शाकं मधु परान्नं च पुनर्भोजन मैथुनम् । वैष्णवो व्रतकर्त्ता च दशम्यां दश वर्जयेत्
द्यूतं क्रीडां तथा निद्रा तांबूलं दंतधावनम् । परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम्
क्रोधं च वितथं वाक्यमेकादश्यां विवर्जयेत् । कांस्यं मांसंमसूरांश्च तैलं वितथभाषणम्
व्यायामं च प्रवासं च पुनर्भोजनमैथुनम् । वृषपृष्ठं परान्नं च शाकं च द्वादशीदिने
अनेन विधिना राजन्विहिता यैश्च कामदा । रात्रौ जागरणं कृत्वा पूजितः पुरुषोत्तमः
सर्वपापविनिर्मुक्तास्ते यांति परमां गतिम् । पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे पुरुषोत्तममासस्य शुक्ला कामदानामैकादशीनाम त्रिषष्टितमोऽध्यायः
नारद उवाच- चातुर्मास्यां तु नियमा ये केचिद्भुवि विश्रुताः । तानहं श्रोतुमिच्छामि कथयस्व महेश्वर
चातुर्मास्ये हरौ सुप्ते कर्त्तव्यं किं जनार्दने । षड्रसानां परित्यागे नखकेशविधारणे । अन्यैश्च नियमैः स्वामिन्यत्फलं तद् ब्रवीहि मे
सूत उवाच- एतच्छ्रुत्वा त्वसौ देवः प्रहस्योत्फुल्ललोचनः । प्रोवाच तं द्विजवरं नारदं तपसान्निधिम्
महादेव उवाच- शृणु त्वमिह देवर्षे कथयामि सविस्तरम् । आषाढस्य सिते पक्षे एकादश्यामुपोषितः
चातुर्मास्यव्रतानीह गृह्णीयाद्भक्तिपूर्वकम् । भूमिशय्यासमारूढो योगनिद्रां गते हरौ
नयेत चतुरो मासान्यावद्भवति कार्तिकी । प्रतिष्ठा न प्रवर्त्तंते तथा यज्ञादिकाः क्रियाः
विवाहव्रतसंबंध अन्यन्माङ्गल्यकर्म च । भूपयानं तथा यात्रा अन्याश्च विविधाः क्रियाः
प्रसुप्ते च जगन्नाथे अच्युते गरुडध्वजे । व्रतक्रियां चरेद्यस्तु तस्य व्रतफलं शृणु
अश्वमेधसहस्रैस्तु यत्फलं प्राप्नुयान्नरः । चातुर्मास्यव्रतैश्चीर्णैस्तत्फलं समवाप्नुयात्
मिथुनस्थे सहस्रांशौ स्वापयेन्मधुसूदनम् । तुलाराशौ गते सूर्ये पुनरुत्थापयेद्धरिम्
अधिमासे तु पतिते तदा चैष विधिक्रमः । स्थापयेत्प्रतिमां विष्णोः शंखचक्रगदाधरीम्
पीतांबरधरां सौम्यां पर्यंके स्थापयेत्शुचौ । श्वेतवस्त्रसमाच्छन्ने सोपधाने तु नारद
इतिहासपुराणज्ञो विष्णुभक्तोऽथवा पुनः । स्नापयित्वा दधिक्षीरमधुलाजघृतस्तथा
समालभ्य शुभैर्गंधैर्धूपैः पुष्पैर्मनोरमैः । पूजितां कुसुमैः शुभ्रैर्मंत्रेणानेन वाडव
सुप्ते त्वयि जगन्नाथे जगत्सुप्तं भवेदिदम् । विबुद्धे त्वयि बुध्येत जगत्सर्वं चराचरम्
एवं तां प्रतिमां विष्णोः स्थापयित्वा तु नारद । तस्यैवाग्रे स्वयं वाचा गृह्णीयान्नियमं ततः
स्त्री वा नरो वा तद्भक्तो धर्माधर्मविभागतः । चतुरो वार्षिकान्मासान्देवस्योत्थापनावधि
गृह्णीयान्नियमानेतान्दंतधावनपूर्वकम् । उपवासं ततः कृत्वा प्रभाते विमले सति
नित्यं कर्म चरित्वा तु विष्णोरग्रे जितात्मवान् । तेषां फलानि वक्ष्यामि तत्कर्तॄणां पृथक्पृथक्
मधुरत्वं लभेद्विद्वान्पुरुषो गुडवर्जनात् । तथैव संततिं दीर्घां तैलस्य वर्जनाद्यतः
घृतस्य वर्जनाद्विप्र सुंदरांगः प्रजायते । कटुतैलपरित्यागी शत्रुनाशमवाप्नुयात्
सुगंधतैलत्यागेन सौभाग्यमतुलं लभेत् । पुष्पभोगपरित्यागी स्वर्गे विद्याधरो भवेत्
योगाभ्यासी नरो यस्तु स ब्रह्मपदमाप्नुयात् । कट्वम्लमधुरक्षारतीक्ष्णकाषाय षड्रसान्