एकदा नारदो द्रष्टुं पितरं सुसमाहितः । जगाम मेरुशिखरं सिद्धचारणसेवितम्
तत्र देवं समासीनं ब्रह्माणं जगतां पतिम् । नमस्कृत्याब्रवीद्विप्रा नारदो मुनिसत्तमः
नारद उवाच- नाम्नोऽस्य यावतीशक्तिर्वद विश्वेश्वर प्रभो । कीदृक्तु नाममहिमा अव्ययस्य महात्मनः
योऽयं विश्वेश्वरः साक्षादयं नारायणो हरिः । परमात्मा हृषीकेशः सर्वजीवेषु संगतः
मायाविमोहिताः सर्वे भगवंतमधोक्षजम् । नैव जानंत्यसारेऽस्मिन्नरा मूढाः कलौ युगे
ब्रह्मोवाच- अस्मिन्कलौ विशेषेण नामोच्चारणपूर्वकम् । भक्तिः कार्या यथा वत्स तथा त्वं श्रोतुमर्हसि
दृष्टं परेषां पापानामनुक्तानां विशोधनम् । विष्णोर्जिष्णोः प्रयत्नेन स्मरणं पापनाशनम्
मिथ्या ज्ञात्वा ततः सर्वं हरेर्नामपठन्जपन् । सर्वपापविनिर्मुक्तो याति विष्णोः परंपदम्
ये वदंति नरा नित्यं हरिरित्यक्षरद्वयम् । तस्योच्चारणमात्रेण विमुक्तास्ते न संशयः
प्रायश्चित्तानि सर्वाणि कृष्णानुस्मरणं परम् । प्रातर्निशि तथा सायं मध्याह्नादिषु संस्मरन्
नारायणमवाप्नोति सद्यः पापक्षयं नरः । विष्णुसंस्मरता देव समस्तक्लेशसंक्षये
मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विष्णोस्तु कीर्त्तनात् । वासुदेवे मनो यस्य जपहोमार्चनादिषु
तदक्षयं विजानीयाद्यावदिंद्राश्चतुर्दश । क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम्
क्व जपो वासुदेवस्य मुक्तिबीजमनुत्तमम् । तन्मुखं परमं तीर्थं यत्रावर्त्तं वितन्वती
नमो नारायणायेति भाति प्राची सरस्वती । तस्मादहर्निशं विष्णुस्मरणात्पुरुषोत्तमः
न याति नरकं पुत्र संक्षीणकलिकल्मषः । सत्यं सत्यं पुनः सत्यं भाषितं मम सुव्रत
नामोच्चारणमात्रेण महापापात्प्रमुच्यते । रामरामेति रामेति रामेति च पुनर्जपन्
स चांडालोऽपि पूतात्मा जायते नात्र संशयः । कुरुक्षेत्रं तथा काशी गया वै द्वारिका तथा
सर्वं तीर्थं कृतं तेन नामोच्चारणमात्रतः । कृष्णकृष्णेति कृष्णेति इति वायो जपन्पठन्
इहलोकं परित्यज्य मोदते विष्णुसंनिधौ । नृसिंहेति मुदा विप्र सततं प्रजपन्पठन्
महापापात्प्रमुच्येत कलौ भागवतो नरः । ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरेऽर्चयन्
यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् । एतज्ज्ञात्वा निमग्नाश्च जगदात्मनि केशवे
सर्वपापपरिक्षीणा यांति विष्णोः परं पदम् । मत्स्यः कूर्मो वराहश्च नृसिंहो वामनस्तथा
रामो रामश्च कृष्णश्च बुद्धः कल्की ततः स्मृतः । एते दशावताराश्च पृथिव्यां परिकीर्तिताः
एतेषां नाममात्रेण ब्रह्महा शुध्यते सदा । प्रातः पठन्जपन्ध्यायन्विष्णोर्नाम यथा तथा
मुच्यते नात्र संदेहः स वै नारायणो भवेत् । सूत उवाच- श्रुत्वा वै नारदो ह्येतद्विस्मयं परमं गतः
उवाच पितरं तत्र किमुक्तं देवसत्तम । देवाः सहस्रशः संति रुद्राः संति सहस्रशः
पितरः संति शतशः यक्षाश्च किन्नरास्तथा । भूताः प्रेताः पिशाचाश्च ये केचिद्देवयोनयः
तेषां नाम्ना च माहात्म्यं श्रुतं दृष्टं तथा न च । श्रीविष्णोर्नाममाहात्म्यं यादृशं च श्रुतं मया
यस्य वै नाममात्रेण मुच्यते नात्र संशयः । किं वै तीर्थकृते देव पृथिव्यामटने कृते