पापं स केवलं भुंक्ते तस्मान्मौनं समाचरेत् । उपवाससमं भोज्यं ज्ञेयं मौनेन नारद
पंचप्राणाहुतीर्यस्तु मौनभोजी नरोत्तमः । पंच वै पातकान्यस्य नश्यंति नात्र संशयः
न कुर्यात्संधितं वस्त्रं पितृकर्मणि वाडव । अशुच्यंगे स्थितं चैव वस्त्रं तदशुची भवेत्
कटिपृष्ठस्थिते वस्त्रे पुरीषं कुरुते तु यः । मूत्रं वा मैथुनं वापि तद्वस्त्रं परिवर्जयेत्
पितृकर्मविशेषेण वर्जनीयं च वाडव । सर्वदा च मुने प्राज्ञैर्देवार्चा चक्रपाणिनः
कर्त्तव्या च विशेषेण शुचिभिर्विजितेंद्रियैः । संप्रसुप्ते हृषीकेशे तृणशाककुसुंभिकाः
संधितानि च वस्त्राणि वर्जितानि प्रयत्नतः । चातुर्मास्ये हरौ सुप्ते यस्तु एतानि वर्जयेत् 6.64.
नरकं न तु संगच्छेत्यावदाभूतसंप्लवम् । मद्यं मांसं न भक्षेत शाशकं सौकरं तथा
चातुर्मास्ये विशेषेण सुप्ते देवे जनार्दने । सोऽपि देवत्वमाप्नोति अहिंसानिरतो नरः
मिथ्याक्रोधं तथा रौक्ष्यं तथा पर्वसु मैथुनम् । वर्जितं येन विप्रेंद्र सोऽश्वमेधफलं लभेत्
ब्रह्मचर्ये प्रजावृद्धिरायुर्वृद्धिस्तथैव च । पुष्पं पत्रं फलं शय्या अभ्यंगं च विलेपनम्
वृथादुग्धानि मांसं च मद्यं च परिवर्जयेत् । चातुर्मास्ये हरौ सुप्ते नियतं यद्विवर्जितम्
प्रथमं तत्तु दातव्यं ब्राह्मणाय न संशयः । तद्धनं चाक्षयं विद्वन्प्रदत्तं यद्दिवजातये
कोटिकोटिगुणं विप्र लभते नात्र संशयः । येनकेनापि विप्रेंद्र नियमेनार्चितो हरिः
ददाति विष्णुभवनं नात्र कार्या विचारणा । चातुर्मास्ये हरौ सुप्ते नियमं यो न कारयेत्
सोऽपि नरकमाप्नोति तस्य जन्म वृथागतम् । यत्पुमान्कारयेन्नित्यं द्विजोक्तं विधिमुत्तमम्
तथोक्तान्नियमांश्चैव स याति परमं पदम् । त्रिवर्गरहितं दानं दत्तं भवति निष्फलम्
तस्मात्सर्वप्रयत्नेन देवदेवं जनार्दनम् । तोषयेन्नियमैर्दानैर्यथाशक्त्या नरोत्तमः
अकृतस्नानदानं च ब्राह्मणानां च पूजनम् । वृथागतं तु तत्सर्वं यावदिंद्राश्चतुर्दश
नारद उवाच- कीदृशं ब्रह्मचर्यं च वद विश्वेश्वर प्रभो । येन चीर्णेन गोविंदः परितुष्टो भवेन्नृणाम्
महादेव उवाच- स्वदारनिरतश्चैव ब्रह्मचारी स्मृतो बुधैः । चांडालादधिको विद्वन्यः स्वभार्यां परित्यजेत्
ऋतावभिगमं कृत्वा ब्रह्मचर्यं विधीयते । परित्यजति यो भार्यां भक्तां दोषविवर्जिताम्
पापकर्मा नरो लोके भ्रूणहत्यामवाप्नुयात् । अश्वमेधसहस्राणि वाजपेयशतानि च
एकादश्युपवासस्य कलां नार्हंति षोडशीम् । स्नानं दानं जपो होमः स्वाध्यायं देवतार्चनम्
चातुर्मास्यकृतं यच्च सर्वं हि चाक्षयं भवेत् । एककालं द्विकालं वा पुराणं शृणुते तु यः
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति । हरौ सुप्ते विशेषेण हरेर्नामपठन्जपन्
तत्फलं कोटिगुणितं लभते द्विजसत्तम । वैष्णवो ब्राह्मणो यस्तु पूजनं यः करोति हि
स एव सर्वधर्मात्मा पूज्य एव न संशयः । चातुर्मास्यमिदं पुण्यं पवित्रं पापनाशनम् । श्रुत्वा तु लभते पुण्यं गंगास्नानफलं लभेत्
नारद उवाच- चातुर्मास्यव्रतानां च प्रब्रूह्युद्यापनं विभो । उद्यापने कृते सर्वं संपूर्णं भवति ध्रुवम्
महादेव उवाच- व्रतं कृत्वा महाभाग यदि नोद्यापनं चरेत् । यस्तु कर्त्ता कर्मणां स न सम्यक्फलभाक्भवेत्