आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः । सर्वदेवमयो ब्रह्मा गुरुर्वागीश्वरीपतिः
अनंतविद्याप्रभवो मूलाविद्याविनाशकः । सर्वज्ञदो जगज्जाड्यनाशको मधुसूदनः
अनेकमंत्रकोटीशः शब्दब्रह्मैकपारगः । आदिविद्वान्वेदकर्त्ता वेदात्मा श्रुतिसागरः
ब्रह्मार्थवेदहरणः सर्वविज्ञानजन्मभूः । विद्याराजो ज्ञानमूर्त्तिर्ज्ञानसिंधुरखंडधीः
मत्स्यदेवो महाशृंगो जगद्बीजबहित्रदृक् । लीलाव्याप्ताखिलांभोधिश्चतुर्वेदप्रवर्त्तकः
आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भरः । अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम्
आत्माधारो धराधारो यज्ञांगो धरणीधरः । हिरण्याक्षहरः पृथ्वीपतिः श्राद्धादिकल्पकः
समस्तपितृभीतिघ्नः समस्तपितृजीवनम् । हव्यकव्यैकभुक्हव्यकव्यैकफलदायकः
रोमांतर्लीनजलधिः क्षोभिताशेषसागरः । महावराहो यज्ञघ्नध्वंसको यज्ञिकाश्रयः
श्रीनृसिंहो दिव्यसिंहः सर्वानिष्टार्थदुःखहा । एकवीरोऽद्भुतबलो यंत्रमंत्रैकभंजनः
ब्रह्मादिदुःसहज्योतिर्युगांताग्र्यतिभीषणः । कोटिवज्राधिकनखो जगद्दुष्प्रेक्ष्यमूर्तिधृक्
मातृचक्रप्रमथनो महामातृगणेश्वरः । अचिंत्यामोघवीर्याढ्यः समस्तासुरघस्मरः
हिरण्यकशिपुछेदी कालः संकर्षणीपतिः । कृतांतवाहनासह्यः समस्तभयनाशनः
सर्वविघ्नांतकः सर्वसिद्धिदः सर्वपूरकः । समस्तपातकध्वंसी सिद्धमंत्राधिकाह्वयः
भैरवेशो हरार्तिघ्नः कालकोटिदुरासदः । दैत्यगर्भश्राविनामास्फुटद्र् ब्रह्मांडगर्जितः
स्मृतमात्राखिलत्राताऽद्भुतरूपो महाहरिः । ब्रह्मचर्यशिरः पिंडी दिक्पालोऽर्द्धांगभूषणः
द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः । योगिनीग्रस्तगिरजा त्राताभैरवतर्जकः
वीरचक्रेश्वरोऽत्युग्रोऽपमारिः कालशंबरः । क्रोधेश्वरो रुद्रचंडी परिवारादिदुष्टभुक्
सर्वाक्षोभ्यो मृत्युमृत्युः कालमृत्युनिवर्त्तकः । असाध्यसर्वरोगघ्नः सर्वदुर्ग्रहसौम्यकृत्
गणेशकोटिदर्पघ्नो दुःसहाशेषगोत्रहा । देवदानवदुर्दर्शो जगद्भयदभीषणः
समस्तदुर्गतित्राता जगद्भक्षकभक्षकः । उग्रशोंबरमार्जारः कालमूषकभक्षकः । अनंतायुधदोर्दंडी नृसिंहो वीरभद्रजित्
योगिनीचक्रगुह्येशः शक्रारि पशुमांसभुक् । रुद्रो नारायणो मेषरूप शंकरवाहनः
मेषरूपशिवत्राता दुष्टशक्तिसहस्रभुक् । तुलसीवल्लभो वीरो वामाचारोऽखिलेष्टदः
महाशिवः शिवारूढो भैरवैककपालधृक् । किल्लीचक्रेश्वरः शक्र दिव्यमोहनरूपदः
गौरीसौभाग्यदो मायानिधीर्मायाभयापहः । ब्रह्मतेजोमयो ब्रह्मश्रीमयश्च त्रयीमयः
सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा । उपेंद्रो नृपतिर्विष्णुः कश्यपान्वयमंडनः
बलिस्वराज्यदः सर्वदेवविप्रान्नदोऽच्युतः । उरुक्रमस्तीर्थपादस्त्रिपदस्थस्त्रिविक्रमः 6.71.
व्योमपादः स्वपादांभः पवित्रितजगत्त्रयः । ब्रह्मेशाद्यभिवंद्यांघ्रिर्द्रुतधर्मांघ्रिधावनः
अचिंत्याद्भुतविस्तारो विश्ववृक्षो महाबलः । राहुमूर्धापरांगच्छिद्भृगुपत्नीशिरोहरः
पापत्रस्तः सदापुण्यो दैत्याशानित्यखंडनः । पूरिताखिलदेवाशो विश्वार्थैकावतारकृत्