यथाप्राप्तं नदीपूरं स्त्रीभिस्तीरजलस्य तु । अथवा तज्जलं कुंभे कृष्णे कृत्वा गृहं नयेत्
प्रातःस्नायी तथा नद्यां गत्वा अभ्यर्चयेत्सुधीः । त्रिरात्रस्योपवासस्य यथाशक्तो भवेद्दिवज
अशक्तश्चैकभक्तेन कुर्याच्चैवाप्युपोषणम् । दीपं दद्यादविछिन्नं प्रातःसायं च पूजनम्
महानदीं समुच्चार्य नाम्ना च वरुणं तथा । जलमूले तु संस्थाप्य केशवं जलशायिनम्
नमो देव्यै च गंगेति गौतमीति नदीति च । सिंधो चैव च कावेरि सरस्वति नमोऽस्तु ते
तापी पयोष्णी पूर्णेति महेंद्रसुखदेति च । काश्यपी गंडकी चैव सिंधुनद्यै नमोनमः
वरुणाय नमस्तेऽस्तु जलवासहरिप्रिय । यादोनाथ रसेशान कल्याणं देहि मे सदा
गृहाणार्घं मया दत्तं देहि मे वांछितं फलम् । कूष्मांडैर्नालिकेरैश्च फलैः कालोद्भवैः शुभैः
नैवेद्यं घृतपक्वं तु सरितः संप्रकल्पयेत् । नमस्ते केशवानंत जलशायिन्नमोऽस्तु ते
परिपालय मामीश गोविंदवरदो भव । एवं पूजा प्रकर्तव्या यथाकालं क्रमेण तु
प्रार्थना चोपचारैस्तु त्रिरात्रनियमः शुचिः । पारणेन तु संपूज्य जलपात्रं समाचरेत्
फलपुष्पैस्तथा विद्वन्स्त्रीभिर्बालैर्नरैरपि । गीतवादित्रसहितैर्नदी कुंभ परिप्लुतैः
जलेजले समास्थाप्य फलपुष्पैः प्रपूजयेत् । धान्यैर्नानाविधैश्चैव जलप्रक्षेपणैरपि
हास्यैर्गीतैश्च नृत्यैश्च गृहमागत्य यत्नतः । सप्तधान्यैः पूरितानि वंशपात्राणि पूजयेत्
सप्त वा पंच वा त्रीणि यथाशक्त्या प्रपूरयेत् । त्रिरात्रं च नदीतोयं न पिबेद्धितमुल्लसन्
पारणे तु हविष्यान्नं हृतं वा ह्यन्यथा भवेत् । कृते स्नानार्चने चैव नोपयोज्यं नदीजलम्
शुच्यन्नानि च भोज्यानि दापयत्त्रितयं तथा । सप्तैव वंशपात्राणि सप्त वै मणिकास्तथा
हविष्यान्नं च भुंजीत कट्वम्लमधुवर्जितम् । माषान्नं च शिलापिष्टं यत्नेन परिवर्जयेत्
एवं वर्षत्रयं कुर्याद्व्रतमेतद्दिवजोत्तम । वर्षत्रये समाप्यैवं तस्योद्यापनमाचरेत्
कृष्णां गां कृष्णवस्त्रां च तिलान्दद्याच्च नारद । दंपती परिदाप्यैवं सुवर्णं चापि शक्तितः
हैमं च वरुणं कुर्यान्नदीरूपेण नारद । मंडलं वारुणं चैव सर्वतोभद्रमेव च
कुंभं तत्र प्रतिष्ठाप्य सोपहारं प्रतिष्ठितम् । संपूज्य विधिवद्भक्त्या ततो विप्राय दापयेत्
ब्राह्मणान्भोजयेच्छक्त्या यथावित्तानुसारतः । गुरवेर्चितशीलाय सर्वशास्त्ररताय च
एवं कृते तदा विद्वन्परिपूर्णं व्रतं भवेत् । सौभाग्यसुखसंपत्तिः संततिश्चाक्षया भवेत्
न दुर्गतिमवाप्नोति चिरं स्वर्गे महीयते । देवपत्नीभिराचीर्णमृषिपत्नीभिरेव च
नागसिद्धांगनाभिश्च व्रतमेतत्पुरा कृतम् । नदीत्रिरात्रमतुलं किमन्यच्छ्रोतुमिच्छसि । सौभाग्यं संततिं चैव निश्चयं प्राप्नुते सदा
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे नदीत्रिरात्रव्रतं नाम सप्ततितमोऽध्यायः
ऋषय ऊचुः - सूत जीव चिरं साधो त्वयातिकरुणात्मना । संवादो ह्यद्भुतः प्रोक्तो यश्चासीन्नारदेशयोः
भगवन्नाममहिमा नारदेन महात्मना । कीदृक्श्रुतः समाख्याहि श्रद्धया शृण्वतां गुरो
सूत उवाच- शृणुध्वं मुनयः सर्वे पुरावृत्तं वदाम्यहम् । यस्मिञ्छ्रुते द्विजश्रेष्ठाः कृष्णे भक्तिर्विवर्द्धते