हिमवत्कोटिनिष्कंपः कोटिब्रह्मांडविग्रहः । कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्चनः
सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः । ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः
विश्वंभरस्तीर्थपादः पुण्यश्रवणकीर्तनः । आदिदेवो जगज्जैत्रो मुकुंदः कालनेमिहा
वैकुंठोऽनंतमाहात्म्यो महायोगेश्वरोत्सवः । नित्यतृप्तोलसद्भावो निःशंको नरकांतकः
दीनानाथैकशरणं विश्वैकव्यसनापहः । जगत्कृपाक्षमो नित्यं कृपालुः सज्जनाश्रयः
योगेश्वरः सदोदीर्णो वृद्धिक्षयविवर्जितः । अधोक्षजो विश्वरेताः प्रजापति शताधिपः
शक्रब्रह्मार्चितपदः शंभुब्रह्मोर्ध्वधामगः । सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः
जगत्सेतुर्धर्मसेतुधरो विश्वधुरंधरः । निर्ममोऽखिललोकेशो निःसंगोऽद्भुतभोगवान्
वश्यमायो वश्यविश्वो विष्वक्सेनः सुरोत्तमः । सर्वश्रेयः पतिर्दिव्यानर्घ्यभूषणभूषितः
सर्वलक्षणलक्षण्यः सर्वदैत्येंद्रदर्पहा । समस्तदेवसर्वस्वं सर्वदैवत नायकः
समस्तदेवकवचं सर्वदेवशिरोमणिः । समस्तदेवतादुर्गः प्रपन्नाशनिपंजरः
समस्तभयहृन्नामा भगवान्विष्टरश्रवाः । विभुः सर्वहितोदर्को हतारिः स्वर्गतिप्रदः
सर्वदैवतजीवेशो ब्राह्मणादिनियोजकः । ब्रह्मशंभुः परार्धायुर्ब्रह्मज्येष्ठः शिशुः स्वराट्
विराड्भक्तपराधीनः स्तुत्यः स्तोत्रार्थसाधकः । परार्थकर्त्ताकृत्यज्ञः स्वार्थकृत्य सदोज्झितः
सदानंदः सदाभद्रः सदाशांतः सदाशिवः । सदाप्रियः सदातुष्टः सदापुष्टः सदार्चितः
सदापूतो पावनाग्र्यो वेदगुह्यो वृषाकपिः । सहस्रनामा त्रियुगश्चतुर्मूर्तिश्चतुर्भुजः
भूतभव्यभवन्नाथो महापुरुषपूर्वजः । नारायणो मुंजकेशः सर्वयोगविनिःसृतः
वेदसारो यज्ञसारः सामसारस्तपोनिधिः । साध्यः श्रेष्ठः पुराणर्षिः निष्ठा शांतिः परायणः
शिवत्रिशूलविध्वंसी श्रीकंठैकवरप्रदः । नरः कृष्णो हरिर्धर्मनंदनो धर्मजीवनः
आदिकर्त्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा । त्रिकालजित कंदर्प्प उर्वशीसृङ्मुनीश्वरः
आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः । सर्वदेवमयो ब्रह्मा गुरुर्वागीश्वरीपतिः
अनंतविद्याप्रभवो मूलाविद्याविनाशकः । सर्वज्ञदो जगज्जाड्यनाशको मधुसूदनः
अनेकमंत्रकोटीशः शब्दब्रह्मैकपारगः । आदिविद्वान्वेदकर्त्ता वेदात्मा श्रुतिसागरः
ब्रह्मार्थवेदहरणः सर्वविज्ञानजन्मभूः । विद्याराजो ज्ञानमूर्त्तिर्ज्ञानसिंधुरखंडधीः
मत्स्यदेवो महाशृंगो जगद्बीजबहित्रदृक् । लीलाव्याप्ताखिलांभोधिश्चतुर्वेदप्रवर्त्तकः
आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भरः । अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम्
आत्माधारो धराधारो यज्ञांगो धरणीधरः । हिरण्याक्षहरः पृथ्वीपतिः श्राद्धादिकल्पकः
समस्तपितृभीतिघ्नः समस्तपितृजीवनम् । हव्यकव्यैकभुक्हव्यकव्यैकफलदायकः
रोमांतर्लीनजलधिः क्षोभिताशेषसागरः । महावराहो यज्ञघ्नध्वंसको यज्ञिकाश्रयः
श्रीनृसिंहो दिव्यसिंहः सर्वानिष्टार्थदुःखहा । एकवीरोऽद्भुतबलो यंत्रमंत्रैकभंजनः