तमजं विश्वकर्माणं चित्पतिं लोकसाक्षिणम्। पुराणाख्यानजिज्ञासुर्व्रजामि शरणं विभुम्
ब्रह्मविष्णुगिरीशेभ्यो नमस्कृत्वा समाहितः। इंद्राय लोकपालेभ्यः सवित्रे च समाधिना
मुनीनां च वरिष्ठाय वसिष्ठाय महात्मने। तद्वक्त्रेभाततपसे जातूकर्ण्याय चाक्षुषे
तस्मै भगवते नत्वा वेदव्यासाय वेधसे। पुरुषाय पुराणाय भृगुवाक्यानुवर्तिने
तस्मादहमुपाश्रौषं पुराणं ब्रह्मवादिनः। सर्वज्ञात्सर्वलोकेषु पूजिताद्दीप्ततेजसः
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम्। महदादिविशेषांतं सृजतीति विनिश्चयः
अण्डे हिरण्मये पूर्वं ब्रह्मणः सूतिरुत्तमा। अंडस्यावरणं चाद्भिरपामपि च तेजसा
वायुना तस्य वायोः खात्तद्भूतादित आवृतम्। भूतादिर्महता चापि अव्यक्तेनावृतो महान्
प्रादुर्भावश्च लोकानामंड एवोपवर्णितः। नदीनां पर्वतानां च प्रादुर्भावोनुवर्ण्यते
मन्वंतराणां संक्षेपात्कल्पानां चोपवर्णनम्। ब्रह्मवृक्षलय ब्रह्मप्रजासर्गोपवर्णनम्
कल्पानां संचरश्चैव जगतः स्थापनं तथा। शयनं च हरेरप्सु पृथिव्युद्धरणं पुनः
दशधा जन्मसंचारो भृगुशापेन केशवे। सन्निवेशो युगादीनां सर्वाश्रमविभाजनम्
स्वर्गस्थानविभागश्च मर्त्यानां स्वर्गचारिणां। पशूनां पक्षिणां चैव संभवः परिकीर्त्तितः
तथा निर्वचनं कल्पं स्वाध्यायस्य परिग्रहः। प्रतिसर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः
त्रयोन्येऽबुद्धिपूर्वास्ते तथा लोकानकल्पयत्। ब्रह्मणो वदनेभ्यश्च भृग्वादीनां समुद्भवः
कल्पयोरंतरं प्रोक्तं प्रतिसंधिश्च सर्गयोः। भृग्वादीनामृषीणां च प्रजासर्गोपवर्णनम्
वसिष्ठस्य च ब्रह्मर्षेर्ब्रह्मत्त्वं परिकीर्त्तितम्। स्वायंभुवस्य च मनोस्ततश्चाप्यनुकीर्तनम्
उक्तो नाभेर्विसर्गश्च रजसश्च महात्मनः। द्वीपानां च समुद्राणां पर्वतानां च कीर्तनम्
द्वीपभेदसमुद्राणामन्तर्भावश्च सप्तसु। कीर्त्यन्ते योजनाग्रेण ये च तत्र निवासिनः
तदीयानि च वर्षाणि नदीभिः पर्वतैः सह। जंबूद्वीपादयो द्वीपाः समुद्रैः सप्तभिर्वृताः
अंडस्यांतस्त्विमेलोकाः सप्तद्वीपा च मेदिनी। सूर्याचंद्रमसोश्चारो ग्रहाणां ज्योतिषां तथा
कीर्त्यते ध्रुवसामर्थ्यात्प्रजानां च शुभाशुभम्। ब्रह्मणा निर्मितः सौरः स्यंदनोर्थवशात्स्वयम्
कल्पितो भगवांस्तेन प्रसर्पति दिवाकरः। सूर्यादीनां स्यंदनानां ध्रुवादेव प्रवर्त्तनं
कल्पितः शिंशुमारश्च यस्य पुच्छे ध्रुवः स्थितः। संभवांते च संहारः संहारांते च संभवः
देवतानामृषीणां च मनोः पितृगणस्य च। न शक्यं विस्तराद्वक्तुमित्युक्तं च समासतः
अतीतानागतानां वै समं स्वायंभुवेन तु। मन्वंतरेषु देवानां प्रजेशानां च कीर्तनम्
नैमित्तिकः प्राकृतिकस्तथैवात्यंतिकः स्मृतः। त्रिविधः सर्वभूतानां कल्पितः प्रतिसंचरः
अनावृष्टिर्भास्कराच्च घोरः संवर्त्तकानलः। मेघाश्चैकार्णवा ये तु तथा रात्रिर्महात्मनः
संध्यालक्षणमुद्दिष्टं तथा ब्राह्मं विशेषतः। भूतानां चापि लोकानां सप्तानामनुवर्णनम्
संकीर्त्यं ते मया चात्र पापानां रौरवादयः। सर्वेषामेव सत्वानां परिणामविनिर्णयः