तत्र गत्वा गयायां स श्राद्धं कृत्वा महामतिः । प्रेतानां तु यथोद्दिष्टं श्राद्धं सम्यग्विधानतः
प्रत्येकं नामगोत्राणि गृहीत्वा पिंडमुत्सृजत् । यस्य यस्य भवेच्छ्राद्धं स करोति दिने वणिक्
स स तस्य तदा स्वप्ने दर्शयत्यात्मनस्तनुम् । ब्रवीति च महाभाग प्रसादाद्भवतोऽनघ
प्रेतभावं मया त्यक्तं प्राप्तोऽस्मि परमां गतिम् । एवं कृत्वा विधानेन गयाशीर्षं महामनाः
पश्चाज्जगाम स्वगृहं विष्णुं ध्यायन्पुनः पुनः । मासि भाद्रपदे प्राप्ते शुक्लपक्षे तथा सुधीः
श्रवणद्वादशीयोगे संगमे सरितां पुनः । जगाम स महाबुद्धिः सर्वोपस्करसंयुतः
संगमे सरितां स्नात्वा द्वादशीं तामुपोषितः । तत्र स्नात्वापि दत्त्वा तु पूजयित्वा जनार्दनम्
अनंतरं ब्राह्मणस्य ह्युपहारांस्तदा ददौ । शास्त्रोक्तेनापि विधिना ह्येकचित्तरतोऽपि सः
निवर्त्तयामास तदा वणिजो बुद्धिमान्स वै । वर्षेवर्षे तु संप्राप्ते मासि भाद्रपदे तथा
श्रवणद्वादशीयोगे संगमे सरितां पुनः । एवं वै कृतवान्सर्वं विष्णुमुद्दिश्य सत्वरम्
कालेन चातिमहता पंचत्वं समुपागतः । अवाप परमं स्थानं दुर्लभं सर्वमानवैः
क्रीडतेऽद्यापि वैकुंठे विष्णुदूतैः स सेवितः । एवं कुरु त्वं भो ब्रह्मन्श्रवणद्वादशीव्रतम्
सर्वसौभाग्यदं चैव इह लोके परत्र च । सुबुद्धिजननं चैव सर्वपापहरं परम्
श्रवणद्वादशीयोगे यः कुर्याद्व्रतमीदृशम् । व्रतस्यास्य प्रभावेन विष्णुलोकं च गच्छति
नारद उवाच- देवदेव जगन्नाथ भुक्तिमुक्तिप्रदायक । कथयस्व सुरश्रेष्ठ येन दुःखं न पश्यति
महेश उवाच- शृणु वाडव वक्ष्यामि त्रिरात्रं सरितः शुभम् । येन चीर्णेन नरको मानवानां न जायते
आयुरारोग्यमतुलं सौभाग्यं सुखसंपदम् । संतानं चाक्षयं प्राप्य स्वर्गलोके महीयते
आषाढमासि संप्राप्ते नदीपूरेण संयुता । सततं तोयसंस्थाने पुराणे सा च विश्रुता
वर्षर्तौ घनसंपूर्णे कर्तव्या सा व्रतेन वा । तोयोघैः परिपूर्णा सा सकलैः स्यान्नदी यदा
व्रतं त्रिरात्रमुद्दिश्य तदा कार्यं प्रयत्नतः । कृतं प्रतिपदा छंदः दर्शनं तु दिनत्रयम्
यथाप्राप्तं नदीपूरं स्त्रीभिस्तीरजलस्य तु । अथवा तज्जलं कुंभे कृष्णे कृत्वा गृहं नयेत्
प्रातःस्नायी तथा नद्यां गत्वा अभ्यर्चयेत्सुधीः । त्रिरात्रस्योपवासस्य यथाशक्तो भवेद्दिवज
अशक्तश्चैकभक्तेन कुर्याच्चैवाप्युपोषणम् । दीपं दद्यादविछिन्नं प्रातःसायं च पूजनम्
महानदीं समुच्चार्य नाम्ना च वरुणं तथा । जलमूले तु संस्थाप्य केशवं जलशायिनम्
नमो देव्यै च गंगेति गौतमीति नदीति च । सिंधो चैव च कावेरि सरस्वति नमोऽस्तु ते
तापी पयोष्णी पूर्णेति महेंद्रसुखदेति च । काश्यपी गंडकी चैव सिंधुनद्यै नमोनमः
वरुणाय नमस्तेऽस्तु जलवासहरिप्रिय । यादोनाथ रसेशान कल्याणं देहि मे सदा
गृहाणार्घं मया दत्तं देहि मे वांछितं फलम् । कूष्मांडैर्नालिकेरैश्च फलैः कालोद्भवैः शुभैः
नैवेद्यं घृतपक्वं तु सरितः संप्रकल्पयेत् । नमस्ते केशवानंत जलशायिन्नमोऽस्तु ते
परिपालय मामीश गोविंदवरदो भव । एवं पूजा प्रकर्तव्या यथाकालं क्रमेण तु