लक्ष्मीरुवाच- प्रसन्ना सांप्रतं जाता वैकुंठादहमागता । प्रेरिता देवदेवेन कमलायाः प्रभावतः
पुरुषोत्तममासस्य या पक्षे प्रथमे भवेत् । तस्या व्रतं त्वया चीर्णं प्रयागे मुनिसंनिधौ
व्रतस्यास्य प्रभावेन वशगाहं न संशयः । तववंशे भविष्यंति मानवा द्विजसत्तम
मत्प्रसादादवाप्स्यंति सत्यं ते व्याहृतं मया । ब्राह्मण उवाच- प्रसन्ना यदि मे पद्मे व्रतं विस्तरतो वद
यत्कथासु प्रवर्तंते साधवो ये जना द्विजाः । लक्ष्मीरुवाच- श्रोतॄणां परमं श्राव्यं पवित्राणामनुत्तमम्
दुःस्वप्ननाशनं पुण्यं श्रोतव्यं यत्नतस्ततः । उत्तमः श्रद्धया युक्तः श्लोकं श्लोकार्द्धमेव वा
पठित्वा मुच्यते सद्यो महापातककोटिभिः । मासानां परमो मासः पक्षिणां गरुडो यथा
नदीनां च यथा गंगा तिथीनां द्वादशी तिथिः । अद्यापि निर्जराः सर्वे भारते जन्मलिप्सवः
तमर्चयंति विविधा नारायणमनामयम् । ये यजंति सदा भक्त्या देवं नारायणं प्रभुम्
तानर्चयंति सततं ब्रह्माद्या देवतागणाः । येऽपि नामपरा ये च हरिकीर्त्तनतत्पराः
हरिपूजापरा ये च ते कृतार्थाः कलौ युगेः । शुक्ले वा यदि वा कृष्णे भवेदेकादशी द्वयम्
गृहस्थानां भवेत्पूर्वा यतीनामुत्तरा स्मृता । एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे
एकादश्यां निराहारः स्थित्वाहमपरेऽहंनि । भोक्ष्यामि पुंडरीकाक्ष शरणं मे भवाच्युत
अमुं मंत्रं समुच्चार्य देवदेवस्य चक्रिणः । भक्तिभावेन तुष्टात्मा उपवासं समाचरेत्
कुर्याद्देवस्य पुरतो जागरं नियतो व्रती । गीतैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः
ततः प्रातः समुत्थाय द्वादशीदिवसे व्रती । स्नात्वा विष्णुं समभ्यर्च्य विधिवत्प्रयतेंद्रियः
पंचामृतेन संस्नाप्य एकादश्यां जनार्दनः । द्वादश्यां च पयःस्नानाद्धरेः सारूप्यमश्नुते
अज्ञानतिमिरांधस्य व्रतेनानेन केशव । प्रसीद सन्मुखो भूत्वा ज्ञानदृष्टिप्रदो भव
एवं विज्ञाप्य देवेशं देवदेवं गदाधरम् । ब्राह्मणान्भोजयेद्भक्त्या तेभ्यो दद्याच्च दक्षिणाम्
ततः स्वबंधुभिः सार्द्धं नारायणपरायणः । कृत्वा पंचमहायज्ञान्स्वयं भुंजीत वाग्यतः
एवं यः प्रयतः कुर्यात्पुण्यमेकादशीव्रतम् । स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम्
इत्युक्त्वा कमला तस्मै वरं दत्त्वा तिरोदधे । सोऽपि विप्रो धनी भूत्वा पितुर्गेहं समागतः
श्रीकृष्ण उवाच- एवं यः कुरुते राजन्कमलाव्रतमुत्तमम् । शृणुयाद्वासरे विष्णोः सर्वपापैः प्रमुच्यते
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे पुरुषोत्तममासस्य कृष्णा कमलानामैकादशीनाम द्विषष्टिमोऽध्यायः
युधिष्ठिर उवाच - श्रुतानि बहुधर्माणि व्रतानि च जगत्प्रभो । एकादशीसमं किंजिच्छ्रुतं नैव जनार्दन
पुनस्त्वेकादशीं ब्रूहि पापघ्नीं पुण्यदायिनीम् । यां कृत्वा मनुजो लोके प्राप्नुयात्परमं पदम्
श्रीकृष्ण उवाच- शुक्ले वा यदि वा कृष्णे यदा चैकादशी भवेत् । न त्याज्या जगतीपाल मोक्षसौख्यविवर्द्धनी
एकादशी कलौ राजन्भवबंधविमोचनी । कामदा सर्वकामानां पापानां पापहा भुवि
रविवारेऽथ मांगल्ये संक्रमे वा नृपोत्तम । एकादशी सदोपोष्या पुत्रपौत्रविवर्द्धनी
एकादशीव्रतं क्वापि न त्याज्यं विष्णुवल्लभैः । आयुः कीर्तिप्रदं नित्यं संतानारोग्यवित्तदम्