दानं दया दम इति सर्वत्र हि श्रुतं मया । तस्मात्सर्वप्रयत्नेन कार्यं वै महतामपि
गुरवे ये प्रयच्छंति शरीरं पुत्रपौत्रकम् । तत्र दानप्रभावेन विष्णोर्वल्लभतामियात्
शूद्रेण दीक्षितो यस्तु शूद्रः शूद्रेण दीक्षितः । उभौ तौ पापिनौ प्रोक्तौ यावदाभूतसंप्लवम्
हिंसामतिं यदादत्ते शूद्रो वै पापसत्तमः । एकविंशतिकुलं तेन नरकं प्रतिपात्यते
कलौ पाखंडिनः शूद्रा दृश्यंते बहवो भुवि । तेषां संभाषणादेव नरको भवति द्विज
ब्रह्मज्ञानरता ये च गायत्रीजापिनो द्विज । तेषां दर्शनमात्रेण ब्रह्महत्या दिने दिने
शंखचक्रधरा विप्रा विष्णुधर्मेषु संमताः । वेदधर्मरता नित्यं पंक्तिपावनपावनाः
चातुर्मास्यमिदं कर्म कर्त्तव्यं तैः सदा नरैः । किमन्यद्बहुनोक्तेन भूयोभूयश्च वाडव
ते धन्याः पृथिवी मध्ये नरा ये वैष्णवा भुवि । तेषां कुलं धन्यतमं जातिर्धन्यतमा स्मृता
मधु भक्षयते यस्तु सुप्ते देवे जनार्दने । महत्पापं भवेत्तस्य वर्जने यच्छृणुष्व तत्
सर्वयज्ञैश्च विविधैर्यत्फलं तदवाप्नुयात् । दाडिमं मातुलिगं च नालिकेरं च वर्जयेत्
देवो वैमानिको भूत्वा ह्यंते विष्णुपदं व्रजेत् । वित्तवान्सुभगश्चैव कुले श्रीमति जायते
यः क्षिपेदेकभक्तेन नरो मासचतुष्टयम् । यावंति च मुहूर्तानि उदितोदितभास्करे
ताद्वर्षसहस्राणि विष्णुलोके महीयते । व्रीहींश्च यवगोधूमान्वर्जयेद्यस्तु मानवः
अश्वमेधादिके कृते विधिवद्वै सदक्षिणे । यत्फलं मुनिभिः प्रोक्तं तत्फलं लभते नरः
धनधान्यसमायुक्तो बहुपुत्रश्च जायते । तुलसीतिलदर्भैश्च ये कुर्वंति च तर्पणम्
तत्फलं कोटिगुणितं चातुर्मास्ये विशेषतः । यदा सुप्ते हृषीकेशे कुर्याच्चैतत्त्रयान्वितम्
तेऽपि युगसहस्राणि मोदंते विष्णुसंनिधौ । पदं वा पदमर्द्धं वा ऋचां चार्द्धऋचां तथा
विष्ण्वग्रे ये प्रगायंति मुक्तास्ते वै न संशयः । मैथुनं वर्जयेद्यस्तु सुप्ते देवे जनार्दने
एकमन्वंतरं सोऽपि विष्णुलोके महीयते । दधिदुग्धं तथा तक्रं गुडं शाकं तथैव च
वर्जनादेव भो विप्र मुक्तिभागी न संशयः । स्नानमामलकेनैव ये कुर्वंति च मानवाः
दिनेदिने महत्पुण्यं प्राप्नुवंति च ते मुने । धात्रीफलं पापहरं प्रवदंति मनीषिणः
त्रैलोक्यतारणार्थाय निर्मिता ब्राह्मणा पुरा । संध्यामौनं चरेद्यस्तु भुंक्ते मासचतुष्टयम्
मन्वंतराणि चत्वारि वैकुंठे मोदते पुनः । स्वयंपाकी नरो यस्तु भुंक्ते मासचतुष्टयम्
दशवर्षसहस्राणि इंद्रलोके महीयते । चतुरो वार्षिकान्मासान्मौनं चैव समाचरेत्
स च विष्णुपुरं गच्छेद्ब्राह्मं च तदनंतरम् । मौनभोजी नरो यस्तु कदाचिन्नावसीदति
मौनेन भुंजमानास्तु राक्षसास्त्रिदिवं गताः । कृमिकीटसमायुक्तं पक्वान्नमशुची भवेत्
गवां मांससमं ज्ञेयमन्नं चापि द्विजोत्तम । तदन्नमशुचि ज्ञेयं ग्रसते मानुषो यदि
एतद्वै भोजनं प्रोक्तं राक्षसानां प्रियं सदा । तोषितो हि पुरा ब्रह्मा तेन दत्तं महात्मना
मौनेन भोजयित्वा तु स्वर्गं प्राप्ता न संशयः । संजल्पन्भुंजते यस्तु तेनान्नमशुची भवेत्