चंदनेन सुगंधेन गोपिकाचंदनेन तु । धारणं च विशेषेण ब्राह्मणैर्वेदपारगैः
चांडालोऽपि भवेच्छुद्धो धारणाच्च न संशयः । ऊर्ध्वं पुंड्रमृजुं सौम्यं सचिह्नं धारयेद्यदि
स चांडालोऽपि शुद्धात्मा पूज्य एव सदा द्विजैः । चांडालानां गृहे दूतास्तुलसी यत्र दृश्यते
तत्रत्या तुलसी ग्राह्या भक्तिभावेन चेतसा
महेश्वर उवाच- इति श्रुतं धर्ममुखान्मुद्गलो द्विजसत्तमः । कथयित्वा ममाग्रे वै गतो यादृच्छिको मुने
गोपिकाचंदनं यत्र तिष्ठते वै द्विजोत्तम । तद्गृहं तीर्थरूपं च विष्णुना भाषितं किल
शोकमोहौ न तत्रास्तां न भवत्यशुभं क्वचित् । गोपिकाचंदनं यस्य तिष्ठति द्विजसद्मनि
सुखिनः पूर्वजास्तेषां संततिर्वर्द्धते सदा । गोपिकाचंदनं यस्य वर्त्ततेऽहर्निशं गृहे
गोपीपुष्करजा मृत्स्ना पवित्रा कायशोधिनी । उद्वर्त्तनाद्विनश्यंति व्याधयो ह्याधयश्च ये
अतो देहे धृतं पुंभिर्मुक्तिदं सर्वकामिकम् । तावद्गर्जंति तीर्थानि तावत्क्षेत्राणि सर्वदा
गोपिकाचंदनं यावन्न दृष्टं न श्रुतं द्विज । इदं ध्येयमिदं पूज्यं मलदोषविनाशनम्
यस्य संस्पर्शनादेव पूतो भवति मानवः । अंतकाले तु मर्त्यानां मुक्तिदं पावनं परम्
किं वदामि द्विजश्रेष्ठ मुक्तिदं गोपिचंदनम् । विष्णोस्तु तुलसीकाष्ठं तथा वै मूलमृत्तिका
गोपिकाचंदनं चैव तथा वै हरिचंदनम् । चत्वारि ह्येतानि संमील्य अंगमुद्वर्तयेत्सुधीः
तेन तीर्थं कृतं सर्वं जंबूद्वीपेषु सर्वदा । तिलकं कुरुते यस्तु गोपिकाचंदनद्रवैः
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् । पितुः श्राद्धादिकं तेन गयां गत्वा तु वै कृतम्
येन वा पुरुषेणापि विधृतं गोपिचंदनम् । मद्यपो ब्रह्महा चैव गोघ्नो वा बालहा तथा । मुच्यते तत्क्षणादेव गोपीचंदनधारणात्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुमापतिनारदसंवादे गोपीचंदनमाहात्म्ये सप्तषष्टितमोऽध्यायः
महेश्वर उवाच- शृणु नारद! वक्ष्यामि वैष्णवानां च लक्षणम्। यच्छ्रुत्वा मुच्यते लोको ब्रहत्यादिपातकात्
तेषां वै लक्षणं यादृक्स्वरूपं यादृशं भवेत्। तादृशं मुनिशार्दूल शृणु त्वं वच्मि साम्प्रतम्
विष्णोरयं यतो ह्यासीत्तस्माद्वैष्णव उच्यते। सर्वेषां चैव वर्णानां वैष्णवः श्रेष्ठ उच्यते
येषां पुण्यतमाहारस्तेषां वंशे तु वैष्णवः। क्षमा दया तपः सत्यं येषां वै तिष्ठति द्विज
तेषां दर्शनमात्रेण पापं नश्यति तूलवत्। हिंसाधर्माद्विनिर्मुक्ता यस्य विष्णौ स्थितामति:
शंखचक्रगदापद्मं नित्यं वै धारयेत्तु यः। तुलसीकाष्ठजां मालां कंठे वै धारयेद्यतः
तिलकानि द्वादशधा नित्यं वै धारयेद्बुधः। धर्माधर्मं तु जानाति यः स वैष्णव उच्यते
वेदशास्त्ररतो नित्यं नित्यं वै यज्ञयाजकः। उत्सवांश्च चतुर्विंशत्कुर्वंति च पुनः पुनः
तेषां कुलं धन्यतमं तेषां वै यश उच्यते। ते वै लोके धन्यतमा जाता भागवता नराः
एक एव कुले यस्य जातो भागवतो नरः। तत्कुलं तारितं तेन भूयोभूयश्च वाडव
अण्डजा उद्भिजाश्चैव ये जरायुज योनयः। ते तु सर्वेऽपि विज्ञेयाः शंखचक्रगदाधराः
येषां दर्शनमात्रेण ब्रह्महा शुद्ध्यते सदा। किन्तु वक्ष्यामि देवर्षे तेभ्यो धन्यतमा भुवि