वैन्यस्य हि पृथोर्यज्ञे वर्त्तमाने महात्मनः। मागधश्चैव सूतश्च तमस्तौतां नरेश्वरम्
तुष्टेनाथ तयोर्द्दत्तो वरो राज्ञा महात्मना। सूताय सूतविषयो मगधो मागधाय च
तत्र सूत्यां समुत्पन्नः सूतो नामेह जायते। ऐन्द्रे सत्रे प्रवृत्ते तु ग्रहयुक्ते बृहस्पतौ
तमेवेंद्रं बार्हस्पत्ये तत्र सूतो व्यजायत। शिष्यहस्तेन यत्पृक्तमभिभूतं गुरोर्हविः
अधरोत्तरधारेण जज्ञे तद्वर्णसंकरम्। येत्र क्षत्रात्समभवन्ब्राह्मण्याश्चैव योनितः
पूर्वेणैव तु साधर्म्याद्वैधर्मास्ते प्रकीर्तिताः। मध्यमो ह्येष सूतस्य धर्मः क्षेत्रोपजीविनः
पुराणेष्वधिकारो मे विहितो ब्राह्मणैरिह। दृष्ट्वा धर्ममहं पृष्टो भवद्भिर्ब्रह्मवादिभिः
तस्मात्सम्यग्भुवि ब्रूयां पुराणमृषिपूजितम्। पितॄणां मानसी कन्या वासवं समपद्यत
अपध्याता च पितृभिर्मत्स्यगर्भे बभूव सा। अरणीव हुताशस्य निमित्तं पुण्यजन्मनः
तस्यां बभूव पूतात्मा महर्षिस्तु पराशरात्। तस्मै भगवते कृत्वा नमः सत्याय वेधसे
पुरुषाय पुराणाय ब्रह्मवाक्यानुवर्तिने। मानवच्छद्मरूपाय विष्णवे शंसितात्मने
जातमात्रं च यं वेद उपतस्थे ससंग्रहः। मतिमंथानमाविध्य येनासौ श्रुतिसागरात्
प्रकाशो जनितो लोके महाभारत चंद्रमाः। भारतं भानुमान्विष्णुर्यदि न स्युरमी त्रयः
ततोऽज्ञानतमोंधस्य कावस्था जगतो भवेत्। कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्
को ह्यन्यः पुंडरीकाक्षान्महाभारतकृद्भवेत्। तस्मादहमुपाश्रौषं पुराणं ब्रह्मवादिनः
सर्वज्ञात्सर्वलोकेषु पूजिताद्दीप्ततेजसः। पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम्
उत्तमं सर्वलोकानां सर्वज्ञानोपपादकम्। त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम्
निःशेषेषु च लोकेषु वाजिरूपेण केशवः। ब्रह्मणस्तु समादेशाद्वेदानाहृतवानसौ
अंगानि चतुरो वेदान्पुराणन्यायविस्तरम्। असुरेणाखिलं शास्त्रमपहृत्यात्मसात्कृतम्
मत्स्यरूपेणाजहार कल्पादावुदकार्णवे। अशेषमेतदवददुदकांतर्गतो विभुः
श्रुत्वा जगाद च मुनीन्प्रतिवेदांश्चतुर्मुखः। प्रवृत्तिस्सर्वशास्त्राणां पुराणस्याभवत्तदा५० 1.1.
कालेनाग्रहणं दृष्ट्वा पुराणस्य तदा विभुः। व्यासरूपस्तदा ब्रह्मा संग्रहार्थं युगे युगे
चतुर्लक्षप्रमाणेन द्वापरे द्वापरे जगौ। तदाष्टादशधा कृत्वा भूलोकेस्मिन्प्रकाशितं
अद्यापि देवलोकेषु शतकोटिप्रविस्तरम्। तदेवात्र चतुर्लक्षं संक्षेपेण निवेशितम्
प्रवक्ष्यामि महापुण्यं पुराणं पाद्मसञ्ज्ञितम्। सहस्रं पञ्चपञ्चाशत्पंचखण्डैस्समन्वितम्
तत्रादौ सृष्टिखण्डं स्याद्भूमिखण्डं ततः परम्। स्वर्गखण्डं ततः पश्चात्ततः पातालखण्डकम्
पञ्चमं च ततः ख्यातमुत्तरं खण्डमुत्तमम्। एतदेव महापद्ममुद्भूतं यन्मयं जगत्
तद्वृत्तान्ताश्रयं यस्मात्पाद्ममित्युच्यते ततः। एतत्पुराणममलं विष्णुमाहात्म्यनिर्मलम्
देवदेवो हरिर्यद्वै ब्रह्मणे प्रोक्तवान्पुरा। ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये
एतदेव च वै ब्रह्मा पाद्मं लोके जगाद वै। सर्वभूताश्रयं तच्च पाद्ममित्युच्यते बुधैः