तुलापुरुषदानाद्यैरश्वमेधादिभिर्मखैः । वाराणसीप्रयागादि तीर्थस्नानादिभिः प्रिये
गयाश्राद्धादिभिः पित्र्यैर्वेदपाठादिभिर्जपैः । तपोभिरुग्रैर्नियमैर्यमैर्भूतदयादिभिः
गुरुशुश्रूषणैः सेव्यैर्धर्मैर्वर्णाश्रमान्वितैः । ज्ञानध्यानादिभिः सम्यक्चरितैर्जन्मकोटिभिः
न यांति तत्परं श्रेयो विष्णुं सर्वेश्वरेश्वरम् । सर्वभावैः समाश्रित्य पुराणपुरुषोत्तमम्
अनन्यगतयो मर्त्या भोगिनोऽपि परंतपे । ज्ञानवैराग्यरहिता ब्रह्मचर्यादिवर्जिताः
सर्वधर्मोज्झिता विष्णोर्नाममात्रैकजल्पिनः । सुखेन यां गतिं यांति न तां सर्वेऽपि धार्मिकाः
स्मर्त्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् । सर्वे विधिनिषेधाः स्युरेतस्यैव विधिं कराः 6.71.
किंतु ब्रह्मादयो देवा ऋषयश्च निरंहसः । निर्भयं विष्णुनाम्नैव यथेष्टं पदमागताः
अलब्ध्वा चात्मनः पूजां सम्यगाराधितो हरिः । मयास्मादपि च श्रेष्ठं वांच्छताहं कृतात्मना
ततः साक्षाज्जगन्नाथ प्रसन्नो भक्तवत्सलः । अंशांशेनात्मनैवैतान्पूजयामास केशवः
देवान्पितॄन्द्विजान्हव्यकव्याद्यैः करुणामयः । ततः प्रभृति पूज्यंते त्रैलोक्ये सचराचरे
ब्रह्मादयः सुराः सर्वे प्रसादाच्छार्ङ्गधन्वनः । मां चोवाच यथा मत्तः पूज्यः श्रेष्ठो भविष्यसि
त्वामाराध्य तथा शंभो गृहीष्यामि वरं सदा । द्वापरादौ युगे भूत्वा कलया मानुषादिषु
स्वागमैः कल्पितैस्त्वं च जनान्मद्विमुखान्कुरु । मां च गोपय येन स्यात्सृष्टिरेषोत्तरोत्तरा
एष मोहं सृजाम्याशु योजनान्मोहयिष्यति । त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज । प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु
ततस्तं प्रणिपत्याहमवोचं परमेश्वरम् । ब्रह्महत्या सहस्रस्य पापं शाम्येत्कथंचन
न पुनस्त्वदविज्ञानं कल्पकोटिशतैरपि । तस्मान्मया कृता स्पर्द्धा पवित्रः स्यां कथं हरे
तन्मे कथय गोविंद पायश्चित्तं यदिच्छसि । ततः प्रसन्नो भगवानवोचत्तत्त्वमात्मनः
येनाहमधिकस्तस्मादभवं नगनंदिनि । तमेव तपसा नित्यं भजामि स्तौमि चिंतये
परमो विष्णुरेवैकस्तज्ज्ञानं मुक्तिसाधनम् । शास्त्राणां निर्णयस्त्वेषस्तदन्यन्मोहनाय च
दानं विना च या मुक्तिः साम्यं च मम विष्णुना । तीर्थादिमात्रतो ज्ञानं ममाधिक्यं च विष्णुतः
अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा । इत्यादि सर्वमोहाय कथ्यते सति नान्यथा । तेनाद्वितीय महिमो जगत्पूज्योऽस्मि पार्वति
पार्वत्युवाच - तन्मे कथय देवेश यथाहमपि शंकर । सर्वेश्वरी निरुपमा तव स्यां सदृशी प्रभो
महादेव उवाच- साधुसाधु त्वया पृष्टं विष्णोर्भगवतः प्रिये । नाम्नां सहस्रं वक्ष्यामि मुख्यं त्रैलोक्यमुक्तिदम्
अस्य श्रीविष्णोर्नामसहस्रस्तोत्रस्य श्रीमहादेव ऋषिरनुष्टुपच्छंदः । ह्रीं बीजं श्रीं शक्तिः क्लीं कीलकं चतुर्वर्गधर्मकामार्थमोक्षार्थे जपे विनियोगः । ॐवासुदेवाय विद्महे महाहंसाय धीमहि । तन्नो विष्णुः प्रचोदयात् अंगन्यासकरन्यासौ विधिपूर्वं यदा पठेत् । तत्फलं कोटिगुणितं भवत्येव न संशयः
श्रीवासुदेवः परंब्रह्म इति हृदये । मूलप्रकृतिरिति शिरः । महावराह इति शिखा । सूर्यवंशध्वज इति कवचम् । ब्रह्मादिकाम्यललित जगदाश्चर्य शैशव इति नेत्रम् । यथार्थखंडिताशेष इत्यस्त्रम् । नमोनारायणायेति न्यासं सर्वत्र कारयेत् । ॐनमोनारायणाय पुरुषाय महात्मने । विशुद्धसत्वधिष्ण्याय महाहंसाय धीमहि । ॐह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः । क्लीं कृष्णाय विष्णवे ह्रीं रामाय धीमहि तन्नो देवः प्रचोदयात् । क्ष्रौं नृसिंहाय विद्महे श्रीं श्रीकंठाय धीमहि तन्नो विष्णुः प्रचोदयात् । ॐवासुदेवाय विद्महे देवकीसुताय धीमहि तन्नः कृष्णः प्रचोदयात् । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः। क्लीं कृष्णाय गोविंदाय गोपीजनवल्लभाय स्वाहा । इति मंत्रम् समुच्चार्य जपेद्वा विष्णुमव्ययम् । श्रीनिवासं जगन्नाथं तस्य स्तोत्रं पठेत्सुधीः
ॐवासुदेवः परं ब्रह्म परमात्मा परात्परः । परंधाम परंज्योतिः परंतत्वं परं पदम्
परः शिवः परोध्येयः परं ज्ञानं परागतिः । परमार्थः परंश्रेयः परानंदः परोदयः
परो व्यक्तात्परं व्योम परमर्द्धिः परेश्वरः । निरामयो निर्विकारो निर्विकल्पो निराश्रयः