इतिहासपुराणार्थं व्यासः सम्यगुपासितः। दुदोहिथमतिं तस्य त्वं पुराणाश्रयां शुभां
अमीषां विप्रमुख्यानां पुराणं प्रति सम्प्रति। शुश्रूषाऽस्ते महाबुद्धे तछ्रावयितुमर्हसि
सर्वे हीमे महात्मानो नानागोत्राः समागताः। स्वान्स्वानंशान्पुराणोक्ताञ्छृण्वन्तु ब्रह्मवादिनः
संपूर्णे दीर्घसत्रेस्मिंस्तांस्त्वं श्रावय वै मुनीन्। पाद्मं पुराणं सर्वेषां कथयस्व महामते
कथं पद्मं समुद्भूतं ब्रह्म तत्र कथं न्वभूत्। प्रोद्भूतेन कथं सृष्टिः कृता तां तु तथा वद
एवं पृष्टस्ततस्तांस्तु प्रत्युवाच शुभां गिरम्। सूक्ष्मं च न्यायसंयुक्तं प्राब्रवीद्रौमहर्षणिः
प्रीतोस्म्यनुगृहीतोस्मि भवद्भिरिह चोदनात्। पुराणार्थं पुराणज्ञैः सर्वधर्मपरायणैः
यथाश्रुतं सुविख्यातं तत्सर्वं कथयामि वः। धर्म एष तु सूतस्य सद्भिर्दृष्टः सनातनः
देवतानामृषीणां च राज्ञां चामिततेजसाम्। वंशानां धारणं कार्यं स्तुतीनां च महात्मनाम्
इतिहासपुराणेषु दृष्टा ये ब्रह्मवादिनः। न हि वेदेष्वधीकारः कश्चित्सूतस्य दृश्यते
वैन्यस्य हि पृथोर्यज्ञे वर्त्तमाने महात्मनः। मागधश्चैव सूतश्च तमस्तौतां नरेश्वरम्
तुष्टेनाथ तयोर्द्दत्तो वरो राज्ञा महात्मना। सूताय सूतविषयो मगधो मागधाय च
तत्र सूत्यां समुत्पन्नः सूतो नामेह जायते। ऐन्द्रे सत्रे प्रवृत्ते तु ग्रहयुक्ते बृहस्पतौ
तमेवेंद्रं बार्हस्पत्ये तत्र सूतो व्यजायत। शिष्यहस्तेन यत्पृक्तमभिभूतं गुरोर्हविः
अधरोत्तरधारेण जज्ञे तद्वर्णसंकरम्। येत्र क्षत्रात्समभवन्ब्राह्मण्याश्चैव योनितः
पूर्वेणैव तु साधर्म्याद्वैधर्मास्ते प्रकीर्तिताः। मध्यमो ह्येष सूतस्य धर्मः क्षेत्रोपजीविनः
पुराणेष्वधिकारो मे विहितो ब्राह्मणैरिह। दृष्ट्वा धर्ममहं पृष्टो भवद्भिर्ब्रह्मवादिभिः
तस्मात्सम्यग्भुवि ब्रूयां पुराणमृषिपूजितम्। पितॄणां मानसी कन्या वासवं समपद्यत
अपध्याता च पितृभिर्मत्स्यगर्भे बभूव सा। अरणीव हुताशस्य निमित्तं पुण्यजन्मनः
तस्यां बभूव पूतात्मा महर्षिस्तु पराशरात्। तस्मै भगवते कृत्वा नमः सत्याय वेधसे
पुरुषाय पुराणाय ब्रह्मवाक्यानुवर्तिने। मानवच्छद्मरूपाय विष्णवे शंसितात्मने
जातमात्रं च यं वेद उपतस्थे ससंग्रहः। मतिमंथानमाविध्य येनासौ श्रुतिसागरात्
प्रकाशो जनितो लोके महाभारत चंद्रमाः। भारतं भानुमान्विष्णुर्यदि न स्युरमी त्रयः
ततोऽज्ञानतमोंधस्य कावस्था जगतो भवेत्। कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्
को ह्यन्यः पुंडरीकाक्षान्महाभारतकृद्भवेत्। तस्मादहमुपाश्रौषं पुराणं ब्रह्मवादिनः
सर्वज्ञात्सर्वलोकेषु पूजिताद्दीप्ततेजसः। पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम्
उत्तमं सर्वलोकानां सर्वज्ञानोपपादकम्। त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम्
निःशेषेषु च लोकेषु वाजिरूपेण केशवः। ब्रह्मणस्तु समादेशाद्वेदानाहृतवानसौ
अंगानि चतुरो वेदान्पुराणन्यायविस्तरम्। असुरेणाखिलं शास्त्रमपहृत्यात्मसात्कृतम्
मत्स्यरूपेणाजहार कल्पादावुदकार्णवे। अशेषमेतदवददुदकांतर्गतो विभुः