शरसंधाननिर्धूत धरणीमंडलोदयः । ब्रह्मादिकाम्यसांनिध्यसनाथीकृतदैवतः
ब्रह्मलोकाप्तचांडालाद्यशेषप्राणिसार्थकः । स्वनीतगर्दभाश्वादिश्चिरायोध्यावनैककृत्
रामद्वितीयः सौमित्रिर्लक्ष्मणः प्रहतेंद्रजित् । विष्णुभक्ताप्तरामांघ्रिपादुकाराज्यनिर्वृतः
भरतोऽसह्यगंधर्वकोटिघ्नो लवणांतकः । शत्रुघ्नो वैद्यराजायुर्वेदगर्भौषधीपतिः
नित्यामृतकरो धन्वंतरिर्यज्ञो जगद्धरः । सूर्यारिघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः
छिन्नमूर्धायदेशार्कः शेषांगस्थापितामरः । विश्वार्थाशेषकद्रास्त्र शिरच्छेदाक्षताकृतिः
वाजपेयादिनामाग्निर्वेदधर्मपरायणः । श्वेतद्वीपपतिः सांख्यप्रणेता सर्वसिद्धिराट्
विश्वप्रकाशितज्ञानयोगमोहतमिस्रहा । देवहूत्यात्मजः सिद्धः कपिलः कर्दमात्मजः
योगस्वामी ध्यानभंग सगरात्मजभस्मकृत् । धर्मो वृषेन्द्रः सुरभीपतिः शुद्धात्मभावितः
शंभुस्त्रिपुरदाहैकस्थैर्थविश्वरथोद्वहः । भक्तशंभुजितो दैत्यामृतवापीसमस्तपः
महाप्रलयविश्वैकद्वितीयाखिलनागराट् । शेषदेवः सहस्राक्षः सहस्रास्य शिरोभुजः
फणामणिकणाकारयोजिताब्ध्यंबुदक्षितिः । कालाग्निरुद्रजनको मुशलास्त्रो हलायुधः
नीलांबरो वारुणीशो मनोवाक्कायदोषहा । असंतोषो दृष्टिमात्रपातितैकदशाननः
बलिसंयमनो घोरो रौहिणेयः प्रलंबहा । मुष्टिकघ्नो द्विविदहा कालिंदीकर्षणो बलः
रेवतीरमणः पूर्वभक्तिखेदाच्युताग्रजः । देवकीवसुदेवाह्व कश्यपादितिनंदनः
वार्ष्णेयः सात्वतां श्रेष्ठः शौरिर्यदुकुलोद्वहः । नराकृतिः परंब्रह्म सव्यसाची वरप्रदः
ब्रह्मादिकाम्यलालित्य जगदाश्चर्य शैशवः । पूतनाघ्नः शकटभिद्यमलार्जुनभंजनः 6.71.
वातासुरारिः केशिघ्नो धेनुकारिर्गवीश्वरः । दामोदरो गोपदेवो यशोदानंददायकः
कालीयमर्दनः सर्वगोपगोपीजनप्रियः । लीलागोवर्द्धनधरो गोविंदो गोकुलोत्सवः
अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः । सद्यः कुवलयापीडघाती चाणूरमर्दनः
कंसारिरुग्रसेनादिराज्यव्यापारितापरः । सुधर्मांकितभूर्लोको जरासंधबलांतकः
त्यक्तभग्नजरासंधो भीमसेनयशःप्रदः । सांदीपनमृतापत्यदाता कालांतकादिजित्
समस्तनारकित्राता सर्वभूपतिकोटिजित् । रुक्मिणीरमणो रुक्मिशासनो नरकांतकः
समस्तसुंदरीकांतो मुरारिर्गरुडध्वजः । एकाकीजितरुद्रार्क मरुदाद्यखिलेश्वरः
देवेंद्रदर्पहा कल्पद्रुमालंकृतभूतलः । बाणबाहुसहच्छिन्नं नद्यादिगणकोटिजित्
लीलाजित महादेवो महादेवैकपूजितः । इंद्रार्थार्जुननिर्भंग जयदः पांडवैकधृक्
काशिराजशिरश्छेत्ता रुद्रशक्त्यैकमर्दनः । विश्वेश्वरप्रसादाक्षः काशीराजसुतार्दनः
शंभुप्रतिज्ञाविध्वंसी काशीनिर्दग्धनायकः । काशीशगतकोटिघ्नो लोकशिक्षाद्विजार्चकः
युवतीव्रतयोवश्यः पुराशिववरप्रदः । शंकरैकप्रतिष्ठाधृक्स्वांश शंकरपूजकः
शिवकन्याव्रतपतिः कृष्णरूप शिवारिहा । महालक्ष्मीवपुर्गौरीत्राता वैदलवृत्रहा