शिव उवाच- मासि भाद्रपदे शुक्ले द्वादशी श्रवणान्विता । सा वै सर्वप्रदा पुण्या ह्युपवासे महाफला
संगमे सरितः स्नात्वा द्वादशीं तामुपोषितः । अयत्नात्समवाप्नोति द्वादश द्वादशीफलम्
बुधश्रवणसंयुक्ता या च वै द्वादशी भवेत् । अतीव महती तस्यां कृतं सर्वमथाक्षयम्
द्वादशी श्रवणोपेता यदा भवति नारद । संगमे सरितां स्नात्वा लभेद्गोदानजं फलम्
जलपूर्णं तदा कुंभं स्थापयित्वा विचक्षणः । तस्योपरि न्यसेत्पात्रं स्थापयित्वा जनार्दनम्
ततस्तस्याग्रतो देयं नैवेद्यं घृतपाचितम् । सोदकांश्च नवान्कुंभान्दद्याच्छक्त्या विचक्षणः
एवं संपूज्य गोविंदं जागरं तत्र कारयेत् । प्रभाते विमले स्नात्वा संपूज्य गरुडध्वजम्
पुष्पधूपादि नैवेद्यैः फलैर्वस्त्रैः सुशोभनैः । पुष्पांजलिं ततो दद्यान्मंत्रमेनमुदीरयेत्
नमो नमस्ते गोविंद बुधश्रवणसंयुत । अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव
अन्नं तु ब्राह्मणे पूतं वेदवेदांगपारगे । पुराणज्ञे विशेषेण विधिवत्संप्रदापयेत्
अनेन विधिना चैव नद्यास्तीरे नरोत्तमः । सर्वं निर्वर्त्तयेत्सम्यगेकचित्तरतोऽपि सन्
अत्राप्युदाहरंतीममितिहासं पुरातनम् । महत्यरण्ये यद्वृतं भूमिदेव शृणुष्व तत्
यं श्रुत्वा मानवो लोके महादुःखात्प्रमुच्यते । देशो दासरको नाम तस्य भागे च पश्चिमे
तत्र विद्वन्मरुर्देशः सर्वसत्वभयंकरः । सुतप्तसिकता भूमिर्यत्र दुष्टा महोरगाः
अल्पच्छायाद्रुमाकीर्णा मृतप्राणिसमाकुला । शमीखदिरपालाशकरीरैः पीलुभिः सह
तत्र भीमा द्रुमगणाः कंटकैरचिता दृढैः । जग्धप्राणजनाकीर्णा यत्र भूर्दृश्यते क्वचित्
तथापि जीवा जीवंति सर्वे कर्मनिबंधनात् । नोदकं नोदकाधारा विद्वंस्तत्र बलाहकाः
पक्षांतरगतैः कैश्चिच्छिशुभिस्तृषितैः समम् । उत्क्रांतजीविनो विप्र दृश्यंते नु खगोत्तमाः
तस्मिंस्तथाविधे देशे कश्चिद्दैववशाद्वणिक् । निजसार्थपरिभ्रष्टः प्रविष्टो मरुजांगले
बभ्रामोद्भ्रांतहृदयः क्षुत्तृट्भ्यां श्रमपीडितः । क्व ग्रामः क्व जलं क्वाहं यास्यामि न बुबोध ह
अथ प्रेतान्ददर्शासौ क्षुत्तृषाव्याकुलेंद्रियान् । उत्कटान्खलिनो भीमान्निर्मांसान्रौद्रदर्शनान्
प्रेतस्कंधसमारूढमेकं विकृतदर्शनम् । ददर्श बहुभिः प्रेतैः समंतात्परिवारितम्
अगच्छमानमत्युग्रं प्रेतशब्दपुरःसरम् । प्रेतोऽपि दृष्ट्वा तां घोरामटवीमागतं नरम्
प्रेतस्कंधान्महीं गत्वा तस्यांतिकमुपागमत् । प्रणिपत्य वणिक्श्रेष्ठमिदं वचनमब्रवीत्
अस्मिन्घोरतरे देशे प्रवेशो भवतः कथम् । तमुवाच वणिक्धीमान्सार्थभ्रष्टस्य मे वने
प्रवेशो दैवयोगेन पूर्वकर्मकृतेन च । तृषा मे बाधतेऽत्यर्थं क्षुधा चैव भृशं तथा
प्राणांतिकमनुप्राप्तं वचनं भ्रमतीव मे । अत्रोपायं न पश्यामि जीवेयं येन केनचित्
इत्येवमुक्ते प्रेतस्तं वणिजं वाक्यमब्रवीत् । फुल्लां शमीं समाश्रित्य प्रतीक्ष त्वं मुहूर्त्तकम्
कृतातिथ्यो मया पश्चाद्गमिष्यसि यथासुखम् । एवमुक्तस्तथा चक्रे स वणिक्तृष्णयार्दितः
मध्याह्नसमये प्राप्ते प्रेतस्तं देशमागतः । फुल्लां सवृक्षां शीतोदां वारिधानीं मनोरमाम्