अंडस्यांतस्त्विमेलोकाः सप्तद्वीपा च मेदिनी। सूर्याचंद्रमसोश्चारो ग्रहाणां ज्योतिषां तथा
कीर्त्यते ध्रुवसामर्थ्यात्प्रजानां च शुभाशुभम्। ब्रह्मणा निर्मितः सौरः स्यंदनोर्थवशात्स्वयम्
कल्पितो भगवांस्तेन प्रसर्पति दिवाकरः। सूर्यादीनां स्यंदनानां ध्रुवादेव प्रवर्त्तनं
कल्पितः शिंशुमारश्च यस्य पुच्छे ध्रुवः स्थितः। संभवांते च संहारः संहारांते च संभवः
देवतानामृषीणां च मनोः पितृगणस्य च। न शक्यं विस्तराद्वक्तुमित्युक्तं च समासतः
अतीतानागतानां वै समं स्वायंभुवेन तु। मन्वंतरेषु देवानां प्रजेशानां च कीर्तनम्
नैमित्तिकः प्राकृतिकस्तथैवात्यंतिकः स्मृतः। त्रिविधः सर्वभूतानां कल्पितः प्रतिसंचरः
अनावृष्टिर्भास्कराच्च घोरः संवर्त्तकानलः। मेघाश्चैकार्णवा ये तु तथा रात्रिर्महात्मनः
संध्यालक्षणमुद्दिष्टं तथा ब्राह्मं विशेषतः। भूतानां चापि लोकानां सप्तानामनुवर्णनम्
संकीर्त्यं ते मया चात्र पापानां रौरवादयः। सर्वेषामेव सत्वानां परिणामविनिर्णयः
ब्रह्मणः प्रतिसर्गश्च सर्वसंहारवर्णनम्। कल्पेकल्पे च भूतानां महतामपि संक्षयः
सुसंख्याय च बुद्ध्वा वै ब्रह्मणश्चाप्यनित्यताम्। दौरात्म्यं चैव भोगानां संसारस्य च कष्टताम्
दुर्ल्लभत्वं च मोक्षस्य वैराग्याद्दोषदर्शनम्। व्यक्ताव्यक्तं परित्यज्य सत्वं ब्रह्मणि संस्थितम्
नानात्व दर्शनात्सुस्थस्ततस्तदभिवर्त्तते। ततस्तापत्रयातीतो विरूपाख्यो निरंजनः
आनंदं ब्रह्मणः प्राप्तो न बिभेति कुतश्चन। इति कृत्य समुद्देशः प्रमाणस्योपवर्णितः
कीर्त्यंते जगतो यत्र सर्गप्रलयविक्रियाः। प्रवृत्तिश्चापि भूतानां निवृत्तीनां फलानि च
प्रादुर्भावो वसिष्ठस्य शक्तेर्जन्म तथैव च। सौदासान्निग्रहस्तस्य विश्वामित्रकृतेन च
पराशरस्य चोत्पत्तिरदृश्यन्त्यां यथा विभोः। जज्ञे पितॄणां कन्यायां व्यासश्चापि यथा मुनिः
शुकस्य च यथा जन्म पुत्रस्य सह धीमतः। पराशरस्य विद्वेषो विश्वामित्रकृतो यथा
वसिष्ठसंभृतश्चाग्निर्विश्वामित्रजिघांसया। संधानहेतोर्विभुना जीर्णः कण्वेन धीमता
देवेन विप्रा विप्राणां विश्वामित्रहितैषिणा। एकं वेदं चतुःपादं चतुर्धा पुनरीश्वरः
यथा बिभेद भगवान् व्यासः सर्वेष्वनुग्रहात्। तस्य शिष्यप्रशिष्यैश्च शाखाभेदाः पुनः कृताः
प्रयागे मुनिवर्यैश्च यथा पृष्टः स्वयं प्रभुः। कृष्णेन चानुशिष्टास्ते मुनयो धर्मकांक्षिणः
एतत्सर्वं यथातत्वमाख्यातं द्विजसत्तमाः। मुनीनां धर्मनित्यानां लोकतंत्रमनुत्तमम्
ब्रह्मणा यत्पुरा प्रोक्तं पुलस्त्याय महात्मने। पुलस्त्येनाथ भीष्माय गंगाद्वारे प्रभाषितम्
धन्यं यशस्यमायुष्यं सर्व्वपापप्रणाशनम्। कीर्तनं श्रवणं चास्य धारणं च विशेषतः
सूतेनानुक्रमेणेदं पुराणं संप्रकाशितम्। ब्राह्मणेषु पुरा यच्च ब्रह्मणोक्तं सविस्तरम्
पादमस्य विदन्सम्यग्योधीयीत जितेंद्रियः। तेनाधीतं पुराणं स्यात्सर्वं नास्त्यत्र संशयः५० 1.2.
यो विद्याच्चतुरो वेदान्सांगोपनिषदो द्विजः। पुराणं च विजानाति यः स तस्माद्विचक्षणः
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्। बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति