तत्र पृष्टं मया पूर्वं विष्णोर्नामसहस्रकम् । तदाहं ब्रह्मणा चोक्तं नाहं जानामि नारद
जानात्ययं महारुद्रस्तत्सर्वं कथयिष्यति । महाश्चर्यं तु संप्राप्य ह्यागतस्तव सन्निधौ
अस्मिन्कलियुगे घोरेऽल्पायुषश्चैव मानवाः । विधर्मेषु रता नित्यं नामनिष्ठा न वै पुनः
पाखंडिनस्तथा विप्रा धर्मेषु विरताः सदा । संध्याहीन व्रतभ्रष्टा दुष्टा मलिनरूपिणः
यथा विप्रास्तथा क्षत्रा वैश्याश्चैव पुनः पुनः । एवं शूद्रास्तथान्ये च न वै भागवता नराः
शूद्रा द्विजातिबाह्याश्च कलौ विश्वेश्वर प्रभो । धर्माधर्मौ न जानंति हितं वाऽहितमेव वा
एवं ज्ञात्वा ह्यहं स्वामिन्नागतः संनिधौ तव । पुनश्च नाममाहात्म्यं श्रुतं वै ब्रह्मणो मुखात्
त्वं देवः सर्वदेवानां त्वं नाथो मम सर्वदा । त्रिपुरारिश्च विश्वात्मा धाता त्वं च पुनः पुनः
कथयस्व प्रसादेन विष्णोर्नामसहस्रकम् । सौभाग्यजननं पुंसां परं भक्तिकरं सदा
ब्राह्मणानां ब्रह्मदं च क्षत्रियाणां जयप्रदम् । वैश्यानां धनदं नित्यं शूद्राणां सुखदायकम्
तदहं श्रोतुमिच्छामि त्वत्सकाशान्महेश्वर । त्वं समर्थोऽसि भक्तानां सर्वदा केशवं प्रति
कथयस्व प्रसादेन यदि गोप्यं न सुव्रत । इदं पवित्रं परमं सर्वतीर्थमयं सदा
अतो वै श्रोतुमिच्छामि वद विश्वेश्वर प्रभो । श्रुत्वा नारदवाक्यानि विस्मयोत्फुल्ललोचनः
रोमांचितस्ततो जातो विष्णोर्नामानि संस्मरन् । ईश्वर उवाच- एतद्गोप्यं परं ब्रह्मन्विष्णोर्नामसहस्रकम्
एतच्छ्रुत्वा नरो वत्स न लभेद्दुर्गतिं क्वचित् । कदाचिच्च गते काले पार्वती मामुवाच ह
पार्वत्युवाच - कैलासाधिपते मह्यं कथयस्व यथातथम् । त्वं किं जपसि देवेश परैश्वर्यसमाहितः
सदा त्वं भस्मलिप्तांगः कृत्तिवासाः सदा कथम् । जटाधरः कथं जातो वद विश्वेश्वर प्रभो
त्वं देवः सर्वदेवानां त्वं गुरुः सर्वकर्मणाम् । त्वं पतिर्मम विश्वेश विश्वनाथ जगत्प्रभो
महादेव उवाच- इति पृष्टं मम ब्रह्मन्पार्वत्या च पुनः पुनः । तदा सर्वं मया ख्यातं तस्याश्चाग्रे विशेषतः
शृणु नारद वक्ष्यामि यदुक्तं पार्वतीं प्रति । येन प्रसन्नो भगवान्मुक्तिदाता न संशयः
ममायं तु पिता साक्षाद्बन्धुश्चैव तु सर्वदा । तस्याहं सर्वदा भक्तो ह्ययं मम पतिः सदा
तदहं संप्रवक्ष्यामि शृणुष्व गदतो मम । सूत उवाच- एवमुक्त्वा नारदाय कथयामास वै द्विजाः
उमायै यत्पुरा प्रोक्तं विष्णोर्नामसहस्रकम् । महेशाच्चैव तत्प्राप्तं कैलासे नारदेन वै
कदाचिद्दैवयोगेन कैलासात्स समागतः । नैमिषारण्यसंज्ञं तु तीर्थं वै परमाद्भुतम्
तत्रस्था ऋषयः सर्वे दृष्ट्वा तं ऋषिसत्तमम् । पूजां चक्रुर्विशेषेण नारदाय महात्मने
आगतं नारदं ज्ञात्वा विस्मयोत्फुल्ललोचनाः । पुष्पवृष्टिं प्रचक्रुस्ते वैष्णवा द्विजसत्तमाः
पाद्यमर्घ्यं ततः कृत्वा कृत्वा चारार्तिकं ततः । निवेद्य फलमूलानि दंडवत्पतिता भुवि
ऊचुश्च कृतकृत्याः स्म देशे ह्यस्मिन्महामुने । भवतो दर्शनं जातं पवित्रं पापनाशनम्
त्वत्प्रसादाच्च देवेश पुराणानि श्रुतानि च । ब्रह्मन्केन प्रकारेण सर्वपापक्षयो भवेत्
विना दानेन तपसा विना तीर्थ तपो मखैः । विना दानैर्विना ध्यानैर्विना चेंद्रियनिग्रहैः । विना शास्त्रसमूहैश्च कथं मुक्तिरवाप्यते