व्रतवैकल्यमासाद्य कुष्ठी चांधः प्रजायते । एतस्मात्कारणाच्चैव कुर्यादुद्यापनं द्विज
गृहीत्वा नियमानेतान्पालयित्वा यथाविधि । सुप्तोत्थिते जगन्नाथे गत्वा ब्राह्मणसंनिधौ
क्षमापयेद्देवदेवं यथाविधि च विस्तरात् । तैलत्यागे घृतं दद्याद्घृतत्यागे पयः स्मृतम्
मौने पिंडास्तिला देयाः सहिरण्या द्विजातये । भोजने भोजनं दद्याद्दध्योदनसमन्वितम्
अन्नं दद्याद्विशेषेण हिरण्येन समन्वितम् । अन्नदानान्मुनिश्रेष्ठ विष्णुलोके महीयते
पालाशपात्रे यो भुंक्ते नरो मासचतुष्टयम् । भाजनं घृतपूर्णं तु दद्यादुद्यापने द्विज
षड्रसं भोजनं दद्याद्ब्राह्मणे नक्तभोजने । अयाचिते ह्यनड्वाहं सहिरण्यं प्रदापयेत्
माषं त्यजन्मुनिश्रेष्ठ गां च दद्यात्सवत्सकाम् । धात्रीस्नाने नरो दद्यात्स्वर्णं माषिकमेवच
फलानां नियमे चैव फलानि च प्रदापयेत् । धान्यानां नियमे धान्यमथवा शालयः स्मृताः
तद्वद्भूशयने शय्यां सतूलां गेंदुकान्विताम् । ब्रह्मचर्यं कृतं येन चातुर्मास्ये द्विजोत्तम
दंपत्योर्भोजनं देयमुभयोर्भक्तिपूर्वकम् । सभोगं दक्षिणोपेतं सशाकं लवणं तथा
नित्यस्नाने नरो दद्यान्निस्नेहे सर्पिः सक्तवः । नखकेशव्रते चैव प्रादेशं परिकल्पयेत्
उपानहौ प्रदातव्यौ उपानहविवर्जनात् । आमिषस्य परित्यागात्सवत्सा कपिला स्मृता
नित्यं दीपप्रदो यस्तु सौवर्णं दीपमावहेत् । तं दीपं घृतसंयुक्तं दद्याच्चैव द्विजन्मने
विष्णुभक्ताय विप्राय परिपूर्णव्रतेप्सया । शाकस्य नियमे शाकं माषे सौवर्णमाषकम्
मैथुनानां तु नियमे रौप्यं दद्याद्दिवजातये । नागवल्ल्यास्तु नियमे कर्पूरं सहरिण्यकम्
कालेकाले द्विजश्रेष्ठ यत्कृतं नियमेन तु । तत्तद्देयं विशेषेण परलोकगतीप्सया
आदौ स्नानादिकं कृत्वा विष्णोरग्रे प्रकाशयेत् । अनादिनिधनो देवः शंखचक्रगदाधरः । तस्याग्रे के न कुर्वंति यतो विष्णुस्तु पापहा
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे चातुर्मास्योद्यापनंनाम पंचषष्टितमोऽध्यायः
नारद उवाच- यमस्याराधनं ब्रूहि मद्धितार्थं सुरोत्तम । कथं न गम्यते देव नरेण नरकांतरे
श्रूयते यमलोके तु सदा वैतरणी नदी । अनाधृष्यात्वपारा च दुस्तरा बहुशोणिता
दुस्तरा सर्वभूतानां सा कथं सुतरा भवेत् । भयमेतन्महादेव यमलोकं प्रति प्रभो
तस्य निर्मोचनार्थाय ब्रूहि कृत्यमशेषतः । भगवन्देवदेवेश कृपां कृत्वा ममोपरि
महादेव उवाच- द्वारवत्यां पुरा विप्र स्नातोऽहं लवणांभसि । ददृशे मुनिमायांतं मुद्गलं नाम वाडव
ज्वलंतमिवचादित्यं तपसा द्योततांगकम् । मां प्रणम्य मुनिः प्राह मुद्गलो विस्मयान्वितः
मुद्गल उवाच- अकस्मान्मूर्च्छितो देव पतितोऽस्मि धरातले । प्रज्वलंति ममांगानि गृहीतो यमकिंकरैः
बलादाकृष्यमाणोऽहं पुरुषॐगुष्ठमात्रकः । बद्धो यमभटैर्गाढं नीतोऽस्मि शमनांतिकम्
क्षणात्सभायां पश्यामि यमं पिंगललोचनम् । कृष्णमुखं महारौद्रं मृत्युव्याधिशतान्वितम्
वातपित्त श्लेष्मदोषैर्मूर्तिमद्भिस्तु सेवितम् । कायशोषज्वरातंक स्फोटिका लूतकादिभिः
ज्वालांगमर्दशीर्षार्ति भगंदर बलक्षयैः । कंठमालाक्षिरोगैश्च मूत्रकृच्छ्रज्वरव्रणैः