अरुणोदयकाले तु ये पठंति जपंति च । आयुर्बलं च तेषां श्रीर्वर्द्धते च दिनेदिने
रात्रौ जागरणे प्राप्ते कलौ भागवतो नरः । पठनान्मुक्तिमाप्नोति यावदिंद्राश्चतुर्दश
एकैकेन तु नाम्ना वै हरौ तुलसिकारणात् । पूजा सा चैव विज्ञेया कोटियज्ञफलाधिका
मार्गे च गच्छमानास्तु ये पठंति द्विजातयः । न दोषा मार्गजास्तेषां भवंति किल पार्वति
शृणु देवि प्रवक्ष्यामि माहात्म्यं केशवस्य तु । ये शृण्वंति नरश्रेष्ठास्ते पुण्याः पुण्यरूपिणः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे सहस्रनाममहिमानाम द्विसप्ततितमोऽध्यायः
महादेव उवाच- ॐरामरक्षास्तोत्रस्य श्रीमहर्षिर्विश्वामित्रऋषिः । श्रीरामो देवता अनुष्टुप्छंदः । विष्णुप्रीत्यर्थे जपे विनियोगः
अतसीपुष्पसंकाशं पीतवाससमच्युतम् । ध्यात्वा वै पुंडरीकाक्षं श्रीरामं विष्णुमव्ययम्
पातु वो हृदयं रामः श्रीकंठः कंठमेव च । नाभिं पातु मखत्राता कटिं मे विश्वरक्षकः
करौ पातु दाशरथिः पादौ मे विश्वरूपधृक् । चक्षुषी पातु वै देव सीतापतिरनुत्तमः
शिखां मे पातु विश्वात्मा कर्णौ मे पातु कामदः । पार्श्वयोस्तु सुरत्राता कालकोटिदुरासदः
अनंतः सर्वदा पातु शरीरं विश्वनायकः । जिह्वां मे पातु पापघ्नो लोकशिक्षाप्रवर्त्तकः
राघवः पातु मे दंतान्केशान्रक्षतु केशवः । सक्थिनी पातु मे दत्त विजयो नाम विश्वसृक्
एतां रामबलोपेतां रक्षां यो वै पुमान्पठेत् । स चिरायुः सुखी विद्वान्लभते दिव्यसंपदम्
रक्षां करोति भूतेभ्यः सदा रक्षा तु वैष्णवी । रामेति रामभद्रेति रामचंद्रेति यः स्मरेत्
विमुक्तः स नरः पापान्मुक्तिं प्राप्नोति शाश्वतीम् । वसिष्ठेन इदं प्रोक्तं गुरवे विष्णुरूपिणे
ततो मे ब्रह्मणः प्राप्तं मयोक्तं नारदं प्रति । नारदेन तु भूर्लोके प्रापितं सुजनेष्विह
सुप्त्वावाथ गृहे वापि मार्गे गच्छंत एव वा । ये पठंति नरश्रेष्ठास्ते नराः पुण्यभागिनः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे रामक्षास्तोत्रंनाम त्रिसप्ततितमोऽध्यायः
महादेव उवाच- शृणु देवि प्रवक्ष्यामि धर्ममाहात्म्यमुत्तमम् । यच्छ्रुत्वा न पुनर्जन्म जायते भुवि कर्हिचित्
धर्मादर्थं च कामं च मोक्षं चैतत्त्रयं लभेत् । तस्माद्धर्मं समीहेत विद्वान्यः स बुधः स्मृतः
तपसा चैव दानेन व्रतेन नियमेन च । तपसा प्राप्यते स्वर्गः सात्विकेन तथैव च
इहायातो लभेद्राज्यं क्रोधलोभविवर्जितः । जन्मांतरेण मुक्तिः स्यात्पदं विंदति वैष्णवम्
तपसा राजसेनेह राजसश्चैव जायते । तप्त्वा तामसभावेन क्रूरकर्मा हि निष्ठुरः
तपस्तद्रक्षसां चोक्तं भुक्तिदं तामसात्मनाम् । यत्तप्तं सात्विकं चैव तत्तपो भवति ध्रुवम्
रजस्तमोभ्यां नियतं तपस्यां वने सतां वायुभुजां सुनिर्जने । तपस्विनां चैव धनादिवांच्छतां वनेऽपि दोषाः प्रभवंति रागिणाम्
गृहेऽपि पंचेंद्रियनिग्रहस्तपस्त्वकुत्सिते कर्मणि यः प्रवर्त्तते । निवृत्तरागस्य तपोवनं गृहं गृहाश्रमोऽतो गदितः स्वधर्मः
सुदुस्तरः सत्वजितेंद्रियाणां संहन्यते श्रेष्ठतमः शुभाश्रमः । गृहस्तु धर्मः प्रवरो मनीषिणां ब्रह्मादिभिश्चाभिहितो नगात्मजे
तप्त्वा तपस्वी विपिने क्षुधार्तो गृहं समायाति सदान्नदातुः । भक्त्या स चान्नं प्रददाति तस्मै तपोविभागं भजते हि तस्य
गृहाश्रमं ज्येष्ठमिहाश्रमाणां सम्यक्च यः पालयते मनुष्यः । इहैव भुंजन्समनुष्यभोगान्स्वर्गं प्रयातीति न संशयोऽत्र । गृहं सदा पालयतां नराणां पापं समायाति कथं हि देवि