सर्वापराधशमनं परं भक्तिविवर्द्धनम् । अक्षयं ब्रह्मलोकादि सर्वस्वर्गैकसाधनम्
विष्णुलोकैकसोपानं सर्वदुःखविनाशनम् । समस्तसुखदं सद्यः परं निर्वाणदायकम्
कामक्रोधादिनिःशेषमनोमलविशोधनम् । शांतिदं पावनं नॄणां महापातकिनामपि
सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम् । समस्तविघ्नशमनं सर्वारिष्टविनाशनम्
घोरदुःखप्रशमनं तीव्रदारिद्र्यनाशनम् । ऋणत्रयापहं गुह्यं धनधान्ययशस्करम्
सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वधर्मदम् । तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम्
जगज्जाड्यप्रशमनं सर्वविद्यापवर्त्तकम् । राज्यदं भ्रष्टराज्यानां रोगिणां सर्वरोगहृत् 6.71.
वंध्यानां सुतदं चायुःक्षीणानां जीवितप्रदम् । भूतग्रहविषध्वंसि ग्रहपीडाविनाशनम्
मांगल्यं पुण्यमायुष्यं श्रवणात्पठनाज्जपात् । सकृदस्याखिलावेदाः सांगा मंत्राश्च कोटिशः
पुराणशास्त्रस्मृतयः श्रुता स्युः पठितास्तथा । जप्त्वा चैकाक्षरं श्लोकं पादं वा पठति प्रिये
नित्यं सिध्यति सर्वेष्टमचिरात्किमुताखिलम् । नानेन सदृशं सद्यः प्रत्ययं सर्वकर्मसु
इदं भद्रे त्वया गोप्यं पाठ्यं स्वार्थैकसिद्धये । नावैष्णवाय दातव्यं विकल्पोपहतात्मने
भक्तिश्रद्धाविहीनाय विष्णुसामान्यदर्शिने । देयं पुत्राय शिष्याय सुहृदे हितकाम्यया
मत्प्रसादादृतेनेदं ग्रहीष्यंत्यल्पमेधसः । कलौ सद्यः फलं कल्पग्रामं नेष्यति नारदः
लोकानां भाग्यहीनानां येन दुःखं विनश्यति । द्वित्रेषु वैष्णवेष्वेतदार्यावर्ते भविष्यति
नास्ति विष्णोः परं धाम नास्ति विष्णोः परं तपः । नास्ति विष्णोः परो धर्मो नास्ति मंत्रो ह्यवैष्णवः
नास्ति विष्णोः परं सत्यं नास्ति विष्णोः परो मखः । नास्ति विष्णोः परं ध्यानं नास्ति विष्णोः परा गतिः
किं तस्य बहुभिर्मंत्रैः शास्त्रैर्वा र्बहुविस्तरैः । वाजपेयसहस्रैर्वा भक्तिर्यस्य जनार्दने
सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयः प्रभुः । सर्वक्रतुमयो विष्णुः सत्यं सत्यं वदाम्यहम् । आब्रह्मसारसर्वस्वं सर्वमेतन्मयोदितम्
पार्वत्युवाच- धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्पते । यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्लभम्
अहो बत महत्कष्टं समस्तदुःखहे हरौ । विद्यमानेऽपि देवेशे मूढाः क्लिश्यंति संसृतौ
यमुद्दिश्य सदा नाथं महेशोऽपि दिगंबरः । जटिलो भस्मलिप्तांगो तपस्वी वीक्ष्यते जनैः
ततोऽधिकोऽस्ति देवः को लक्ष्मीकांतान्मधुद्विषः । यत्तत्त्वं चिंत्यते नित्यं त्वया योगेश्वरेण हि
ततः परं किमधिकं पदं श्रीपुरुषोत्तमात् । तमविज्ञाय कं मूढाः यजंते ज्ञानमानिनः
मुषितास्मि त्वया नाथ चिरं यदयमीश्वरः । प्रकाशितो न मे यस्मात्त्वदाद्या दिव्यशक्तयः
अहो सर्वेश्वरो विष्णुः सर्वदेवोत्तमोत्तमः । भवदादिगुरुर्मूढैः सामान्य इव वीक्ष्यते
महीयसां हि माहात्म्यं भजमानान्भजंति ते । द्विषतोऽपि वृथा पापानुपेक्ष्यंते क्षमान्विताः
मयापि बाल्ये स्वपितुः प्रजा दृष्टा बुभुक्षिताः । दुःखादशक्तया पोष्टुं श्रियमाराध्य वै भृताः
तया संनिहिताभ्यश्च प्रजाभ्यो भवदादयः । विलसंति स शक्राद्याः ससुहृन्मित्रबांधवाः
तया विना क्व देवत्वं क्वैश्वर्यं क्व परिग्रहः । सर्वे भवंति जीवंतो यातनास्वेव संस्थिताः