कंसारिरुग्रसेनादिराज्यव्यापारितापरः । सुधर्मांकितभूर्लोको जरासंधबलांतकः
त्यक्तभग्नजरासंधो भीमसेनयशःप्रदः । सांदीपनमृतापत्यदाता कालांतकादिजित्
समस्तनारकित्राता सर्वभूपतिकोटिजित् । रुक्मिणीरमणो रुक्मिशासनो नरकांतकः
समस्तसुंदरीकांतो मुरारिर्गरुडध्वजः । एकाकीजितरुद्रार्क मरुदाद्यखिलेश्वरः
देवेंद्रदर्पहा कल्पद्रुमालंकृतभूतलः । बाणबाहुसहच्छिन्नं नद्यादिगणकोटिजित्
लीलाजित महादेवो महादेवैकपूजितः । इंद्रार्थार्जुननिर्भंग जयदः पांडवैकधृक्
काशिराजशिरश्छेत्ता रुद्रशक्त्यैकमर्दनः । विश्वेश्वरप्रसादाक्षः काशीराजसुतार्दनः
शंभुप्रतिज्ञाविध्वंसी काशीनिर्दग्धनायकः । काशीशगतकोटिघ्नो लोकशिक्षाद्विजार्चकः
युवतीव्रतयोवश्यः पुराशिववरप्रदः । शंकरैकप्रतिष्ठाधृक्स्वांश शंकरपूजकः
शिवकन्याव्रतपतिः कृष्णरूप शिवारिहा । महालक्ष्मीवपुर्गौरीत्राता वैदलवृत्रहा
स्वधाममुचुकुंदैकनिष्कालयवनेष्टकृत् । यमुनापतिरानीत परिलीनद्विजात्मजः
श्रीदामरंकभक्तार्थभूम्यानीतेंद्रवैभवः । दुर्वृत्तशिशुपालैकमुक्तिदो द्वारकेश्वरः
आचांडालदिकप्राप्य द्वारकानिधिकोटिकृत् । अक्रूरोद्धवमुख्यैकभक्तस्वच्छंदमुक्तिदः
सबालस्त्रीजलक्रीडामृतवापीकृतार्णवः । ब्रह्मास्त्रदग्धगर्भस्थ परीक्षिज्जीवनैककृत्
परिलीनद्विजसुतानेताऽर्जुनमदापहः । गूढमुद्राकृतिग्रस्त भीष्माद्यखिलकौरवः
यथार्थखंडिताशेष दिव्यास्त्रपार्थमोहहृत् । गर्भशापछलध्वस्तयादेवोर्वी भयापहः
जराव्याधारिगतिदः स्मृतिमात्राखिलेष्टदः । कामदेवो रतिपतिर्मन्मथः शंबरांतकः
अनंगो जितगौरीशो रतिकांतः सदेप्सितः । पुष्पेषुर्विश्वविजयि स्मरः कामेश्वरीप्रियः
उषापतिर्विश्वकेतुर्विश्वदृप्तोऽधिपूरुषः । चतुरात्मा चतुर्व्यूहश्चतुर्युगविधायकः
चतुर्वेदैकविश्वात्मा सर्वोत्कृष्टांशकोटिशः । आश्रमात्मा पुराणर्षिर्व्यासः शाखासहस्रकृत्
महाभारतनिर्माता कवींद्रो बादरायणः । कृष्णद्वैपायनः सर्वपुरुषार्थैकबोधकः
वेदांतकर्ता ब्रह्मैकव्यंजकः पुरुवंशकृत् । बुद्धो ध्यानजिताशेष देवदेवो जगत्प्रियः
निरायुधो जगज्जैत्रः श्रीधरो दुष्टमोहनः । दैत्यवेदबहिःकर्त्ता वेदार्थश्रुतिगोपकः
शौद्धोदनिर्दष्टदृष्टिः सुखदः सदसस्पतिः । यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः
चतुष्कोटिपृथक्तत्वं प्रज्ञापारमितेश्वरः । पाखंडवेदमार्गेशः पाखंडश्रुतिगोपकः
कल्की विष्णुयशःपुत्रः कलिकालविलोपकः । समस्तम्लेच्छदुष्टघ्नः सर्वशिष्टद्विजातिकृत्
सत्यप्रवर्त्तको देव द्विजदीर्घक्षुधापहः । अश्ववारादि रेवंतः पृथ्वीदुर्गतिनाशनः
सद्यः क्ष्माऽनंतलक्ष्मीकृन्नष्टनिःशेषधर्मवित् । अनंतस्वर्णयोगैक हेमपूर्णाखिलद्विजः
असाध्यैकजगच्छास्ता विश्ववंद्यो जयध्वजः । आत्मतत्वाधिपः कर्तृश्रेष्ठो विधिरुमापतिः
भर्तृश्रेष्ठः प्रजेशाग्र्यो मरीचिर्जनकाग्रणीः । कश्यपो देवराजेंद्रः प्रह्लादो दैत्यराट्शशी