महाभारतनिर्माता कवींद्रो बादरायणः । कृष्णद्वैपायनः सर्वपुरुषार्थैकबोधकः
वेदांतकर्ता ब्रह्मैकव्यंजकः पुरुवंशकृत् । बुद्धो ध्यानजिताशेष देवदेवो जगत्प्रियः
निरायुधो जगज्जैत्रः श्रीधरो दुष्टमोहनः । दैत्यवेदबहिःकर्त्ता वेदार्थश्रुतिगोपकः
शौद्धोदनिर्दष्टदृष्टिः सुखदः सदसस्पतिः । यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः
चतुष्कोटिपृथक्तत्वं प्रज्ञापारमितेश्वरः । पाखंडवेदमार्गेशः पाखंडश्रुतिगोपकः
कल्की विष्णुयशःपुत्रः कलिकालविलोपकः । समस्तम्लेच्छदुष्टघ्नः सर्वशिष्टद्विजातिकृत्
सत्यप्रवर्त्तको देव द्विजदीर्घक्षुधापहः । अश्ववारादि रेवंतः पृथ्वीदुर्गतिनाशनः
सद्यः क्ष्माऽनंतलक्ष्मीकृन्नष्टनिःशेषधर्मवित् । अनंतस्वर्णयोगैक हेमपूर्णाखिलद्विजः
असाध्यैकजगच्छास्ता विश्ववंद्यो जयध्वजः । आत्मतत्वाधिपः कर्तृश्रेष्ठो विधिरुमापतिः
भर्तृश्रेष्ठः प्रजेशाग्र्यो मरीचिर्जनकाग्रणीः । कश्यपो देवराजेंद्रः प्रह्लादो दैत्यराट्शशी
नक्षत्रेशो रविस्तेजः श्रेष्ठः शुक्रः कवीश्वरः । महर्षिराट्भृगुर्विष्णुरादित्येशो बलिस्वराट्
वायुर्वह्निः शुचिः श्रेष्ठः शंकरो रुद्रराट्गुरुः । विद्वत्तमश्चित्ररथो गंधर्वाग्र्योक्षरोत्तमः
वर्णादिरग्र्यस्त्रीगौरीशक्त्याग्र्याशीश्च नारदः । देवर्षिराट्पांडवाग्र्योऽर्जुनोवादः प्रवादराट्
पवनः पवनेशानो वरुणो यादसां पतिः । गंगातीर्थोत्तमोद्यूतं छलकाग्र्यं वरौषधम्
अन्नं सुदर्शनोऽस्त्राग्र्यं वज्रं प्रहरणोत्तमम् । उच्चैःश्रवावाजिराज ऐरावतइभेश्वरः
अरुंधत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराट् । अध्यात्मविद्याविद्याग्र्यः प्रणवच्छंदसां वरः
मेरुर्गिरिपतिर्मार्गो मासाग्र्यः कालसत्तमः । दिनाद्यात्मा पूर्वसिद्धः कपिलः सामवेदराट्
तार्क्ष्यः खगेंद्र ऋत्वग्र्यो वसंतः कल्पपादपः । दातृश्रेष्ठः कामधेनुरार्तिघ्नाग्र्य सुहृत्तमः
चिंतामणिर्गुरुश्रेष्ठो माता हिततमः पिता । सिंहो मृगेंद्रो नागेंद्रो वासुकिर्नृवरो नृप
वर्णेशो ब्राह्मणश्चेतः करुणाग्र्यं नमोनमः । इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम्
सर्वापराधशमनं परं भक्तिविवर्द्धनम् । अक्षयं ब्रह्मलोकादि सर्वस्वर्गैकसाधनम्
विष्णुलोकैकसोपानं सर्वदुःखविनाशनम् । समस्तसुखदं सद्यः परं निर्वाणदायकम्
कामक्रोधादिनिःशेषमनोमलविशोधनम् । शांतिदं पावनं नॄणां महापातकिनामपि
सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम् । समस्तविघ्नशमनं सर्वारिष्टविनाशनम्
घोरदुःखप्रशमनं तीव्रदारिद्र्यनाशनम् । ऋणत्रयापहं गुह्यं धनधान्ययशस्करम्
सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वधर्मदम् । तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम्
जगज्जाड्यप्रशमनं सर्वविद्यापवर्त्तकम् । राज्यदं भ्रष्टराज्यानां रोगिणां सर्वरोगहृत् 6.71.
वंध्यानां सुतदं चायुःक्षीणानां जीवितप्रदम् । भूतग्रहविषध्वंसि ग्रहपीडाविनाशनम्
मांगल्यं पुण्यमायुष्यं श्रवणात्पठनाज्जपात् । सकृदस्याखिलावेदाः सांगा मंत्राश्च कोटिशः
पुराणशास्त्रस्मृतयः श्रुता स्युः पठितास्तथा । जप्त्वा चैकाक्षरं श्लोकं पादं वा पठति प्रिये