दध्योदनसमायुक्तां वर्द्धमानेन संयुताम् । अवतीर्य ततः स्वन्नं प्रादादतिथये तदा
स तत्राशनमात्रेण परं तृप्तित्वमागतः । वितृष्णो विज्वरश्चैव क्षणेन समपद्यत
ततश्च प्रेताः संप्राप्ताः सोऽस्माद्भागं क्रमाद्ददौ । दध्योदनात्सपानीयात्प्रेतास्तृप्तिं परां गताः
अतिथिं तर्पयित्वा तु प्रेतलोकं च सर्वतः । ततः स्वयं स बुभुजे भुक्तशेषं यथासुखम्
तस्य भुक्तवतः स्वन्नं पानीयं च क्षयं ययौ । प्रेताधिपं ततस्तं वै वणिग्वचनमब्रवीत्
आश्चर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मे । अन्नं पानं च परमं संप्राप्तं च कुतस्तव
स्वल्पेनैव तथान्नेन त्वमेतांस्तु बहूनपि । अतर्पयः कथं त्वेते निर्मांसा भिन्नकुक्षयः
कथमस्यां सुघोरायामटव्यां च कृतालयाः । तदेतत्संशयं छिंधि परं कौतूहलं मम
एवमुक्तः स वणिजा प्रेतो वचनमब्रवीत् । वाणिज्यसक्तस्य पुरा जन्मातीते ममानघ
सकले नगरे नास्ति ममान्यो हि दुरात्मकः । धनलोभान्न कस्यापि दत्ता भिक्षा मया तदा
सखा चैव ततश्चासीद्ब्राह्मणो गुणवान्मम । श्रावणद्वादशीयोगे मासि भाद्रपदे ततः
स कदाचिन्मया सार्द्धं तापीं नाम नदीं ययौ । तस्याश्च संगमः पुण्यो यत्रासीच्चंद्रभागया
चंद्रभागा चंद्रसुता तापी चैवार्कनंदिनी । तयोः शीतोष्णसलिले प्रविवेश स ह द्विजः
श्रवणद्वादशीयोगे नराश्च समुपोषिताः । चंद्रभागा सुतो येन वारिधानीं ददुर्द्विजे
दध्योदनयुतां सार्द्धं संपूर्णैर्वर्द्धमानकैः । छत्रोपानद्युगं वस्त्रं प्रतिमां च तथा हरेः
प्रददौ विप्रमुख्येभ्यो हरस्याग्रे महामते । वित्तसंरक्षणार्थाय तस्यास्तीरे व्रते मया
सोपवासेन दत्तैका वारिधानी मनोरमा । तत्कृत्वाहं गृहं प्राप्तः ततः कालेन केनचित्
पंचत्त्वमहमासाद्य नास्तिक्यात्प्रेततां गतः । अस्यामटव्यां घोरायां यथा ह्यहिकुलं तथा
श्रवणद्वादशीयोगे वारिधान्यर्पिता मया । सेयं मध्याह्नसमये लभ्यते च दिनेदिने 6.69.
ब्रह्मस्वरूपिणः सर्वे पापाः प्रेतत्वमागताः । परदारगताः केचित्स्वामिद्रोहरताश्च ये
भूतप्रेतजरूपेण ते जाता ह्यत्र मानवाः । देशे मरुस्थले त्वस्मिन्ममैते मित्रतां गताः
अक्षयो भगवान्विष्णुः परमात्मा सनातनः । दीयते यत्समुद्दिश्य ह्यक्षयं तत्प्रकीर्तनम्
अक्षयेनापि चान्नेन तृप्ता एते पुनः पुनः । प्रेतत्वभावं दौर्बल्यं न विमुंचति कर्हिचित्
पूजयित्वाहमन्नैस्त्वामतिथिं समुपस्थितम् । प्रेतभावाद्विनिर्मुक्तो यास्यामि परमां गतिम्
मया विहीनाः किंत्वेते वनेऽस्मिन्भृशदारुणे । पीडामनुभविष्यंति दारुणां कर्मयोनिजाम्
एतेषां तु महाभाग ममानुग्रहकाम्यया । प्रत्येकं नामगोत्राणि गृह्णीष्व लिखितानि च
अस्ति कक्षागता चैव तव संपुटिका शुभा । हिमवंतमथासाद्य तत्र त्वं लप्स्यसे निधिम्
गयाशीर्षं ततो गत्वा श्राद्धं कुरु महामते । इत्याज्ञाप्य स वै प्रेतो वणिजं च यथासुखम्
विसर्जयामास तदा स वै प्रायात्समुत्सुकः । समासाद्य गृहं तत्र पश्चात्प्रायाद्धिमालयम्
ततो दृष्टं निधिं तत्र गृहीत्वा स समागतः । षष्ठांशं प्रतिगृह्याथ गयाशीर्षं ततोऽभ्यगात्