निरंजनो निरातंको निर्लेपो निरवग्रहः । निर्गुणो निष्कलोऽनंतोऽभयोऽचिंत्योऽबलोचितः
अतीन्द्रियो मितो पारोऽनीशोऽनीहोऽव्ययोऽक्षयः । सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः
सर्वशास्ता सर्वसाक्षी पूज्यः सर्वस्य सर्वदृक्? । सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः
सर्वावासः सर्वरूपः सर्वादिः सर्वदुःखहा । सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम्
सर्वातिशयितः सर्वाध्यक्षः सर्वसुरेश्वरः । षड्विंशको महाविष्णुर्महागुह्यो महाविभुः
नित्योदितो नित्ययुक्तो नित्यानंदः सनातनः । मायापतिर्योगपतिः कैवल्यपतिरात्मभूः
जन्ममृत्युजरातीतः कालातीतो भवातिगः । पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः
योगप्रियो योगगम्यो भवबंधैकमोचकः । पुराणपुरुषः प्रत्यक्चैतन्यः पुरुषोत्तमः
वेदांतवेद्यो दुर्ज्ञेयस्तपत्रयविवर्जितः । ब्रह्मविद्याश्रयो नाद्यः स्वप्रकाशः स्वयंप्रभुः
सर्वोपेय उदासीनः प्रणवः सर्वतः समः । सर्वानवद्यो दुष्प्राप्यस्तुरीयस्तमसः परः
कूटस्थः सर्वसंश्लिष्टो वाङ्मनोगोचरातिगः । संकर्षणः सर्वहरः कालः सर्वभयंकरः
अनुल्लंघ्यश्चित्रगतिर्महारुद्रो दुरासदः । मूलप्रकृतिरानंदः प्रद्युम्नो विश्वमोहनः
महामायो विश्वबीजं परशक्तिः सुखैकभूः । सर्वकाम्योऽनतलीलः सर्वभूतवशंकरः
अनिरुद्धः सर्वजीवो हृषीकेशो मनःपतिः । निरुपाधिप्रियो हंसोक्षरः सर्वनियोजकः
ब्रह्मप्राणेश्वरः सर्वभूतभृद्देहनायकः । क्षेत्रज्ञः प्रकृतिः स्वामी पुरुषो विश्वसूत्रधृक्
अंतर्यामी त्रिधामांतः साक्षी त्रिगुण ईश्वरः । योगिगम्यः पद्मनाभः शेषशायी श्रियःपतिः
श्रीसदोपास्यपादाब्जो नित्यश्रीः श्रीनिकेतनः । नित्यं वक्षःस्थलस्थश्रीः श्रीनिधिः श्रीधरो हरिः
वश्यश्रीर्निश्चलः श्रीदो विष्णुः क्षीराब्धिमंदिरः । कौस्तुभोद्भासितोरस्को माधवो जगदार्तिहा
श्रीवत्सवक्षा निःसीम कल्याणगुणभाजनः । पीतांबरो जगन्नाथो जगत्त्राता जगत्पिता
जगद्बंधुर्जर्गत्स्रष्टा जगद्धाता जगन्निधिः । जगदेकस्फुरद्वीर्योऽनहंवादी जगन्मयः
सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्वरंजितः । सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनाः
शंभोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः । सर्वदेवप्रियः सर्वदेवमूर्तिरनुत्तमः
सर्वदेवैकशरणं सर्वदेवैकदैवतम् । यज्ञभुग्यज्ञफलदो यज्ञेशो यज्ञभावनः
यज्ञत्राता यज्ञपुमान्वनमाली द्विजप्रियः । द्विजैकमानदो विप्र कुलदेवो सुरांतकः
सर्वदुष्टांतकृत्सर्वसज्जनानन्यपालकः । सप्तलोकैकजठरः सप्तलोकैकमंडनः
सृष्टिस्थित्यंतकृच्चक्री शार्ङ्गधन्वा गदाधरः । शंखभृन्नंदकी पद्मपाणिर्गरुडवाहनः
अनिर्देश्यवपुः सर्वपूज्यस्त्रैलोक्यपावनः । अनंतकीर्तिर्निःसीम पौरुषः सर्वमंगलः 6.71.
सूर्यकोटिप्रतीकाशो यमकोटिदुरासदः । मयकोटिजगत्स्रष्टा वायुकोटिमहाबलः
कोटींदु जगदानंदी शंभुकोटिमहेश्वरः । कंदर्पकोटिलावण्यो दुर्गकोट्यरिमर्दनः
समुद्रकोटिगंभीरस्तीर्थकोटि समाह्वयः । कुबेरकोटि लक्ष्मीवाञ्छक्रकोटि विलासवान्