ममायं तु पिता साक्षाद्बन्धुश्चैव तु सर्वदा । तस्याहं सर्वदा भक्तो ह्ययं मम पतिः सदा
तदहं संप्रवक्ष्यामि शृणुष्व गदतो मम । सूत उवाच- एवमुक्त्वा नारदाय कथयामास वै द्विजाः
उमायै यत्पुरा प्रोक्तं विष्णोर्नामसहस्रकम् । महेशाच्चैव तत्प्राप्तं कैलासे नारदेन वै
कदाचिद्दैवयोगेन कैलासात्स समागतः । नैमिषारण्यसंज्ञं तु तीर्थं वै परमाद्भुतम्
तत्रस्था ऋषयः सर्वे दृष्ट्वा तं ऋषिसत्तमम् । पूजां चक्रुर्विशेषेण नारदाय महात्मने
आगतं नारदं ज्ञात्वा विस्मयोत्फुल्ललोचनाः । पुष्पवृष्टिं प्रचक्रुस्ते वैष्णवा द्विजसत्तमाः
पाद्यमर्घ्यं ततः कृत्वा कृत्वा चारार्तिकं ततः । निवेद्य फलमूलानि दंडवत्पतिता भुवि
ऊचुश्च कृतकृत्याः स्म देशे ह्यस्मिन्महामुने । भवतो दर्शनं जातं पवित्रं पापनाशनम्
त्वत्प्रसादाच्च देवेश पुराणानि श्रुतानि च । ब्रह्मन्केन प्रकारेण सर्वपापक्षयो भवेत्
विना दानेन तपसा विना तीर्थ तपो मखैः । विना दानैर्विना ध्यानैर्विना चेंद्रियनिग्रहैः । विना शास्त्रसमूहैश्च कथं मुक्तिरवाप्यते
नारद उवाच- कैलासशिखरासीनं देवदेवं जगद्गुरुम् । प्रणिपत्य महादेवं पर्यपृच्छदुमाप्रियम्
पार्वत्युवाच- भगवंस्त्वं परो देवः सर्वज्ञः सर्वपूजितः । स त्वमत्त्यर्च्यते देवैरिंद्रसूर्यादिकैरपि
लभंतेऽभिमतां सिद्धिं सर्वेऽभ्यर्च्य वरप्रदम् । त्वं जन्ममृत्युरहितः स्वयंभूः सर्वशक्तिमान्
सदा ध्यायसि किं स्वामिन्दिग्वासा मदनांतकः । तपश्चरसि कस्मात्त्वं जटिलो भस्मधूसरः
किं वा जपसि देवेश परं कौतूहलं हि मे । अनुग्राह्या यदा तेऽस्मि तत्त्वं कथय सुव्रतम्
महादेव उवाच- नेदं कस्यापि कथितं गोपनीयमिदं मम । किंतु वक्ष्यामि ते भद्रे त्वं भक्तासि प्रियासि मे
पुरा सत्ययुगे देवि विशुद्धमतयोऽखिलाः । यजंति विष्णुमेवैकं ज्ञात्वा सर्वेश्वरेश्वरम्
प्रयांति परमामृद्धिमैहिकामुष्मिकीं प्रिये । यां न प्राप्ताः सुराः सर्वे ऋषयः क्लेशसंयुताः
ते तां गतिं प्रपद्यंते ये नामकृतनिश्चयाः । मन्मुखादपि संश्रुत्य देवा विष्णुबहिर्मुखाः
वेदैः पुराणैः सिद्धांतैर्भिन्नैर्विभ्रांतचेतसः । निश्चयं नाधिगच्छंति किं तत्वं किं परं पदम्
तुलापुरुषदानाद्यैरश्वमेधादिभिर्मखैः । वाराणसीप्रयागादि तीर्थस्नानादिभिः प्रिये
गयाश्राद्धादिभिः पित्र्यैर्वेदपाठादिभिर्जपैः । तपोभिरुग्रैर्नियमैर्यमैर्भूतदयादिभिः
गुरुशुश्रूषणैः सेव्यैर्धर्मैर्वर्णाश्रमान्वितैः । ज्ञानध्यानादिभिः सम्यक्चरितैर्जन्मकोटिभिः
न यांति तत्परं श्रेयो विष्णुं सर्वेश्वरेश्वरम् । सर्वभावैः समाश्रित्य पुराणपुरुषोत्तमम्
अनन्यगतयो मर्त्या भोगिनोऽपि परंतपे । ज्ञानवैराग्यरहिता ब्रह्मचर्यादिवर्जिताः
सर्वधर्मोज्झिता विष्णोर्नाममात्रैकजल्पिनः । सुखेन यां गतिं यांति न तां सर्वेऽपि धार्मिकाः
स्मर्त्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् । सर्वे विधिनिषेधाः स्युरेतस्यैव विधिं कराः 6.71.
किंतु ब्रह्मादयो देवा ऋषयश्च निरंहसः । निर्भयं विष्णुनाम्नैव यथेष्टं पदमागताः
अलब्ध्वा चात्मनः पूजां सम्यगाराधितो हरिः । मयास्मादपि च श्रेष्ठं वांच्छताहं कृतात्मना
ततः साक्षाज्जगन्नाथ प्रसन्नो भक्तवत्सलः । अंशांशेनात्मनैवैतान्पूजयामास केशवः