पंचगव्याशनो विद्वन्चांद्रायणफलं लभेत् । नित्यं शास्त्रविनोदेन लोकान्यस्तु प्रबोधयेत्
स व्यासरूपी विष्ण्वग्रे ततो विष्णुपदं लभेत् । तुलसीदलपूजां तु कृत्वा विष्णुपुरं व्रजेत्
कृत्वा प्रोक्षणकं दिव्यं स्थानमप्सरसां लभेत् । शीतांबुना गृहे स्नानात्निर्मलं देहमाप्नुयात्
उष्णोदकं परित्यज्य स्नानं वै पौष्करं लभेत् । पत्रेषु यो नरो भुंक्ते कुरुक्षेत्रफलं लभेत्
भुंक्ते शिलायां यो नित्यं तस्य पुण्यं प्रयागजम् । धर्मोदयजलत्यागी न रोगैः परिभूयते
ताम्रपात्रेषु भुंजानो नैमिषं फलमाप्रुयात् । कांस्यपात्रं परित्यज्य शेषपात्रमुपाचरेत्
अलाभे सर्वपात्राणां मृन्मयं पात्रमुत्तमम् । स्वगृहीतैः कृतैर्वापि पात्रैः पालाशसंभवैः
यस्तु संवत्सरं पूर्ण अग्निहोत्रमुपासते । पात्रैर्वा भोजनं विद्वान्सेवते तत्समं स्मृतम्
चांद्रायणसमं प्रोक्तं ब्रह्मपात्रेषु भोजने । एकैकं भोजनं विद्वन्ब्रह्मपत्रेषु भुंजतः
त्रिरात्रेण समं प्रोक्तं महापातकनाशनम् । एकादश्युपवासेन यत्पुण्यं परिकीर्तितम्
सर्वदानफलं चैव सर्वतीर्थफलं लभेत् । न चापि नरकं पश्येत्पद्मपत्रेषु भोजनात्
ब्राह्मणो याति वैकुंठेऽन्यो जनः स्वर्गमाप्नुयात् । एष ब्रह्म महावृक्षः पापहा सर्वकामदः
मध्यमं वर्जितं पत्रं शूद्रजातेर्नृपोत्तम । भुंजन्नरकमाप्नोति यावदिंद्राश्चतुर्दश
वर्जयेन्मध्यमं पत्रं शेषपत्रेषु भोजनम् । मध्यपत्रे च यः शूद्रो भोजनं कुरुते द्विज
कपिलां ब्रह्मणे दत्त्वा शुद्धिर्भवति नान्यथा । कपिलां दोहयेद्यस्तु शूद्रो भुंक्ते निजे गृहे
दशवर्षसहस्राणि विष्ठायां जायते कृमिः । कृमियोनिविनिर्मुक्तः पशुयोनिमवाप्नुयात्
कपिलं योह्यनड्वाहं शूद्रो भूत्वात्र वाहयेत् । यावंति तस्य रोमाणि तावद्वर्षाणि नारद 6.64.
कुंभीपाकेषु पच्येत स नरो नात्र संशयः । अजा चैव गृहे तस्य शूद्रस्य च विशेषतः
तस्या वै दुग्धपानेन शूद्रो यातीह रौरवम् । ब्राह्मणैः सह व्यापारो यस्य शूद्रस्य दृश्यते
स विप्रो वेदबाह्यः स्याच्छूद्रः कौलिक उच्यते । व्यापारे प्रेरितो विप्रः शूद्राज्ञां च करोति यः
यावत्पदानि चलते तावद्भवति नारकी । उदकार्थं तु यो विप्रः शूद्रेण प्रेषितो गृहे
तदुदकं मद्यतुल्यं पीत्वा वै नरकं व्रजेत् । शूद्रेण सर्वदा नित्यं दानं देयं द्विजन्मने
तेषां चैव तु वै भक्तिः कर्त्तव्या च विशेषतः । इहलोके सुखं भुक्त्वा परलोकं च गच्छति
पांचभौतिकमेतद्धि अनर्थकमुदाहृतम् । अतो देयं हि गुरवे यतोऽनंतफलं लभेत्
अस्मिन्कलियुगे घोरे पापाचारे दुरात्मनः । निंदां कुर्वंति विप्रेंद्र जनानां पुण्यकर्मणाम्
निंदया लभते दुःखं यावदाभूतसंप्लवम् । नानाधर्माः प्रवर्त्तंते कलौ चैव महामते
धर्मोऽयं दुर्ल्लभो लोके धर्मकामार्थमोक्षदः । भूमिशायी भवेद्यस्तु नरः कोऽपि महीतले
दशवर्षसहस्राणि न रोगैः परिपीड्यते । बहुपुत्रो धनैर्युक्तो ह्यकुष्ठी जायते नरः
नक्तभोजी नरो यस्तु तीर्थयात्राफलं लभेत् । अयाचितेन चाप्नोति वापीकूपक्रिंया फलम्
वर्जयेद्यस्तु वै द्रोहं प्राणहिंसापराङ्मुखः । अहिंसा परमो धर्म इति वेदेषु गीयते