यस्य वै नाममहिमा श्रुत्वा मोक्षमवाप्नुयात् । तन्मुखं तु महत्तीर्थं तन्मुखं क्षेत्रमेव च
यन्मुखे रामरामेति तन्मुखं सर्वकामिकम् । कानि वै तस्य नामानि कति वीर्याणि सुव्रत
तत्सर्वं च विशेषेण मम ब्रूहि पितामह । ब्रह्मोवाच- व्यापकोऽयं सदा विष्णुः परमात्मा सनातनः
अनादिनिधनः श्रीमान्भूतात्मा भूतभावनः । यस्मादहं हि संजातो सोऽयं विष्णुः सदावतु
सोऽयं कालस्य कालो वै सोऽयं मम तु पूर्वजः । अक्षयः पुंडरीकाक्षो मतिमानव्ययः पुमान्
शेषशायी सदा विष्णुः सहस्रशीर्षा महत्प्रभुः । सर्वभूतमयः साक्षाद्विश्वरूपो जनार्दनः
कैटभारिरयं विष्णुर्धाता देवो जगत्पतिः । तस्याहं नामगोत्रं च न वेद्मि पुरुषर्षभ
वेदवाद्यप्यहं तात नाहं ज्ञाता कदाचन । अतस्त्वं गच्छ देवर्षे यत्रास्ति किल विश्वराट्
स च तत्त्वं मुनिश्रेष्ठ सर्वं ते कथयिष्यति । स एव पुरुषः श्रीमान्कैलासाधिपतिः सदा
सर्वेषां विष्णुभक्तानामयं श्रेष्ठः परात्परः । पंचवक्त्रो ह्युमाकांतः सर्वदुःखनिबर्हणः
विश्वेश्वरो विश्वनाथः सर्वदा भक्तवत्सलः । तत्र गच्छ सुरश्रेष्ठ तत्सर्वं कथयिष्यति
पितुर्वचनमाकर्ण्य तत्र गंतुं प्रचक्रमे । विज्ञातुं नाममाहात्म्यं कैलासभवनं प्रति
यत्र विश्वेश्वरो देवो नित्यं तिष्ठति भूतिदः । ददर्श नारदस्तत्र देवं तं सुरपूजितम्
कैलासशिखरासीनं देवदेवं जगद्गुरुम् । पंचवक्त्रं दशभुजं त्रिनेत्रं शूलपाणिनम्
कपालिनं सखट्वांगं तीक्ष्णं शूलासिधारिणम् । पिनाकधारिणं भीमं वरदं वृषवाहनम्
भस्मांगं व्यालशोभाढ्यं शशांककृतशेखरम् । नीलजीमूतसंकाशं सूर्यकोटिसमप्रभम्
क्रीडंतं तत्र देवेशं साष्टांगं दंडवत्पुनः । तं दृष्ट्वा तु महादेवो विस्मयोत्फुल्ललोचनः 6.71.
वैष्णवानां परः श्रेष्ठः प्राह वाडवसत्तमम् । कस्मादिह समायातो वद देवर्षिसत्तम
नारद उवाच- एकस्मिन्नेव काले तु गतोऽहं ब्रह्मणोंतिकम् । श्रुतं तत्र मया देव विष्णोर्माहात्म्यमुत्तमम्
ब्रह्मणा कथितं तत्र ममाग्रे देवसत्तम । नाम्नोऽस्य यावती शक्तिः सा श्रुता ब्रह्मणो मुखात्
तत्र पृष्टं मया पूर्वं विष्णोर्नामसहस्रकम् । तदाहं ब्रह्मणा चोक्तं नाहं जानामि नारद
जानात्ययं महारुद्रस्तत्सर्वं कथयिष्यति । महाश्चर्यं तु संप्राप्य ह्यागतस्तव सन्निधौ
अस्मिन्कलियुगे घोरेऽल्पायुषश्चैव मानवाः । विधर्मेषु रता नित्यं नामनिष्ठा न वै पुनः
पाखंडिनस्तथा विप्रा धर्मेषु विरताः सदा । संध्याहीन व्रतभ्रष्टा दुष्टा मलिनरूपिणः
यथा विप्रास्तथा क्षत्रा वैश्याश्चैव पुनः पुनः । एवं शूद्रास्तथान्ये च न वै भागवता नराः
शूद्रा द्विजातिबाह्याश्च कलौ विश्वेश्वर प्रभो । धर्माधर्मौ न जानंति हितं वाऽहितमेव वा
एवं ज्ञात्वा ह्यहं स्वामिन्नागतः संनिधौ तव । पुनश्च नाममाहात्म्यं श्रुतं वै ब्रह्मणो मुखात्
त्वं देवः सर्वदेवानां त्वं नाथो मम सर्वदा । त्रिपुरारिश्च विश्वात्मा धाता त्वं च पुनः पुनः
कथयस्व प्रसादेन विष्णोर्नामसहस्रकम् । सौभाग्यजननं पुंसां परं भक्तिकरं सदा
ब्राह्मणानां ब्रह्मदं च क्षत्रियाणां जयप्रदम् । वैश्यानां धनदं नित्यं शूद्राणां सुखदायकम्