हरिपूजापरा ये च ते कृतार्थाः कलौ युगेः । शुक्ले वा यदि वा कृष्णे भवेदेकादशी द्वयम्
गृहस्थानां भवेत्पूर्वा यतीनामुत्तरा स्मृता । एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे
एकादश्यां निराहारः स्थित्वाहमपरेऽहंनि । भोक्ष्यामि पुंडरीकाक्ष शरणं मे भवाच्युत
अमुं मंत्रं समुच्चार्य देवदेवस्य चक्रिणः । भक्तिभावेन तुष्टात्मा उपवासं समाचरेत्
कुर्याद्देवस्य पुरतो जागरं नियतो व्रती । गीतैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः
ततः प्रातः समुत्थाय द्वादशीदिवसे व्रती । स्नात्वा विष्णुं समभ्यर्च्य विधिवत्प्रयतेंद्रियः
पंचामृतेन संस्नाप्य एकादश्यां जनार्दनः । द्वादश्यां च पयःस्नानाद्धरेः सारूप्यमश्नुते
अज्ञानतिमिरांधस्य व्रतेनानेन केशव । प्रसीद सन्मुखो भूत्वा ज्ञानदृष्टिप्रदो भव
एवं विज्ञाप्य देवेशं देवदेवं गदाधरम् । ब्राह्मणान्भोजयेद्भक्त्या तेभ्यो दद्याच्च दक्षिणाम्
ततः स्वबंधुभिः सार्द्धं नारायणपरायणः । कृत्वा पंचमहायज्ञान्स्वयं भुंजीत वाग्यतः
एवं यः प्रयतः कुर्यात्पुण्यमेकादशीव्रतम् । स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम्
इत्युक्त्वा कमला तस्मै वरं दत्त्वा तिरोदधे । सोऽपि विप्रो धनी भूत्वा पितुर्गेहं समागतः
श्रीकृष्ण उवाच- एवं यः कुरुते राजन्कमलाव्रतमुत्तमम् । शृणुयाद्वासरे विष्णोः सर्वपापैः प्रमुच्यते
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे पुरुषोत्तममासस्य कृष्णा कमलानामैकादशीनाम द्विषष्टिमोऽध्यायः
युधिष्ठिर उवाच - श्रुतानि बहुधर्माणि व्रतानि च जगत्प्रभो । एकादशीसमं किंजिच्छ्रुतं नैव जनार्दन
पुनस्त्वेकादशीं ब्रूहि पापघ्नीं पुण्यदायिनीम् । यां कृत्वा मनुजो लोके प्राप्नुयात्परमं पदम्
श्रीकृष्ण उवाच- शुक्ले वा यदि वा कृष्णे यदा चैकादशी भवेत् । न त्याज्या जगतीपाल मोक्षसौख्यविवर्द्धनी
एकादशी कलौ राजन्भवबंधविमोचनी । कामदा सर्वकामानां पापानां पापहा भुवि
रविवारेऽथ मांगल्ये संक्रमे वा नृपोत्तम । एकादशी सदोपोष्या पुत्रपौत्रविवर्द्धनी
एकादशीव्रतं क्वापि न त्याज्यं विष्णुवल्लभैः । आयुः कीर्तिप्रदं नित्यं संतानारोग्यवित्तदम्
मोक्षदं रूपदं राज्यं नित्यमेकादशीव्रतम् । ये कुर्वंति महीपाल श्रद्धया परया युताः
यथोक्तविधिना लोके ते नरा विष्णुरूपिणः । जीवन्मुक्तास्तु भूपाल दृश्यंते नात्र संशयः
युधिष्ठिर उवाच- जीवन्मुक्ताः कथं कृष्ण विष्णुरूपाः कथं पुनः । पापरूपाश्च दृश्यंते परं कौतूहलं हि मे
श्रीकृष्ण उवाच- ये च राजन्कलौ भक्त्या निर्जलं व्रतमुत्तमम् । एकादश्याः प्रकुर्वंति विधिदृष्टेन कर्मणा
न कथं विष्णुरूपास्ते जीवन्मुक्ताः कथं नहि । सर्वपापहरं पुण्यं व्रतमेकादशीसमम्
न किंचिद्विद्यते राजन्सर्वकामप्रदं नृणाम् । एकाशनं दशम्यां च नंदायां निर्जलं व्रतम्
पारणं चैव भद्रायां कृत्वा विष्णुसमा नराः । श्रद्धावान्यस्तु कुरुते कामदाया व्रतं शुभम्
वांछितं लभते सोऽपि इहलोके परत्र च । पवित्रा पावनी ह्येषा महापातकनाशिनी
भुक्तिमुक्तिप्रदा चैव कर्तॄणां नृपसत्तम । कामदायां विधानेन पूजयेत्पुरुषोत्तमम्
पुष्पधूपादिभिश्चैव नैवेद्यैर्विविधैस्तथा । कांस्य मांसमसूरांश्च चणकान्कोद्रवांस्तथा