पुरुषाय पुराणाय ब्रह्मवाक्यानुवर्तिने। मानवच्छद्मरूपाय विष्णवे शंसितात्मने
जातमात्रं च यं वेद उपतस्थे ससंग्रहः। मतिमंथानमाविध्य येनासौ श्रुतिसागरात्
प्रकाशो जनितो लोके महाभारत चंद्रमाः। भारतं भानुमान्विष्णुर्यदि न स्युरमी त्रयः
ततोऽज्ञानतमोंधस्य कावस्था जगतो भवेत्। कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्
को ह्यन्यः पुंडरीकाक्षान्महाभारतकृद्भवेत्। तस्मादहमुपाश्रौषं पुराणं ब्रह्मवादिनः
सर्वज्ञात्सर्वलोकेषु पूजिताद्दीप्ततेजसः। पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम्
उत्तमं सर्वलोकानां सर्वज्ञानोपपादकम्। त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम्
निःशेषेषु च लोकेषु वाजिरूपेण केशवः। ब्रह्मणस्तु समादेशाद्वेदानाहृतवानसौ
अंगानि चतुरो वेदान्पुराणन्यायविस्तरम्। असुरेणाखिलं शास्त्रमपहृत्यात्मसात्कृतम्
मत्स्यरूपेणाजहार कल्पादावुदकार्णवे। अशेषमेतदवददुदकांतर्गतो विभुः
श्रुत्वा जगाद च मुनीन्प्रतिवेदांश्चतुर्मुखः। प्रवृत्तिस्सर्वशास्त्राणां पुराणस्याभवत्तदा५० 1.1.
कालेनाग्रहणं दृष्ट्वा पुराणस्य तदा विभुः। व्यासरूपस्तदा ब्रह्मा संग्रहार्थं युगे युगे
चतुर्लक्षप्रमाणेन द्वापरे द्वापरे जगौ। तदाष्टादशधा कृत्वा भूलोकेस्मिन्प्रकाशितं
अद्यापि देवलोकेषु शतकोटिप्रविस्तरम्। तदेवात्र चतुर्लक्षं संक्षेपेण निवेशितम्
प्रवक्ष्यामि महापुण्यं पुराणं पाद्मसञ्ज्ञितम्। सहस्रं पञ्चपञ्चाशत्पंचखण्डैस्समन्वितम्
तत्रादौ सृष्टिखण्डं स्याद्भूमिखण्डं ततः परम्। स्वर्गखण्डं ततः पश्चात्ततः पातालखण्डकम्
पञ्चमं च ततः ख्यातमुत्तरं खण्डमुत्तमम्। एतदेव महापद्ममुद्भूतं यन्मयं जगत्
तद्वृत्तान्ताश्रयं यस्मात्पाद्ममित्युच्यते ततः। एतत्पुराणममलं विष्णुमाहात्म्यनिर्मलम्
देवदेवो हरिर्यद्वै ब्रह्मणे प्रोक्तवान्पुरा। ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये
एतदेव च वै ब्रह्मा पाद्मं लोके जगाद वै। सर्वभूताश्रयं तच्च पाद्ममित्युच्यते बुधैः
पाद्मं तत्पंचपंचाशत्सहस्राणीह पठ्यते। पंचभिः पर्वभिः प्रोक्तं संक्षेपाद्व्यासकारितात्
पौष्करं प्रथमं पर्व यत्रोत्पन्नः स्वयं विराट्। द्वितीयं तीर्थपर्व स्यात्सर्वग्रहगणाश्रयम्
तृतीयपर्वग्रहणा राजानो भूरिदक्षिणाः। वंशानुचरितं चैव चतुर्थे परिकीर्तितम्
पंचमे मोक्षतत्वं च सर्वतत्वं निगद्यते। पौष्करे नवधा सृष्टिः सर्वेषां ब्रह्मकारिता
देवतानां मुनीनां च पितृसर्गस्तथापरः। द्वितीये पर्वताश्चैव द्वीपाः सप्त ससागराः
तृतीये रुद्रसर्गस्तु दक्षशापस्तथैव च। चतुर्थे संभवो राज्ञां सर्ववंशानुकीर्त्तनम्
अन्त्येपवर्गसंस्थानं मोक्षशास्त्रानुकीर्त्तनम्। सर्वमेतत्पुराणेऽस्मित्कथयिष्यामि वो द्विजाः
इदं पवित्रं यशसो निधानमिदं पितॄणामतिवल्लभं स्यात् इदं च देवस्य सुखाय नित्यमिदं महापातकभिच्च पुंसाम्
सूत उवाच। नमस्ये सर्वलोकानां विश्वस्य जगतः पतिम्। य इमं कुरुते भावं सृष्टिरूपं प्रधानवित्
लोककृल्लोकतत्वज्ञो योगमास्थाय योगवित्। असृजत्सर्वभूतानि स्थावराणि चराणि च