वर्जयेद्यस्तु वैरूप्यं दौर्गंध्यं नाप्नुयान्नरः । तांबूलवर्जनाद्भोगी रक्तकंठस्तु जायते
घृतत्यागाच्च लावण्यं सदा स्निग्धतनुर्भवेत् । फलत्यागाच्च विपेंद्र बहुपुत्रश्च जायते
पलाशपत्राशनकृद्रूपवान्भोगवान्भवेत् । दीप्तिमान्दीप्तिकरणः साक्षाद्द्रव्यपतिर्भवेत्
दधिदुग्धपरित्यागी गोलोकं लभते नरः । मौनव्रती भवेद्यस्तु तस्याज्ञाऽस्खलिता भवेत्
इंद्रासनमवाप्नोति स्थालीपाकस्य वर्जनात् । एवमादि परित्यागाद्धर्मस्थो धर्मनंदनः
नमोनारायणायेति जप्त्वा शतगुणं फलम् । एक एव स वै स्वर्गे विद्याधरपतिर्भवेत्
पुष्करस्नानमात्रेण गंगायाः स्नानजं फलम्
भूमौ भुंक्ते सदा यस्तु स पृथिव्यधिपो भवेत् । विष्णोश्चैव गृहे कुर्यादुपलेपनमार्जनम्
कल्पस्थायी भवेद्विद्वन्वैकुंठे नात्र संशयः । प्रदक्षिणं च यः कुर्याच्छतमष्टोत्तरं नरः
हंसयुक्तविमानेन दिव्येन सह गच्छति । गीतवाद्यकरो विष्णोर्गांधर्वं लोकमाप्नुयात्
पंचगव्याशनो विद्वन्चांद्रायणफलं लभेत् । नित्यं शास्त्रविनोदेन लोकान्यस्तु प्रबोधयेत्
स व्यासरूपी विष्ण्वग्रे ततो विष्णुपदं लभेत् । तुलसीदलपूजां तु कृत्वा विष्णुपुरं व्रजेत्
कृत्वा प्रोक्षणकं दिव्यं स्थानमप्सरसां लभेत् । शीतांबुना गृहे स्नानात्निर्मलं देहमाप्नुयात्
उष्णोदकं परित्यज्य स्नानं वै पौष्करं लभेत् । पत्रेषु यो नरो भुंक्ते कुरुक्षेत्रफलं लभेत्
भुंक्ते शिलायां यो नित्यं तस्य पुण्यं प्रयागजम् । धर्मोदयजलत्यागी न रोगैः परिभूयते
ताम्रपात्रेषु भुंजानो नैमिषं फलमाप्रुयात् । कांस्यपात्रं परित्यज्य शेषपात्रमुपाचरेत्
अलाभे सर्वपात्राणां मृन्मयं पात्रमुत्तमम् । स्वगृहीतैः कृतैर्वापि पात्रैः पालाशसंभवैः
यस्तु संवत्सरं पूर्ण अग्निहोत्रमुपासते । पात्रैर्वा भोजनं विद्वान्सेवते तत्समं स्मृतम्
चांद्रायणसमं प्रोक्तं ब्रह्मपात्रेषु भोजने । एकैकं भोजनं विद्वन्ब्रह्मपत्रेषु भुंजतः
त्रिरात्रेण समं प्रोक्तं महापातकनाशनम् । एकादश्युपवासेन यत्पुण्यं परिकीर्तितम्
सर्वदानफलं चैव सर्वतीर्थफलं लभेत् । न चापि नरकं पश्येत्पद्मपत्रेषु भोजनात्
ब्राह्मणो याति वैकुंठेऽन्यो जनः स्वर्गमाप्नुयात् । एष ब्रह्म महावृक्षः पापहा सर्वकामदः
मध्यमं वर्जितं पत्रं शूद्रजातेर्नृपोत्तम । भुंजन्नरकमाप्नोति यावदिंद्राश्चतुर्दश
वर्जयेन्मध्यमं पत्रं शेषपत्रेषु भोजनम् । मध्यपत्रे च यः शूद्रो भोजनं कुरुते द्विज
कपिलां ब्रह्मणे दत्त्वा शुद्धिर्भवति नान्यथा । कपिलां दोहयेद्यस्तु शूद्रो भुंक्ते निजे गृहे
दशवर्षसहस्राणि विष्ठायां जायते कृमिः । कृमियोनिविनिर्मुक्तः पशुयोनिमवाप्नुयात्
कपिलं योह्यनड्वाहं शूद्रो भूत्वात्र वाहयेत् । यावंति तस्य रोमाणि तावद्वर्षाणि नारद 6.64.
कुंभीपाकेषु पच्येत स नरो नात्र संशयः । अजा चैव गृहे तस्य शूद्रस्य च विशेषतः
तस्या वै दुग्धपानेन शूद्रो यातीह रौरवम् । ब्राह्मणैः सह व्यापारो यस्य शूद्रस्य दृश्यते
स विप्रो वेदबाह्यः स्याच्छूद्रः कौलिक उच्यते । व्यापारे प्रेरितो विप्रः शूद्राज्ञां च करोति यः