयाज्ययाजनं कृत्वा याचयित्वा तु निंदितान् । सदा कोपसमायुक्ताः साधूनां पीडने रताः
विश्वासोपहताश्चैषामसुभिर्धर्मनिंदकाः । पापैरेभिः समायुक्ता ज्ञात्वात्मानं गतायुषम्
इति ज्ञात्वा तु तैर्देवि दानं देयं विशेषतः । बहवो धर्मकर्त्तारो वैष्णवा भुवि विश्रुताः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे दानधर्मोनाम चतुःसप्ततितमोऽध्यायः
महादेव उवाच- गंडिकायास्तु माहात्म्यं वक्ष्ये देवि विधानतः । यथा गंगा तथा सा च कथिता नगनंदिनि
शालग्रामशिला यत्र जायते बहुधा तथा । माहात्म्यं चैव तस्याश्च कथितं मुनिसत्तमैः
अंडजा उद्भिजा यत्र स्वेदजाश्च जरायुजाः । यस्या दर्शनमात्रेण पुण्यरूपास्तु पार्वति
उत्तरे सा तु संभूता गंडिका तु महानदी । संस्मृता संस्मृता नूनं पापं हंत्यगनंदिनि
यत्र नारायणो देवो नित्यं तिष्ठति भूतिदः । शंखचक्रधरास्तस्य समीपे निवसंति ये
ते मृत्युं समनुप्राप्य दिव्यरूपाश्चतुर्भुजाः । ऋषयस्तत्र तिष्ठंति देवाश्चैवं विशेषतः
रुद्रा नागास्तथा यक्षा नात्र कार्या विचारणा । तस्याः समीपे ह्येकोऽयं स्थलो वै विष्णुरूपधृक्
स्थलेऽस्मिन्वर्तते मूर्तिर्बहुरूपातिमुक्तिदा । चतुर्विंशतिभूतानां जातयः संति तत्र वै
एका वै मत्स्यरूपा च कृष्णरूपातिमुक्तिदा । अन्या च या बुधैः प्रोक्ता स्थले वै विष्णुसंज्ञके
कल्किनाम्नी तथा पुण्या कपिला या मयोदिता । अन्यास्तु विविधाकारा दृश्यंते बहुधा अपि
तिष्ठंति मूर्त्तयः सर्वा नानारूपा ह्यनेकशः । सा गंगा महती पुण्या धर्मकामार्थमुक्तिदा
यस्यां भूमौ हृषीकेशो नियमेन समन्वितः । वर्त्ततेऽद्यापि तत्रैव मया सह न संशयः
भ्रूणहत्या बालहत्या गोहत्या च विशेषतः । यस्याः स्पर्शनमात्रेण मुच्यते सर्वकिल्बिषात्
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवान्यजातयः । सर्वे ते वै विमुच्यंते दर्शनाद्गंडिकांबुनः