ब्रह्मादिदुःसहज्योतिर्युगांताग्र्यतिभीषणः । कोटिवज्राधिकनखो जगद्दुष्प्रेक्ष्यमूर्तिधृक्
मातृचक्रप्रमथनो महामातृगणेश्वरः । अचिंत्यामोघवीर्याढ्यः समस्तासुरघस्मरः
हिरण्यकशिपुछेदी कालः संकर्षणीपतिः । कृतांतवाहनासह्यः समस्तभयनाशनः
सर्वविघ्नांतकः सर्वसिद्धिदः सर्वपूरकः । समस्तपातकध्वंसी सिद्धमंत्राधिकाह्वयः
भैरवेशो हरार्तिघ्नः कालकोटिदुरासदः । दैत्यगर्भश्राविनामास्फुटद्र् ब्रह्मांडगर्जितः
स्मृतमात्राखिलत्राताऽद्भुतरूपो महाहरिः । ब्रह्मचर्यशिरः पिंडी दिक्पालोऽर्द्धांगभूषणः
द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः । योगिनीग्रस्तगिरजा त्राताभैरवतर्जकः
वीरचक्रेश्वरोऽत्युग्रोऽपमारिः कालशंबरः । क्रोधेश्वरो रुद्रचंडी परिवारादिदुष्टभुक्
सर्वाक्षोभ्यो मृत्युमृत्युः कालमृत्युनिवर्त्तकः । असाध्यसर्वरोगघ्नः सर्वदुर्ग्रहसौम्यकृत्
गणेशकोटिदर्पघ्नो दुःसहाशेषगोत्रहा । देवदानवदुर्दर्शो जगद्भयदभीषणः
समस्तदुर्गतित्राता जगद्भक्षकभक्षकः । उग्रशोंबरमार्जारः कालमूषकभक्षकः । अनंतायुधदोर्दंडी नृसिंहो वीरभद्रजित्
योगिनीचक्रगुह्येशः शक्रारि पशुमांसभुक् । रुद्रो नारायणो मेषरूप शंकरवाहनः
मेषरूपशिवत्राता दुष्टशक्तिसहस्रभुक् । तुलसीवल्लभो वीरो वामाचारोऽखिलेष्टदः
महाशिवः शिवारूढो भैरवैककपालधृक् । किल्लीचक्रेश्वरः शक्र दिव्यमोहनरूपदः
गौरीसौभाग्यदो मायानिधीर्मायाभयापहः । ब्रह्मतेजोमयो ब्रह्मश्रीमयश्च त्रयीमयः
सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा । उपेंद्रो नृपतिर्विष्णुः कश्यपान्वयमंडनः
बलिस्वराज्यदः सर्वदेवविप्रान्नदोऽच्युतः । उरुक्रमस्तीर्थपादस्त्रिपदस्थस्त्रिविक्रमः 6.71.
व्योमपादः स्वपादांभः पवित्रितजगत्त्रयः । ब्रह्मेशाद्यभिवंद्यांघ्रिर्द्रुतधर्मांघ्रिधावनः
अचिंत्याद्भुतविस्तारो विश्ववृक्षो महाबलः । राहुमूर्धापरांगच्छिद्भृगुपत्नीशिरोहरः
पापत्रस्तः सदापुण्यो दैत्याशानित्यखंडनः । पूरिताखिलदेवाशो विश्वार्थैकावतारकृत्
स्वमायानित्यगुप्तात्मा भक्तचिन्तामणिः सदा । वरदः कार्त्तवीर्यादि राजराज्यप्रदोऽनघः
विश्वश्लाघ्यामिताचारो दत्तात्रेयो मुनीश्वरः । पराशक्तिसदाश्लिष्टो योगानंदः सदोन्मदः
समस्तेंद्रारितेजोहृत्परमामृतपद्मपः । अनुसूयागर्भरत्नं भोगमोक्षसुखप्रदः
जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिकृत् । मातृहत्यादिनिर्लेपः स्कंदजिद्विप्रराज्यदः
सर्वक्षत्रांतकृद्वीरदर्पहा कार्त्तवीर्यजित् । सप्तद्वीपावतीदाता शिवार्चक यशप्रदः
भीमः परशुरामश्च शिवाचार्यैकविश्वभुक् । शिवाखिलज्ञानकोशो भीष्माचार्योऽग्निदैवतः
द्रोणाचार्यगुरुर्विश्वजैत्रधन्वाकृतांतजित् । अद्वितीयतपोमूर्त्तिर्ब्रह्मचर्यैकदक्षिणः
मनुःश्रेष्ठः सतांसेतुर्महीयान्वृषभो विराट् । आदिराजः क्षितिपिता सर्वरत्नैकदोहकृत्
पृथुर्जन्माद्येकदक्षो गीः श्रीः कीर्तिः स्वयंवृतः । जगद्वृत्तिप्रदश्चक्रवर्त्तिश्रेष्ठोद्वयास्त्रधृक्
सनकादिमुनिप्राप्य भगवद्भक्तिवर्द्धनः । वर्णाश्रमादिधर्माणां कर्त्ता वक्ता प्रवर्त्तकः