गोपिकाचंदनं यावन्न दृष्टं न श्रुतं द्विज । इदं ध्येयमिदं पूज्यं मलदोषविनाशनम्
यस्य संस्पर्शनादेव पूतो भवति मानवः । अंतकाले तु मर्त्यानां मुक्तिदं पावनं परम्
किं वदामि द्विजश्रेष्ठ मुक्तिदं गोपिचंदनम् । विष्णोस्तु तुलसीकाष्ठं तथा वै मूलमृत्तिका
गोपिकाचंदनं चैव तथा वै हरिचंदनम् । चत्वारि ह्येतानि संमील्य अंगमुद्वर्तयेत्सुधीः
तेन तीर्थं कृतं सर्वं जंबूद्वीपेषु सर्वदा । तिलकं कुरुते यस्तु गोपिकाचंदनद्रवैः
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् । पितुः श्राद्धादिकं तेन गयां गत्वा तु वै कृतम्
येन वा पुरुषेणापि विधृतं गोपिचंदनम् । मद्यपो ब्रह्महा चैव गोघ्नो वा बालहा तथा । मुच्यते तत्क्षणादेव गोपीचंदनधारणात्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुमापतिनारदसंवादे गोपीचंदनमाहात्म्ये सप्तषष्टितमोऽध्यायः
महेश्वर उवाच- शृणु नारद! वक्ष्यामि वैष्णवानां च लक्षणम्। यच्छ्रुत्वा मुच्यते लोको ब्रहत्यादिपातकात्
तेषां वै लक्षणं यादृक्स्वरूपं यादृशं भवेत्। तादृशं मुनिशार्दूल शृणु त्वं वच्मि साम्प्रतम्
विष्णोरयं यतो ह्यासीत्तस्माद्वैष्णव उच्यते। सर्वेषां चैव वर्णानां वैष्णवः श्रेष्ठ उच्यते
येषां पुण्यतमाहारस्तेषां वंशे तु वैष्णवः। क्षमा दया तपः सत्यं येषां वै तिष्ठति द्विज
तेषां दर्शनमात्रेण पापं नश्यति तूलवत्। हिंसाधर्माद्विनिर्मुक्ता यस्य विष्णौ स्थितामति:
शंखचक्रगदापद्मं नित्यं वै धारयेत्तु यः। तुलसीकाष्ठजां मालां कंठे वै धारयेद्यतः
तिलकानि द्वादशधा नित्यं वै धारयेद्बुधः। धर्माधर्मं तु जानाति यः स वैष्णव उच्यते
वेदशास्त्ररतो नित्यं नित्यं वै यज्ञयाजकः। उत्सवांश्च चतुर्विंशत्कुर्वंति च पुनः पुनः
तेषां कुलं धन्यतमं तेषां वै यश उच्यते। ते वै लोके धन्यतमा जाता भागवता नराः
एक एव कुले यस्य जातो भागवतो नरः। तत्कुलं तारितं तेन भूयोभूयश्च वाडव
अण्डजा उद्भिजाश्चैव ये जरायुज योनयः। ते तु सर्वेऽपि विज्ञेयाः शंखचक्रगदाधराः
येषां दर्शनमात्रेण ब्रह्महा शुद्ध्यते सदा। किन्तु वक्ष्यामि देवर्षे तेभ्यो धन्यतमा भुवि
वैष्णवा ये तु दृश्यन्ते भुवनेऽस्मिन्महामुने। ते वै विष्णुसमाश्चैव ज्ञातव्यास्तत्वकोविदैः
कलौ धन्यतमा लोके श्रुता मे नात्र संशयः। विष्णोः पूजा कृता तेन सर्वेषां पूजनं कृतम्
महादानं कृतं तेन पूजिता येन वैष्णवाः। फलं पत्रं तथा शाकमन्नं वा वस्त्रमेव च
वैष्णवेभ्यः प्रयच्छन्ति ते धन्या भुवि सर्वदा। अर्चितो वैष्णवो यैस्तु सर्वेषां चैव पूजनम्
कृतं यैरर्चितो विष्णुस्ते वै धन्यतमा मताः। तेषां दर्शनमात्रेण शुद्ध्यते पातकान्नरः
किमन्यद्बहुनोक्तेन भूयोभूयश्च वाडव। अतो वै दर्शनं तेषां स्पर्शने सुखदायकम्
यथा विष्णुस्तथा चायं नान्तरं वर्तते क्वचित्। इति ज्ञात्वा तु भो वत्स सर्वदा पूजयेद्बुधः
एक एव तु यैर्विप्रो वैष्णवो भुवि भोज्यते। सहस्रं भोजितं तेन द्विजानां नात्र संशयः
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे वैष्णवमाहात्म्यंनाम अष्टषष्टितमोऽध्यायः
नारद उवाच- उपवासासमर्थानां सदैवामरसत्तम । एका या द्वादशी पुण्या तां वदस्व ममानघ