तामृतेनैव धर्मोऽथ कामो मोक्षोऽपि दूरतः । क्षुधितानां दुर्गतानां कुतो योगसमाधयः
स च संसारसारैकः सर्वलोकैकनायकः । वशगा कमला यस्य त्यक्त्वा तामपि शंकरः
अनौद्धत्येन शौचेन रूपेणार्जवसंपदा । सर्वातिशयवीर्येण संपूर्णस्य महात्मनः
कस्तेन तुल्यतामेति देवदेवेन विष्णुना । यस्यांशांशावतारेण विना सर्वं विलीयते
जगदेतत्तथाप्याहुर्दोषायैतद्विमोहिताः । नास्य जन्म न वा मृत्युर्नाप्राप्यं स्वार्थमेव च
कामाद्यासक्तचित्तत्वात्किं तु सर्वेश्वरप्रभो । त्वन्मयत्वात्प्रमादाद्वा शक्नोमि पठितुं न चेत्
विष्णोः सहस्रनामैतत्प्रत्यहं वृषभध्वज । नाम्नैकेन तु येन स्यात्तत्फलं ब्रूहि मे प्रभो
महादेव उवाच- रामरामेति रामेति रमे रामे मनोरमे । सहस्रनामतत्तुल्यं रामनाम वरानने
श्रीमहादेव उवाच- ब्राह्मणा वा क्षत्रिया वा वैश्या वा गिरिकन्यके । शूद्रा वाथ विशेषेण पठंत्यनुदिनं यदि
धनधान्यसमायुक्ता यांति विष्णोः परं पदम् । श्लोकं वा श्लोकमर्द्धं वा पादं पादार्द्धमेव वा
पठनान्मोक्षमाप्नोति यावदाभूतसंप्लवम् । विन्यासेन युतं देवि विष्णोर्नामसहस्रकम्
ये पठंति नरश्रेष्ठास्ते यांति पदमव्ययम् । एककालं द्विकालं वा त्रिकालं वाथ यः पठेत्
धनायुर्वर्धते तस्य यावदिंद्राश्चतुर्दश । पुत्रान्पौत्रांस्तथालक्ष्मी संपदं विपुलां लभेत्
किमन्यद्बहुनोक्तेन भूयो भूयो वरानने । विष्णोर्नामसहस्रं तु परं निर्वाणदायकम्
पूजनं प्रथमं तस्य कृतं येन नरेण तु । संपूर्णं पूजिते विष्णौ तस्य पूजा च वार्षिकी
व्यग्रत्वं च न कर्त्तव्यं पठने तु विशेषतः । यदि चेत्क्रियते पाठे ह्यायुर्वित्तं च नश्यति
यावंति भुवि तीर्थानि जंबुद्वीपेषु सर्वदा । तानि तीर्थानि तत्रैव विष्णोर्नामसहस्रकम्
तत्रैव गंगा यमुना च वेणी गोदावरी तत्र सरस्वती च । सर्वाणि तीर्थानि वसंति तत्र यत्र स्थितं नामसहस्रकं तत्
इदं पवित्रं परमं भक्तानां वल्लभं सदा । ध्येयं हि दासभावेन भक्तिभावेन चेतसा
परं सहस्रनामाख्यं ये पठंति मनीषिणः । सर्वपापविनिर्मुक्तास्ते यांति हरिसंनिधौ
अरुणोदयकाले तु ये पठंति जपंति च । आयुर्बलं च तेषां श्रीर्वर्द्धते च दिनेदिने
रात्रौ जागरणे प्राप्ते कलौ भागवतो नरः । पठनान्मुक्तिमाप्नोति यावदिंद्राश्चतुर्दश
एकैकेन तु नाम्ना वै हरौ तुलसिकारणात् । पूजा सा चैव विज्ञेया कोटियज्ञफलाधिका
मार्गे च गच्छमानास्तु ये पठंति द्विजातयः । न दोषा मार्गजास्तेषां भवंति किल पार्वति
शृणु देवि प्रवक्ष्यामि माहात्म्यं केशवस्य तु । ये शृण्वंति नरश्रेष्ठास्ते पुण्याः पुण्यरूपिणः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे सहस्रनाममहिमानाम द्विसप्ततितमोऽध्यायः
महादेव उवाच- ॐरामरक्षास्तोत्रस्य श्रीमहर्षिर्विश्वामित्रऋषिः । श्रीरामो देवता अनुष्टुप्छंदः । विष्णुप्रीत्यर्थे जपे विनियोगः
अतसीपुष्पसंकाशं पीतवाससमच्युतम् । ध्यात्वा वै पुंडरीकाक्षं श्रीरामं विष्णुमव्ययम्
पातु वो हृदयं रामः श्रीकंठः कंठमेव च । नाभिं पातु मखत्राता कटिं मे विश्वरक्षकः
करौ पातु दाशरथिः पादौ मे विश्वरूपधृक् । चक्षुषी पातु वै देव सीतापतिरनुत्तमः