सूर्यवंशध्वजो रामो राघवः सद्गुणार्णवः । काकुत्स्थो वीरराड्राजा राजधर्मधुरंधरः
नित्यस्वस्थाश्रयः सर्वभद्र ग्राही शुभैकदृक् । नररत्नं रत्नगर्भो धर्माध्यक्षो महानिधिः । सर्वश्रेष्ठाश्रयः सर्वशास्त्रार्थग्रामवीर्यवान्
जगद्वशो दाशरथिः सर्वरत्नाश्रयो नृपः । समस्तधर्मसूः सर्वधर्मद्रष्टाऽखिलाघहा
अतींद्रो ज्ञानविज्ञानपारदश्च क्षमांबुधिः । सर्वप्रकृष्टशिष्टेष्टो हर्षशोकाद्यनाकुलः । पित्राज्ञात्यक्तसाम्राज्यः सपन्नोदयनिर्भयः
गुहदेशार्पितैश्वर्यः शिवस्पर्द्धाजटाधरः । चित्रकूटाप्तरत्नाद्रिर्जगदीशो वनेचरः
यथेष्टामोघसर्वास्त्रो देवेंद्रतनयाक्षिहा । ब्रह्मेंद्रदिनतैषीको मारीचघ्नो विराधहा
ब्रह्मशापहताशेष दंडकारण्यपावनः । चतुर्दशसहस्रोग्र रक्षोघ्नैकशरैकधृक्
खरारिस्त्रिशिरोहंता दूषणघ्नो जनार्दनः । जटायुषोऽग्निगतिदोऽगस्त्यसर्वस्व मंत्रराट्
लीलाधनुः कोट्यपास्तदुंदुभ्यस्थिमहाचयः । सप्ततालव्यधाकृष्ट ध्वस्तपातालदानवः
सुग्रीवराज्यदो हीनमनसैवाभयप्रदः । हनुमद्रुद्रमुख्येश समस्तकपिदेहभृत्
सनागदैत्यबाणैकव्याकुलीकृतसागरः । सम्लेच्छकोटिबाणैकशुष्कनिर्दग्धसागरः
समुद्राद्भुतपूर्वैक बंधसेतुर्यशोनिधिः । असाध्यसाधको लंकासमूलोत्कर्षदक्षिणः
वरदृप्तजगच्छल्य पौलस्त्यकुलकृंतनः । रावणिघ्नः प्रहस्तच्छित्कुंभकर्णभिदुग्रहा
रावणैकशिरश्च्छेत्ता निःशंकेंद्रैकराज्यदः । स्वर्गास्वर्गत्वविच्छेदी देवेंद्रानिंद्रताहरः
रक्षो देवत्वहृद्धर्मा धर्मत्वघ्नः पुरुष्टुतः । नतिमात्रदशास्यारिर्दत्तराज्यविभीषणः
सुधावृष्टिमृताशेष स्वसैन्योज्जीवनैककृत् । देवब्राह्मणनामैक धाता सर्वामरार्चितः
ब्रह्मसूर्येंद्ररुद्रादि वृंदार्पितसतीप्रियः । अयोध्याखिलराजन्यः सर्वभूतमनोहरः
स्वामितुल्यकृपादंडो हीनोत्कृष्टैकसत्प्रियः । स्वपक्षादिन्यायदर्शी हीनार्थाधिकसाधकः
व्याधव्याजानुचितकृत्तारकोखिलतुल्यकृत् । पार्वत्याधिक्यमुक्तात्मा प्रियात्यक्तः स्मरारिजित्
साक्षात्कुशलवच्छद्मेंद्रादितातोऽपराजितः । कोशलेंद्रो वीरबाहुः सत्यार्थ त्यक्तसोदरः
शरसंधाननिर्धूत धरणीमंडलोदयः । ब्रह्मादिकाम्यसांनिध्यसनाथीकृतदैवतः
ब्रह्मलोकाप्तचांडालाद्यशेषप्राणिसार्थकः । स्वनीतगर्दभाश्वादिश्चिरायोध्यावनैककृत्
रामद्वितीयः सौमित्रिर्लक्ष्मणः प्रहतेंद्रजित् । विष्णुभक्ताप्तरामांघ्रिपादुकाराज्यनिर्वृतः
भरतोऽसह्यगंधर्वकोटिघ्नो लवणांतकः । शत्रुघ्नो वैद्यराजायुर्वेदगर्भौषधीपतिः
नित्यामृतकरो धन्वंतरिर्यज्ञो जगद्धरः । सूर्यारिघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः
छिन्नमूर्धायदेशार्कः शेषांगस्थापितामरः । विश्वार्थाशेषकद्रास्त्र शिरच्छेदाक्षताकृतिः
वाजपेयादिनामाग्निर्वेदधर्मपरायणः । श्वेतद्वीपपतिः सांख्यप्रणेता सर्वसिद्धिराट्
विश्वप्रकाशितज्ञानयोगमोहतमिस्रहा । देवहूत्यात्मजः सिद्धः कपिलः कर्दमात्मजः
योगस्वामी ध्यानभंग सगरात्मजभस्मकृत् । धर्मो वृषेन्द्रः सुरभीपतिः शुद्धात्मभावितः
शंभुस्त्रिपुरदाहैकस्थैर्थविश्वरथोद्वहः । भक्तशंभुजितो दैत्यामृतवापीसमस्तपः